अध्यायः 302

भीष्मेण युधिष्ठिरंप्रति नानाधर्मप्रतिपादकपराशरगीतानुवादः ॥ 1 ॥

जनक उवाच ।
वर्णो विशेषवर्णानां महर्षे केन जायते ।
एतदिच्छाम्यहं ज्ञातुं तद्ब्रूहि वदतां वर ॥
यदेतज्जायतेऽपत्यं स एवायमिति श्रुतिः ।
कथं ब्राह्मणतो जातो विशेषग्रहणं गतः ॥
पराशर उवाच ।
एवमेतन्महाराज येन जातः स एव सः ।
तपसस्त्वपकर्षेण जातिग्रहणतां गतः ॥
सुक्षेत्राच्च सुबीजाच्च पुण्यो भवति संभवः ।
अतोऽन्यतरतो हीनादवरो नाम जायते ॥
वक्राद्भुजाभ्यामूरुभ्यां पद्भ्यां चैवाथ जज्ञिरे ।
सृजतः प्रजापतेर्लोकानिति धर्मविदो विदुः ॥
मुखजा ब्राह्मणास्तात बाहुजाः क्षत्रियाः स्मृताः ।
ऊरुजा धनिनो राजन्पादजाः परिचारकाः ॥
चतुर्णामेव वर्णानामागमः पुरुषर्षभ ।
अतोन्ये त्वतिरिक्ता ये ते वै संकरजाः स्मृताः ॥
क्षत्रियातिरथाम्बष्ठा उग्रा वैदेहकास्तथा ।
श्वपाकाः पुल्कसाः स्तेना निषादाः सूतमागधाः ॥
अयोगाः कारणा व्रात्याश्चाण्डालाश्च नराधिप ।
एते चतुर्भ्यो वर्णेभ्यो जायन्ते वै परस्परात् ॥
जनक उवाच ।
ब्रह्मणैकेन जातानां नानात्वं गोत्रतः कथम् ।
बहूनीह हि लोके वै गोत्राणि मुनिसत्तम ॥
यत्र तत्र कथं जाताः स्वयोनिं मुनयो गताः ।
शूद्रयोनौ समुत्पन्ना वियोनौ च तथा परे ॥
पराशर उवाच ।
राजन्नैतद्भवेद्ब्राह्ममपकृष्टेन जन्मना ।
महात्मनां समुत्पत्तिस्तपसा भावितात्मनाम् ॥
उत्पाद्य पुत्रान्मुनयो नृपते यत्र तत्र ह ।
स्वेनैव तपसा तेषामृषित्वं विदधुः पुनः ॥
पितामहश्च मे पूर्वमृश्यशृङ्गश्च काश्यपः ।
वेदस्ताण्ड्यः कृपश्चैव काक्षीवत्कमठादयः ॥
यवक्रीतश्च नृपते द्रोणश्च वदतांवरः ।
आयुर्मतङ्गो दत्तश्च द्रुमदो मात्स्य एव च ॥
एते स्वां प्रकृतिं प्राप्ता वैदेह तपसो बलात् ।
प्रतिष्ठिता वेदविदो दमेन तपसैव हि ॥
मूलगोत्राणि चत्वारि समुत्पन्नानि पार्थिव ।
अङ्गिराः कश्यपश्चैव वसिष्ठो भृगुरेव च ॥
कर्मतोऽन्यानि गोत्राणि समुत्पन्नानि पार्थिव ।
नामधेयानि तपसा तानि च ग्रहणं सताम् ॥
जनक उवाच ।
विशेषधर्मान्वर्णानां प्रब्रूहि भगवन्मम ।
ततः सामान्यधर्मांश्च सर्वत्र कुशलो ह्यसि ॥
पराशर उवाच ।
प्रतिग्रहो याजनं च तथैवाध्यापनं नृप ।
विशेषधर्मा विप्राणां रक्षा क्षत्रस्य शोभना ॥
कृषिश्च पाशुपाल्यं च वाणिज्यं च विशामपि ।
द्विजानां परिचर्या च शूद्रकर्म नराधिप ॥
विशेषधर्मा नृपते वर्णानां परिकीर्तिताः ।
धर्मान्साधारणांस्तात विस्तरेण शृणुष्व मे ॥
आनृशंस्यमर्हिसा चाप्रमादः संविभागिता ।
श्राद्धकर्मातिथेयं च सत्यमक्रोध एव च ॥
स्वेषु दारेषु संतोषः शौचं नित्याऽनसूयता ।
आत्मज्ञानं तितिक्षा च धर्माः साधारणा नृप ॥
ब्राह्मणाः क्षत्रिया वैश्यास्रयो वर्णा द्विजातयः ।
अत्र तेषामधीकारो धर्मेषु द्विपदां वर ॥
विकर्मावस्थिता वर्णाः पतन्ति नृपते त्रयः ।
उन्नमन्ति यथा सन्त आश्रित्येह स्वकर्मसु ॥
न चापि शूद्रः पततीति निश्चयो न चापि संस्कारमिहार्हतीति वा ।
श्रुतिप्रयुक्तं न च धर्ममाप्नुते न चास्य धर्मे प्रतिषेधनं कृतम् ॥
वैदेहकं शूद्रमुदाहरन्ति द्विजा महाराज श्रुतोपपन्नाः ।
अहं हि पश्यामि नरेन्द्र देवं विश्वस्य विष्णुं जगतः प्रधानम् ॥
सतां वृत्तमधिष्ठाय निहीना उद्दिधीर्षवः ।
मन्त्रवर्जं न दुष्यन्ति कुर्वाणाः पौष्टिकीः क्रियाः ॥
यथायथा हि सद्वॄत्तमालम्बन्तीतरे जनाः ।
यथातथा सुखं प्राप्य प्रेत्य चेह च मोदते ॥
जनक उवाच ।
किं कर्म दूषयत्येनमथो जातिर्महामुने ।
संदेहो मे समुत्पन्नस्तन्मे व्याख्यातुमर्हसि ॥
पराशर उवाच ।
असंशयं महाराज उभयं दोषकारकम् ।
कर्म चैव हि जातिश्च विशेषं तु निशामय ॥
जात्या च कर्मणा चैव दुष्टं कर्म न सेवते ।
जात्या दुष्टश्च यः पापं न करोति स पूरुषः ॥
जात्या प्रधानं पुरुषं कुर्वाणं कर्म धिक्कृतम् कर्म तद्दूषयत्येनं तस्मात्कर्म न शोभनम् ॥
जनक उवाच ।
कानि कर्माणि धर्म्याणि लोकेऽस्मिन्द्विजसत्तम् ।
न हिंसन्तीह भूतानि क्रियमाणानि सर्वदा ॥
पराशर उवाच ।
शृणु मेऽत्र महाराज यन्मां त्वं परिपृच्छसि ।
यानि कर्माण्यहिंस्राणि नरं त्रायन्ति सर्वदा ॥
संन्यस्याग्नीनुदासीनाः पश्यन्ति विगतज्वराः ।
नैःश्रेयसं कर्मपथं समारुह्य यथाक्रमम् ॥
प्रश्रिता विनयोपेता दमनित्याः सुसंशिताः ।
पयान्ति स्थानमजरं सर्वकर्मविवर्जिताः ॥
सर्वे वर्णा धर्मकार्याणि सम्यक् कृत्वा राजन्सत्यवाक्यानि चोक्त्वा ।
त्यक्त्वा धर्मं दारुणं जीवलोके यान्ति स्वर्गं नात्र कार्यो विचारः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि द्व्यधिकत्रिशततमोऽध्यायः ॥ 302 ॥

12-302-6 ऊरुजा वणिजो राजन्निति ध. पाठः ॥ 12-302-10 नानात्वं ब्रह्मक्षत्रियादिभावेन भिन्नत्वम् । गोत्रतः अन्वयतः । गोत्राणि ब्रह्मक्षत्रियादीनि उग्राम्बष्ठादीनि च । तस्माज्जातितारतम्यमयुक्तमित्यर्थः ॥ 12-302-11 यथा काक्षीवता शूद्रायामुत्पादिताः पुत्रा ब्राह्मणत्वं नीता नतु ते निषादत्वं प्राप्ता इत्यर्थः । तस्मात्कारणद्वारा कार्यद्वारा वा जातिभेदो न युक्त इति भावः ॥ 12-302-14 वसुस्ताण्ड्य इति थ. पाठः । वटस्ताण्ड्य इति ध. पाठः ॥ 12-302-16 तपसो श्रयादिति थ. पाठः ॥ 12-302-26 निरयेत्रय इति थ. पाठः ॥