अध्यायः 294

भीष्मेण युधिष्ठिरंप्रति मुक्तिसाधनप्रतिपादकसगरारिष्टनेमिसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।
कथं नु युक्तः पृथिवीं चरेदस्मद्विधो नृपः ।
नित्यं कैश्च गुणैर्युक्तः सङ्गपाशाद्विमुच्यते ॥
भीष्म उवाच ।
अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् ।
अरिष्टनेमिना प्रोक्तं सगरायानुपृच्छते ॥
सगर उवाच ।
किं श्रेयः परमं ब्रह्मन्कृत्वेह सुखमश्नुते ।
कथं न शोचेन्न क्षुभ्येदेतदिच्छामि वेदितुम् ॥
भीष्म उवाच ।
एवमुक्तस्तदा तार्क्ष्यः सर्वशास्त्रविदां वरः ।
विबुध्य संपदं चाग्र्यां सद्वाक्यमिदमब्रवीत् ॥
सुखं मोक्षसुखं लोके न च मूढोऽवगच्छति ।
प्रसक्तः पुत्रपशुषु धनधान्यसमाकुलः ॥
सक्तबुद्धिरशान्तात्मा स न शक्यश्चिकित्सितुम् ।
स्नेहपाशसितो मूढो न स मोक्षाय कल्पते ॥
स्नेहजानिह ते पाशान्वक्ष्यामि शृणु तान्मम ।
सकर्णकेन शिरसा शक्याश्छेत्तुं विजानता ॥
संभाव्य पुत्रान्कालेन यौवनस्थान्निवेश्य च ।
समर्थाज्जीवने ज्ञात्वा मुक्तश्चर यथासुखम् ॥
भार्यां पुत्रवतीं वृद्धां लालितां पुत्रवत्सलाम् ।
ज्ञात्वा प्रजहि कालेन परार्थमनुदृश्य च ॥
सापत्यो निरपत्यो वा मुक्तश्चर यथासुखम् ।
इन्द्रियैरिन्द्रियार्थांस्त्वमनुभूय यथाविधि ॥
कृतकौन्तूहलस्तेषु मुक्तश्चर यथासुखम् ।
उपपत्त्योपलब्धेषु लोकेषु च समो भव ॥
एष तावत्समासेन तव संकीर्तितो मया ।
मोक्षार्थो विस्तरेणाथ भूयो वक्ष्यामि तच्छृणु ॥
मुक्ता वीतभया लोके चरन्ति सुखिनो नराः ।
सक्तभावा विनश्यन्ति नरास्तत्र न संशयः ॥
आहारसंचये सक्ता यथा कीटपिपीलिकाः ।
असक्ताः सुखिनो लोके सक्ताश्चैव विनाशिनः ॥
स्वजने न च ते चिन्ता कर्तव्या मोक्षबुद्धिना ।
इमे मया विनाभूता भविष्यन्ति कथं त्विति ॥
स्वयमुत्पद्यते जन्तुः स्वयमेव विवर्धते ।
सुखदुःखे तथा मृत्युं स्वयमेवाधिगच्छति ॥
भोजनाच्छादने चैव मात्रा पित्रा च संग्रहम् ।
स्वकृते नाधिगच्छन्ति लोके नास्त्यकृतं पुरा ॥
धात्रा विहितभक्ष्याणि सर्वभूतानि मेदिनीम् ।
लोके विपरिधावन्ति रक्षितानि स्वकर्मभिः ॥
स्वयं मृत्पिण्डभूतस्य परतन्त्रस्य सर्वदा ।
को हेतुः स्वजनं द्वेष्टुं रक्षितं वाऽदृढात्मनः ॥
स्वजनं हि यदा मृत्युर्हन्त्येव भुवि पश्यतः ।
कृतेऽपि यत्ने महति तत्र बोद्धव्यमात्मना ॥
जीवन्तमपि चैवैनं भरणे रक्षणे तथा ।
असमाप्ते परित्यज्य पश्चादपि मरिष्यसि ॥
यदा मृतं च स्वजनं न ज्ञास्यसि कथंचन ।
सुखितं दुःखितं वाऽपि ननु बोद्धव्यमात्मना ॥
मृते वा त्वयि जीवे वा यदा भोक्ष्यति वै जनः ।
स्वकृतं ननु बुद्ध्वैवं कर्तव्यं हितमात्मनः ॥
एवं विजानँल्लोकेऽस्मिन्कः कस्येत्यभिनिश्चितः ।
मोक्षे निवेशय मनो भूयश्चाप्युपधारय ॥
क्षुत्पिपासादयो भावा जिता यस्येह देहिनः ।
क्रोधो लोभस्तथा मोहः सत्ववान्मुक्त एव सः ॥
द्यूते पाने तथा स्त्रीषु मृगयायां च यो नरः ।
न प्रमाद्यति संमोहात्सततं मुक्त एव सः ॥
दिवसेदिवसे नाम रात्रौरात्रौ पुमान्सदा ।
भोक्तव्यमिति यः स्विन्नो दोषबुद्धिः स उच्यते ॥
आत्मभावं तथा स्त्रीषु सक्तमेव पुनः पुनः ।
यः पश्यति सदा युक्तो यथावन्मुक्त एव सः ॥
संभवं च विनाशं च भूतानां चेष्टितं तथा ।
यस्तत्त्वतो विजानाति लोकेऽस्मिन्मुक्त एव सः ॥
प्रस्थं वाहसहस्रेषु यात्रार्थं चैव कोटिषु ।
प्रासादे मञ्चकं स्थानं यः पश्यति स मुच्यते ॥
मृत्युनाऽभ्याहतं लोकं व्याधिभिश्चोपपीडितम् ।
अवृत्तिकर्शितं चैव यः पश्यति स मुच्यते ॥
यः पश्यति स संतुष्टो नपश्यंश्च विहन्यते ।
यश्चाप्यल्पेन संतुष्टो लोकेऽस्मिन्मुक्त एव सः ॥
अग्नीषोमाविदं सर्वमिति यश्चानुपश्यति ।
न च संस्पृश्यते भावैरद्भुतैर्मुक्त एव सः ॥
पर्यङ्कशय्या भूमिश्च सामने यस्य देहिनः ।
शाल्यन्नं च कदन्नं च यस्य स्यान्मुक्त एव सः ॥
क्षौमं च कुशचीरं च कौशेयं वल्कलानि च ।
आविकं चर्म च समं यस्य स्यान्मुक्त एव सः ॥
पञ्चभूतसमुद्भूतं लोकं यश्चानुपश्यति ।
तथाच वर्तते दृष्ट्वा लोकेऽस्मिन्मुक्त एव सः ॥
सुखदुःखे समे यस्य लाभालाभौ जयाजयौ ।
इच्छाद्वेषौ भयोद्वेगौ सर्वथा मुक्त एव सः ॥
रक्तमूत्रपुरीषाणां दोषाणां संचयांस्तथा ।
शरीरं दोषबहुलं दृष्ट्वा चैव विमुच्यते ॥
वलीपलितसंयोगं कार्श्यं वैवर्ण्यमेव च ।
कुजभावं च जरयाः यः पश्यति स मुच्यतेत ॥
पुंस्त्वोपघातं कालेन दर्शनोपरमं तथा ।
बाधिर्यं प्राणमन्दत्वं यः पश्यति स मुच्यते ॥
गतानृषींस्तथा देवानसुरांश्च तथा गतान् ।
लोकादस्मात्परं लोकं यः पश्यति स मुच्यते ॥
प्रभावैरन्वितास्तैस्तैः पार्थिवेन्द्राः सहस्रशः ।
ये गताः पृथिवीं त्यक्त्वा इति ज्ञात्वा विमुच्यते ॥
अर्थांश्च दुर्लभाँल्लोके क्लेशांश्च सुलभांस्तथा ।
दुःखं चैव कुटुम्बार्थे यः पश्यति स मुच्यते ॥
अपत्यानां च वैगुण्यं जनं विगुणमेव च ।
पश्यन्भूयिष्ठशो लोके को मोक्षं नाभिपूजयेत् ॥
शास्त्राल्लोकाच्च यो बुद्धः सर्वं पश्यति मानवः ।
असारमिव मानुष्यं सर्वथा मुक्ता एव सः ॥
एतच्छ्रुत्वा मम वचो भवांश्चरतु मुक्तवत् ।
गार्हस्थ्याद्यदि ते मोक्षे कृता बुद्धिरविक्लवा ॥
तत्तस्य वचनं श्रुत्वा सम्यक्स पृथिवीपतिः ।
मोक्षजैश्च गुणैर्युक्तः पालयामास च प्रजाः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुर्नवत्यधिकद्विशततमोऽध्यायः ॥ 294 ॥

12-294-1 कथं विमुक्तः पृथिवीमिति थ. पाठः ॥ 12-294-5 नच लोकोऽवगच्छतीति थ. ध. पाठः ॥ 12-294-8 निवेश्य दारैः संयोज्य ॥ 12-294-9 परार्थमन्तिमं पुरुषार्थं मोक्षम् । प्रजहि त्यज ॥ 12-294-11 कृतकौतूहलः छिन्नौत्सुक्यः । लाभेषु च समो भवेति थ.ध. पाठः ॥ 12-294-12 मोक्षार्थो मोक्षप्रयोजनः ॥ 12-294-13 मुक्ताश्छिन्नस्नेहपाशाः । सक्तभावाः विषयासक्तवित्ताः ॥ 12-294-30 वाहः धान्यपूर्णं शकटम् । सहस्रेषु कोटिष्विति समानाधिकरणम् । प्रस्थं पुरुषाहारपरिमितं धान्यम् । यात्रार्थं देहव्यवहारार्थम् । अधिकसंग्रहो व्यर्थं इति यः पश्यति ॥ 12-294-31 अवृत्तिर्जीविकाया अभावः ॥ 12-294-32 नपश्यन्नित्येकं पदम् । मृत्युनाभ्याहतं लोकमित्यनुकृष्यते ॥ 12-294-33 अग्निर्जाठरो भोक्ता । सोमोऽन्नं भोज्यम् ॥ 12-294-34 शालयश्च कदग्नं चेति झ. ध. पाठः ॥ 12-294-38 श्लेष्ममूत्रपुरीषाणामिति ध. पाठः । छर्दिमूत्रेति थ. पाठः ॥ 12-294-40 बाधिर्यं घ्राणमन्दत्वमिति ध. पाठः ॥ 12-294-42 प्रतापैरन्विता इति थ. पाठः ॥