अध्यायः 295
भीष्मेण युधिष्ठिरंप्रति भार्गवचरित्रकथनम् ॥ 1 ॥
तिष्ठते मे सदा तात कौतूहलमिदं हृदि ।
तदहं श्रोतुमिच्छामि त्वत्तः कुरुपितामह ॥
कथं देवर्षिरुशना सदा काव्यो महामतिः ।
असुराणां प्रियकारः सुराणामप्रिये रतः ॥
वर्धयामास तेजश्च किमर्थममितौजसाम् ।
नित्यं वैरनिबद्धाश्च दानवाः सुरसत्तमैः ॥
कथं चाप्युशना प्राप शुक्रत्वममरद्युतिः ।
ऋद्धिं च स कथं प्राप्तः सर्वमेतद्ब्रवीहि मे ॥
न याति च स तेजस्वी मध्येन नभसः कथम् ।
एतदिच्छामि विज्ञातुं निखिलेन पितामह ॥
भीष्म उवाच ।
शृणु राजन्नवहितः सर्वमेतद्यथातथम् ।
यथामति यथा चैतच्छ्रुतपूर्वं मयाऽनघ ॥
एष भार्गवदायादो मुनिर्मान्यो दृढव्रतः ।
सुराणां विप्रियकरो निमित्ते कारणात्मके ॥
इन्द्रोऽथ धनदो राजा यक्षरक्षोधिपः सदा ।
प्रभविष्णुश्च कोशस्य जगतश्च तथा प्रभुः ॥
तस्यात्मानमथाविश्य योगसिद्धो महामुनिः ।
रुद्ध्वा धनपतिं देवं योगेन हृतवान्वसु ॥
हृते धने ततः शर्म न लेभे धनदस्तथा ।
आपन्नमन्युः संविग्नः सोभ्यगात्सुरसत्तमम् ॥
निवेदयामास तदा शिवायामिततेजसे ।
देवश्रेष्ठाय रुद्राय सौम्याय बहुरूपिणे ॥
योगात्मकेनोशनसा रुद्ध्वा मम हृतं वसु ।
योगेनात्मगतं कृत्वा निःसृतश्च महातपाः ॥
एतच्छ्रुत्वा ततः क्रुद्धो महायोगी महेश्वरः ।
संरक्तनयनो राजञ्शूलमादाय तस्थिवान् ॥
क्वासौ क्वासाविति प्राह गृहीत्वा परमायुधम् ।
उशना दूरतस्तस्य ह्यभूज्ज्ञात्वा चिकीर्षितम् ॥
स महायोगिनो बुद्ध्वा तं रोषं वै महात्मनः ।
गतिमागमनं वेत्ति स्थानं चैव ततः प्रभुः ॥
संचिन्त्येग्रेण तपसा महात्मानं महेश्वरम् ।
उशना योगसिद्धात्मा शूलाग्रे प्रत्यदृश्यत ॥
विज्ञातरूपः स तदा तपः सिद्धोऽथ धन्विना ।
ज्ञात्वा शूलं च देवेशः पाणिना समनामयत् ॥
आनतेनाथ शूलेन पाणिनामिततेजसा ।
पिनाकमिति चोवाच शूलमुग्रायुधः प्रभुः ॥
पाणिमध्यगतं दृष्ट्वा भार्गवं तमुमापतिः ।
आस्यं विवृत्य भ्रकुटिं पाणिं संप्राक्षिपच्छनैः ॥
स तु प्रविष्ट उशना कोष्ठं माहेश्वरं प्रभुः ।
व्यचरच्चापि तत्रासौ महात्मा भृगुनन्दनः ॥
युधिष्ठिर उवाच ।
किमर्थं व्यचरद्राजन्नुशना तस्य धीमतः ।
जठरे देवदेवस्य किंचाकार्षीन्महाद्युतिः ॥
भीष्म उवाच ।
पुरा सोऽन्तर्जलगतः स्थाणुभूतो महाव्रतः ।
वर्षाणामभवद्राजन्प्रयुतान्यर्बुदानि च ॥
उदतिष्ठत्तपस्तप्त्वा दुश्चरं च महाह्रदात् ।
ततो देवातिदेवस्तं ब्रह्मा वै समसर्पत ॥
तपोवृद्धिमपृच्छच्च कुशलं चैवमव्ययः ।
तपः सुचीर्णमिति च प्रोवाच वृषभध्वजः ॥
तत्संयोगेन वृद्धिं चाप्यपश्यत्स तु शंकरः ।
महामतिरचिन्त्यात्मा सत्यधर्मरतः सदा ॥
स तेनाढ्यो महायोगी तपसा च धनेन च ।
व्यराजत महाराज त्रिषु लोकेषु वीर्यवान् ॥
ततः पिनाकी योगात्मा ध्यानयोगं समाविशत् ।
उशना तु समुद्विग्नो निलिल्ये जठरे ततः ॥
तुष्टाव च महायोगी देवं तत्रस्थ एव च ।
निःसारं काङ्क्षमाणः स तेन स्म प्रतिहन्यते ॥
उशना तु तथोवाच जठरस्थो महामुनिः ।
प्रसादं मे कुरुष्वेति पुनः पुनररिंदम् ॥
तमुवाच महादेवो गच्छ शिश्नेन मोक्षणम् ।
इति सर्वाणि स्रोतांसि रुद्ध्वा त्रिदशपुङ्गवः ॥
अपश्यमानस्तद्द्वारं सर्वतः पिहितो मुनिः ।
पर्यक्रामद्दह्यमान इतश्चेतश्च तेजसा ॥
स वै निष्क्रम्य शिश्नेन शुक्रत्वमभिपेदिवान् ।
कार्येण तेन नभसो नाध्यगच्छत मध्यतः ॥
`तत एव च देवेषु अप्रविष्टो महामुनिः ।
पौरोहित्यं च दैत्यानां शक्रतेजोविवृद्धये ॥'
विनिष्क्रान्तं तु तं दृष्ट्वा ज्वलन्तमिव तेजसा ।
भवो रोषसमाविष्टः शूलोद्यतकरः स्थितः ॥
अवारयत तं देवी क्रुद्धं पशुपतिं पतिम् ।
पुत्रत्वमगमद्देव्या वारिते शंकरे च सः ॥
देव्युवाच ।
हिंसनीयस्त्वया नैव मम पुत्रत्वमागतः ।
न हि देवोदरात्कश्चिन्निःसृतो नाशमर्हति ॥
ततः प्रीतो भवो देव्याः प्रहसंश्चेदमब्रवीत् ।
गच्छत्वेष यथाकाममिति राजन्पुनः पुनः ॥
ततः प्रणम्य वरदं देवं देवीमुमां तथा ।
उशना प्राप तद्धीमान्गतिमिष्टां महामुनिः ॥
एतत्ते कथितं तात भार्गवस्य महात्मनः ।
चरितं भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
पञ्चनवत्यधिकद्विशततमोऽध्यायः ॥ 295 ॥
12-295-3 वर्धयामास चिच्छेद । अमितौजसां देवानाम् ॥ 12-295-4
शुक्रत्वं शुक्रोत्पन्नत्वम् ॥ 12-295-5 तस्याकाशगतिः कुतः कुण्ठितेत्यर्थः ॥ 12-295-7 कारणा क्रिया तदात्मके निमित्ते सति ॥ 12-295-8 इन्द्रो जगतः ॥ 12-295-9 तस्य धनदस्य । आत्मानं शरीरम् ॥ 12-295-10 आपन्नमन्युः प्राप्तदैन्यः ॥ 12-295-17 सः शुक्र । धन्विना रुद्रेण । शूलं शुक्रयुतम् । तपस्सिद्धेन चक्षुषेति
थ. पाठः । तपस्सिद्धेन चेतसेति ध. पाठः ॥ 12-295-20 कोष्ठमुदरम् ॥ 12-295-21
व्यचरदेव नत्वन्नवनीर्णतां गतः । किंच तादृशमकार्षीत्तप इति शेषः ॥ 12-295-26 स
शुक्रः ॥ 12-295-27 निलिल्ये नितरां गतिं जगाम बभ्रामेत्यर्थः ॥ 12-295-28
निःसारं निर्गमम् । तेन रुद्रेण ॥ 12-295-32 तेन शिश्रान्निर्गमनेन कार्येण
निमित्तेन ॥