अध्यायः 303

भूष्मेण युधिष्ठिरंप्रति धर्मादिसाधनतया मानुष्यप्रशंसापूर्वकं नानाधर्मप्रतिपादकपराशारगीतानुवादः ॥ 1 ॥

पराशर उवाच ।
पिता सखायो गुरवः स्त्रियश्च न निर्गुणानां प्रभवन्ति लोके ।
अनन्यभक्ताः प्रियवादिनश्च हिताश्च वश्याश्च तथैव राजन् ॥
पिता परं दैवतं मानवानां मातुर्विशिष्टं पितरं वदन्ति ।
ज्ञानस्य लाभं परमं वदन्ति जितेन्द्रियार्थाः परमाप्नुवन्ति ॥
रणाजिरे यत्र शराग्निसंस्तरे नृपात्मजो घातमवाप्य दह्यते ।
प्रयाति लोकानमरैः सुदुर्लभा न्निषेवते स्वर्गफलं यथासुखम् ॥
श्रान्तं भीतं भ्रष्टशस्त्रं रुदन्तं पराङ्भुखं पारिवर्हैश्च हीनम् ।
अनुद्यन्तं रोगिणं याचमानं न वै हिंस्याद्बालवृद्धौ च राजन् ॥
पारिबर्हैः सुसंयुक्तमुद्यतं तुल्यतां गतम् ।
अतिक्रमेत्तं नृपतिः संग्रामे क्षत्रियात्मजम् ॥
तुल्यादिह वधः श्रेयान्विशिष्टाच्चेति निश्चयः ।
निहीनात्कातराच्चैव कृपणाद्गर्हितो वधः ॥
पापात्पापसमाचारान्निहीनाच्च नराधिप ।
पाप एष वधः प्रोक्तो नरकायेति निश्चयः ॥
न कश्चित्राति वै राजन्दिष्टान्तवशमागतम् ।
सावशेषायुषं चापि कश्चिन्नैवापकर्षति ॥
स्निग्धैश्च क्रियमाणानि कर्माणीह निवर्तयेत् ।
हिंसात्मकानि सर्वाणि नायुरिच्छेत्परायुषा ॥
गृहस्थानां तु सर्वेषां विनाशमभिकाङ्क्षताम् ।
निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥
आयुषि क्षयमापन्ने पञ्चत्वमुपगच्छति ।
तथा ह्यकारणाद्भवति कारणैरुपपादितम् ॥
तथा शरीरं भवति देहाद्येनोपपादितम् ।
अध्वानं गतकश्चायं प्राप्तश्चायं गृहाद्गृहम् ॥
द्वितीयं कारणं तत्र नान्यत्किंचन विद्यते ।
तद्देहं देहिनां युक्तं मोक्षभूतेषु वर्तते ॥
शिरास्नाय्वस्थिसंघातं बीभत्सामेध्यसंकुलम् ।
भूतानामिन्द्रियाणां च गुणानां च समागमम् ॥
त्वगन्तं देहमित्याहुर्विद्वांसोऽध्यात्मचिन्तकाः ।
गुणैरपि परिक्षीणं शरीरं मर्त्यतां गतम् ॥
शरीरिणा परित्यक्तं निश्चेष्टं गतचेतनम् ।
भूतैः प्रकृतिमापन्नैस्ततो भूमौ निमज्जति ॥
भावितं कर्मयोगेन जायते तत्रतत्र ह । इदं शरीरं वैदेह म्रियते यत्रयत्र ह ।
तत्प्रपाते परो दृष्टो विसर्गः कर्मणस्तथा ॥
न जायते तु नृपते कंचित्कालमयं पुनः ।
परिभ्रमति भूतात्मा द्यामिवाम्बुधरो महान् ॥
स पुनर्जायते राजन्प्राप्येहायतनं नृपः ।
मनसः परमो ह्यात्मा इन्द्रियेभ्यः परं मनः ॥
विविधानां च भूतानां जङ्गमाः परमा नृप । जङ्गमानामपि तथा द्विपदाः परमा मताः ।
द्विपदानामपि तथा द्विजा वै परमाः स्मृताः ॥
द्विजानामपि राजेन्द्र प्रज्ञावन्तः परा मताः ।
प्राज्ञानामात्मसंबुद्धाः संबुद्धानाममानिनः ॥
जातमन्वेति मरणं नृणामिति विनिश्चयः ।
अन्तवन्ति हि कर्माणि सेवन्ते गुणतः प्रजाः ॥
आपन्ने तूत्तरां काष्ठां सूर्ये यो निधनं व्रजेत् ।
नक्षत्रे च मुहूर्ते च पुण्ये राजन्स पुण्यकृत् ॥
अयोजयित्वा क्लेशेन जनं प्लाप्य च दुष्कृतम् ।
मृत्युनाऽऽत्मकृतेनेह कर्म कृत्वाऽऽत्मशक्तितः ॥
विषमुद्बन्धनं दाहो दस्युहस्तात्तथ वधः ।
दंष्ट्रिभ्यश्च पशुभ्यश्च प्राकृतो वध उच्यते ॥
न चैभिः पुण्यकर्माणो युज्यन्ते चाभिसंधिजैः ।
एवंविधैश्च बहुभिरपरैः प्राकृतैरपि ॥
ऊर्ध्वं भित्त्वा प्रतिष्ठन्ते प्राणाः पुण्यवतां नृप ।
मध्यतो मध्यपुण्यानामधो दुष्कृतकर्मणाम् ॥
एकः शत्रुर्न द्वितीयोस्ति शत्रु रज्ञानतुल्यः पुरुषस्य राजन् ।
येनावृतः कुरुते संप्रयुक्तो घोराणि कर्माणि सुदारुणानि ॥
प्रबोधनार्थं श्रुतिधर्मयुक्तं वृद्धानुपास्य प्रभवेत यस्य ।
प्रयत्नसाध्यो हि स राजपुत्र प्रज्ञाशरेणोन्मथितः परैति ॥
अधीत्य वेदं तपसा ब्रह्मचारी यज्ञाञ्शक्त्या सन्निसृज्येह पञ्च ।
वनं गच्छेत्पुरुषो धर्मकामः श्रेयः कृत्वा स्थापयित्वा स्ववंशम् ॥
उपभोगैरपि त्यक्तं नात्मानं सादयेन्नरः ।
चण्डालत्वेऽपि मानुष्यं सर्वथा तात शोभनम् ॥
इयं हि योनिः प्रथमा यां प्राप्य जगतीयते ।
आत्मा वै शक्यते त्रातुं कर्मभिः शुभलक्षणैः ॥
कथं न विप्रणश्येम योनितोस्या इति प्रभो ।
कुर्वन्ति धर्मं मनुजाः श्रुतिप्रामाण्यदर्शनात् ॥
यो दुर्लभतरं प्राप्य मानुष्यं द्विषते नरः ।
धर्मावमन्ता कामात्मा भवेत्स खलु वञ्च्यते ॥
यस्तु प्रीतिपुराणेन चक्षुषा तात पश्यति ।
दीपोपमानि भूतानि यावदर्थान्न पश्यति ॥
सान्त्वेनानुप्रदानेन प्रियवादेन चाप्युत ।
समदुःखसुखो भूत्वा स परत्र महीयते ॥
दानं त्यागः शोभना मुर्तिमद्भ्यो भूयः प्लाव्यं तपसा वै शरीरम् ।
सरस्वतीनैमिषपुष्करेषु ये चाप्यन्ये पुण्यदेशाः पृथिव्याम् ॥
गृहेषु येषामसवः पतन्ति तेषामथो निर्हरणं प्रशस्तम् ।
यानेन वै प्रापणं च श्मशाने शुचौ देशे विधिना चैव दाहः ॥
इष्टिः पुष्टिर्यजनं याजनं च दार्ग पुण्यानां कर्मणां च प्रयोगः ।
शक्त्या पित्र्यं यच्च किंचित्प्रशस्तं सर्वाण्यात्मार्थे मानवोऽयं करोति ॥
`गृहस्थानां च सर्वेषां विनाशमभिकाङ्क्षताम् । निधनं शोभनं तात पुलिनेषु क्रियावताम् ॥'
धर्मशास्त्राणि वेदाश्च ष़डङ्गानि नराधिप ।
श्रेयसोर्थे विधीयन्ते नरस्याक्लिष्टकर्मणः ॥
भीष्म उवाच ।
एतद्वै सर्वमाख्यातं मुनिना सुमहात्मना ।
विदेहराजाय पुरा श्रयेसोर्थे नराधिप ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्र्यधिकत्रिशततमोऽध्यायः ॥ 303 ॥

12-303-2 लाभं लाभहेतुम् ॥ 12-303-4 पारिबर्है रथाश्वकवचादिभिः ॥ 12-303-5 अतिक्रमेज्जयेत् ॥ 12-303-8 दिष्टान्तो मृत्युः ॥ 12-303-9 सन्नद्धैः क्रियमाणानीति थ. पाठः । हिंसात्मकानि कर्माणीति ध. पाठः ॥ 12-303-10 पुलिनेषु पुलिनवत्सु तीर्थेषु निधनं मरणं श्रेयः ॥ 12-303-15 शरीरं मन्दतां गतमिति ध. पाठः ॥ 12-303-17 तत्स्वभावो परो दृष्ट इति झ. पाठः ॥ 12-303-32 आत्मा वै शक्यते ज्ञातुमिति ध. पाठः ॥ 12-303-36 सांत्वेनान्नप्रदानेनेति झ. पाठः ॥ 12-303-35 प्रीतिपुराणेन प्रीत्या चिरंतनेन दीपोपमानि स्नेहेन संवर्धनीयानि । याक्दर्थान् सर्वान्विषयान् दयावान् भूतानि पश्यति विरक्तोऽर्थान्न पश्यति यः स महीयते इत्युत्तरेण संबन्धः ॥ 12-303-38 शौचेनं नूनं विधिना चेति ध. पाठः ॥