अध्यायः 307

भीष्मेण युधिष्ठिरंप्रति साङ्ख्यनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।
सम्पक्त्वयाऽयं नृपते वर्णितः शिष्टसंमतः ।
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥
साङ्ख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते ।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद्विदितं हि ते ॥
भीष्म उवाच ।
शृणु मे त्वमिदं कृत्स्नं साङ्ख्यानां विदितात्मनाम् ।
विदितं यतिभिः सर्वैः कपिलादिभिरीश्वरैः ॥
यस्मिन्नविभ्रमाः केचिद्दृश्यन्ते मनुजर्षभ ।
गुणाश्च यस्मिन्बहवो दोषहानिश्च केवला ॥
ज्ञानेन परिसङ्ख्याय सदोषान्विषयान्नृप ।
मानुषान्दुर्जयान्कृत्स्नान्पैशाचान्विषयांस्तथा ॥
राक्षसान्विषयाञ्ज्ञात्वा यक्षाणां विषयांस्तथा ।
विषयानौरगाञ्ज्ञात्वा गान्धर्वविषयांस्तथा ॥
पितृणां विषयाञ्ज्ञात्वा तिर्यक्षु चरतां नृप ।
सुपर्णविषयाञ्ज्ञात्वा मरुतां विषयांस्तथा ॥
राजर्षिविषयाञ्ज्ञात्वा ब्रह्मर्षिविषयांस्तथा ।
आसुरान्विषयाञ्ज्ञात्वा वैश्वदेवांस्तथैव च ॥
देवर्षिविषयाञ्ज्ञात्वा योगानामपि चेश्वरान् ।
प्रजापतीनां विषयान्ब्रह्मणो विषयांस्तथा ॥
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः ।
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ॥
प्राप्ते काले च यद्दुःखं सततं विषयैषिणाम् ।
तिर्यक्षु पततां दुःखं पततां नरके च यत् ॥
स्वर्गस्य च गुणान्कृत्स्नान्दोषान्सर्वांश्च भारत । `परिसंख्यानसंख्यानं सत्वं सांख्यगुणात्मकम् ।'
वेदवादे येऽपि दोषा गुणा ये चापि वैदिकाः ॥
ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप । साङ्ख्यज्ञाने च ये दोषास्तथैव च गुणा नृप ।
`इतरेषु च ये दोषा गुणास्तेषु च भारत ॥'
सत्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा ।
तमश्चाष्टगुणं ज्ञात्वा वृद्धिं सप्तगुणां तथा ॥
षङ्गुणं च मनो ज्ञात्वा नभः पञ्चगुणं तथा ।
बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं तथा ॥
द्विगुणं च रजो ज्ञात्वा सत्वमेकगुणं पुनः ।
सर्गं विज्ञाय तत्त्वेन प्रलये प्रेक्ष्य चात्मनः ॥
ज्ञानविज्ञानसंपन्नाः कारणैर्भाविताः शुभाः ।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥
रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च ।
शब्दे सक्तं तथा श्रोत्रं जिह्वा रसगुणेषु च ॥
त्वचं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम् ।
मोहं तमसि संयुक्तं लोभमर्थेषु संश्रितम् ॥
विष्णौ क्रान्तं बलं शक्रे कोष्ठे सक्तं तथाऽनलम् ।
अप्सु देवीं समासक्तामपस्तेजसि संश्रिताः ॥
तेजः सूक्ष्मे च संयुक्तं वायुं नभसि चाश्रितम् ।
नभो महति संयुक्तं महद्बुद्धौ च संश्रितम् ॥
बुद्धिं तमसि संसक्तां तमो रजसि संश्रितम् ।
रजः सत्वे तथा सक्तं सत्वं सक्तं तथाऽऽत्मनि ॥
सक्तमात्मानमीशे च देवे नारायणे तथा ।
देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित् ॥
ज्ञात्वा सत्वयुतं देहं वृतं षोडशभिर्गुणैः ।
स्वभावं चेतनां चैव ज्ञात्वा देहसमाश्रिते ॥
मध्यस्थमेकमात्मानं पापं यस्मिन्न विद्यते ।
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ॥
इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ।
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ॥
प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः ।
आवहं चानिलं ज्ञात्वा प्रवहं चानिलं पुनः ॥
सप्तवातांस्तथा शेषान्सप्तधा विहितान्पुनः ।
प्रजापतीनृषींश्चैव मार्गांश्चैव बहून्वरान् ॥
सप्तर्षीश्च बहूञ्ज्ञात्वा राजर्षीश्च परंतप ।
सुरर्षीन्महतश्चान्यान्ब्रह्मर्षीन्सूर्यसन्निभान् ॥
ऐश्वर्याच्च्यावितान्दृष्ट्वा कालेन महता नृप ।
महतां भूतसङ्घानां श्रुत्वा नाशं च पार्थिव ॥
गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मिणाम् ।
वैतरण्यां च यद्दुःखं पतितानां यमक्षये ॥
योनीषु च विचित्रासु संसारानशुभांस्तथा ।
जठरे चाशुभे वासं शोणितोदकभाजने ॥
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ।
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे ॥
सिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ ।
विज्ञायाहितमात्मानं योगांश्च विविधान्नृप ॥
तामसानां च जन्तूनां रमणीयावृतात्मनाम् ।
सात्विकानां च जन्तूनां कुत्सितं भरतर्षभ ॥
गर्हितं महतामर्थे साङ्ख्यानां विदितात्मनाम् ।
उपप्लवांस्तथा घोराञ्शशिनस्तेजसस्तथा ॥
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम् ।
द्वन्द्वानां विप्रयोगं च विज्ञाय कृपण नृप ॥
अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम् ।
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् ॥
रागे मोहे च संप्राप्ते क्वचित्सत्वं समाश्रितम् ।
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः ॥
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ।
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ॥
विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः ।
गतासूनां च कौन्तेय देहान्दृष्ट्वा तथाऽशुभान् ॥
वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत ।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥
सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम् ।
गुरूदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥
जननीषु च वर्तन्ते येन सम्यग्युधिष्ठिर ।
सदेवकेषु लोकेषु येन वर्तन्ति मानवाः ॥
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम् तिर्यग्योनिगतानां च विज्ञाय च गतिं पृथक् ॥
वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा ।
क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥
पक्षक्षयं तथा दृष्ट्वा दिवसानां च संक्षयम् ।
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥
वृद्धिं दृष्ट्वा समुद्राणां क्षयं तेषां तथा पुनः ।
क्षयं धनानां दृष्ट्वा च पुनर्वृद्धिं तथैव च ॥
संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः ।
क्षयं च दृष्ट्वा शैलानां क्षयं च सरितां तथा ॥
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः ।
जरा मृत्युस्तथा जन्म दृष्ट्वा दुःखानि चैव ह ॥
देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः ।
देहविक्लवतां चैव सम्यग्विज्ञाय तत्त्वतः ॥
आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान् । स्वदेहादुत्थितान्गब्धांस्तथा विज्ञाय चाशुभान् ।
`मूत्रश्लेष्मपुरीषादीन्स्वेदजांश्च सुकुत्सितान् ॥'
युधिष्ठिर उवाच ।
कान्स्वगात्रोद्भवान्दोषान्पश्यस्यमितविक्रम ।
एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ॥
भीष्म उवाच ।
पञ्च दोषान्प्रभो देहे प्रवदन्ति मनीषिणः ।
मार्गज्ञाः कापिलाः साङ्ख्याः शृणु तानरिसूदन ॥
कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते ॥
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ।
छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात् ॥
सत्वसंसेवनान्निद्रामप्रमादाद्भयं तथा ।
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप ॥
गुणान्गुणशतैर्ज्ञात्वा दोषान्दोषशतैरपि ।
हेतून्हेतुशतैश्चित्रैश्चित्रान्विज्ञाय तत्त्वतः ॥
अपां फेनोपमं लोकं विष्णोर्मायाशतैश्वितम् ।
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् ॥
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्बुदसंनिभम् ।
क्लेशप्रायं सुखाद्धीनं नाशोत्तरमिहावशम् ॥
रजस्तमसि संमग्नं पङ्के द्वीपमिवावशम् ।
साङ्ख्या राजन्महाप्राज्ञास्त्यक्त्वा देहं प्रजाकृतं ॥
ज्ञानयोगेन साङ्ख्येन व्यापिना महता नृप ।
राजसानशुभान्गन्धांस्तांमसांश्च तथाविधान् ॥
पुण्यांश्च सात्विकान्गन्धान्स्पर्शजान्देहसंश्रितान् ।
छित्त्वाऽऽशु ज्ञानशस्त्रेण तपो दण्डेन भारत ॥
ततो दुःखोदधिं घोरं चिन्ताशोकमहाह्रदम् ।
व्याधिमृत्युमहाग्राहं महाभयमहोरगम् ॥
तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत ।
स्नेहपङ्कं जरादुर्गं ज्ञानदीपमरिंदम् ॥
कर्मागाधं सत्यतीरं स्थितव्रतमरिंदम् ।
हिंसाशीघ्रमहावेगं नानारससमाकरम् ॥
नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् ।
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् ॥
अस्थिसंघातसंघट्टं श्लेष्मफेनमरिंदम् ।
दानमुक्ताकरं घोरं शोणितह्रदविद्रुमम् ॥
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् । रोदनाश्रुमलक्षारं सङ्गत्यागपरायणम् ।
पुत्रदारजलौकौघं मत्रिबान्धवपत्तनम् ।
अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् ॥
वेदान्तगमनद्वीपं सर्वभूतदयोदकम् ।
मोक्षदुर्लाभविषयं व़डवामुखसागरम् ॥
तरन्ति मुनयः सिद्धा ज्ञानयानेन भारत ।
तीर्त्वाऽतिदुस्तरं जन्म विशन्ति विमलं नभः ॥
तत्र तान्सुकृतीन्साङ्ख्यान्सूर्यो वहति रश्मिभिः ।
पद्मतन्तुवदाविश्य प्रसह्य विषयान्नृप ॥
तत्र तान्प्रवहो वायुः प्रतिगृह्णाति भारत ।
वीतरागान्यतीन्सिद्धान्वीर्ययुक्तांस्तपोधनान् ॥
सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत । सप्तानां मरुतां श्रेष्ठो लोकान्गच्छति यः शुभान् ।
स तान्वहति कौन्तेय नभसः परमां गतिम् ॥
नभो वहति लोकेश रजसः परमां गतिम् । `तमो वहति लोकेश रजसः परमां गतिम् ।'
रजो वहति राजेन्द्र सत्वस्य परमां गतिम् ॥
सत्वं वहति राजेन्द्र परं नारायणं प्रभुम् ।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥
परमात्मानमासाद्य तद्भूता यतयोऽमलाः ।
अमृतत्वाय कल्पन्ते न निवर्तन्ति वा विभो ॥
परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम् ।
सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥
युधिष्ठिर उवाच ।
स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः ।
आजन्ममरणं वा ते स्मरन्त्युत न वाऽनघ ॥
यदत्र तथ्यं तन्मे त्वं यथावद्वक्तुमर्हसि ।
त्वदृते पुरुषं नान्यं प्रष्टुमर्हामि कौरव ॥
मोक्षे दोषो महानेष प्राप्य सिद्धिगतानृषीन् ।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप । मग्नस्य हि परे ज्ञाने किं न दुःखतरं भवेत् ।
भीष्म उवाच ।
यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः ।
बुधानामपि संमोहः प्रश्नेऽस्मिन्भरतर्षभ ॥
अत्रापि तत्त्वं परमं शृणु सम्यङ्भयेरितम् ।
बुद्धिश्च परमा यत्र कापिलानां महात्मनाम् ॥
इन्द्रियाण्येव बुध्यन्ते स्वदेहे देहिनां नृप ।
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ॥
आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु ।
विनश्यन्ति न संदेहः फेना इव महार्णवे ॥
इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन ।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥
स पश्यति यथान्यायं स्पर्शान्स्पृशति वा विभो ।
बुध्यमानो यथापूर्वमखिलेनेह भारत ॥
इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि ।
अनीशत्वात्प्रलीयन्ते सर्पा हतविषा इव ॥
इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः ।
आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः ॥
सत्वस्य च गुणान्कृत्स्नान्नजसश्च गुणान्पुनः ।
गुणांश्च तमसः सर्वान्गुणान्बुद्धेश्च भारत ॥
गुणांश्च मनसश्चापि नभसश्च गुणांश्च सः ।
गुणान्वायोश्च धर्मात्मंस्तेजसां च गुणान्पुनः ॥
अपां गुणांस्तथा पार्थ पार्थिंवांश्च गुणानपि ।
सर्वात्मना गुणैर्व्याप्तः क्षेत्रज्ञेषु युधिष्ठिर ॥
आत्मा च याति क्षेत्रज्ञं कर्मणी च शुभाशुभे ।
शिष्या इव महात्मानमिन्द्रियाणि च तं प्रभो ॥
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् ।
परं नारायणं देवं निर्द्वन्द्वं प्रकृतेः परम् ॥
विमुक्तः सर्वपापेभ्यः प्रविष्टस्तमनामयम् ।
परमात्मानमगुणं न निवर्तति भारत ॥
शिष्टं तत्र मनस्तात इन्द्रियाणि च भारत ।
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥
शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना ।
एवमुक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ॥
साङ्ख्या राजन्महाप्राज्ञा गच्छन्ति परमां गतिम् ।
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ॥
अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम् ।
अक्षरं ध्रुवमव्यक्तं पूर्णं ब्रह्म सनातनम् ॥
अनादिमध्यनिधनं निर्द्वन्द्वं कर्तृ शाश्वतम् ।
कूटस्थं चैव नित्यं च यद्वदन्ति शमात्मकाः ॥
यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः ।
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ॥
सर्वे विप्राश्च देवाश्च तथा शमविदो जनाः ।
ब्रह्मण्यं परमं देवमनन्तं परमच्युतम् ॥
प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः ।
सम्यग्युक्तास्तथा योगाः साङ्ख्याश्चामितदर्शनाः ॥
अमूर्तेस्तस्य कौन्तेय साङ्ख्यं मूर्तिरिति श्रुतिः ।
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ॥
द्विविधानीह भूतानि पृथिव्यां पृथिवीपते ।
जङ्गमाजङ्गमाख्यानि जङ्गमं तु विशिष्यते ॥
ज्ञानं महद्यद्धि महत्सु राज न्वेदेषु साङ्ख्येषु तथैव योगे ।
यच्चापि दृष्टं विविधं पुराणे साङ्ख्यागतं तन्निखिलं नरेन्द्र ॥
यच्चेतिहासेषु महत्सु दृष्टं यच्चार्थशास्त्रे नृप शिष्टजुष्टे ।
ज्ञानं च लोके यदिहास्ति किंचि त्साङ्ख्यागतं तच्च महन्महात्मन् ॥
शमश्च दृष्टः परमं बलं च ज्ञानं च साङ्ख्यं च यथावदुक्तम् ।
तपांसि सूक्ष्माणि सुखानि चैव साङ्ख्ये यथावद्विहितानि राजन् ॥
विपर्यये तस्य हि पार्थ देवा न्गच्छन्ति साङ्ख्याः सततं सुखेन ।
तांश्चानुसंचार्य ततः कृतार्थाः पतन्ति विप्रेषु यतेषु भूयः ॥
हित्वा च देहं प्रविशन्ति मोक्षं दिवौकसो द्यामिव पार्थ साङ्ख्याः ।
अतोऽधिकं तेऽभिरता महार्थे साङ्ख्ये द्विजाः पार्थिव शिष्टजुष्टे ॥
तेषां न तिर्यग्गमनं हि दृष्टं नार्वाग्गतिः पापकृताधिवासः ।
च चाबुधानामपि ते द्विजातयो ये ज्ञानमेतन्नृपतेऽनुरक्ताः ॥
साङ्ख्यं विशालं परमं पुराणं महार्णवं विमलमुदाहरन्ति
कृत्स्नं च साङ्ख्यं नृपते महात्मा नारायणो धारयतेऽप्रमेयम् ॥
एतन्मयोक्तं नरदेव तत्त्वं नारायणो विश्वमिदं पुराणम् ।
स सर्गकाले च करोति सर्गं संहारकाले च तदत्ति भूयः ॥
संहृत्य सर्वं निजदेहसंस्थं कृत्वाऽप्सु शेते जगदन्तरात्मा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्ताधिकत्रिशततमोऽध्यायः ॥ 307 ॥

12-307-1 सम्यक्त्वया यज्ञपते इति थ. पाठः ॥ 12-307-4 यस्मिन्न विश्रमाः इति थ. पाठः ॥ 12-307-5 दोषान्विषयजान्नृपेति थ. पाठः ॥ 12-307-9 विषयांश्च प्रणाशान्तान्ब्रह्मणो विषयांस्तथेति ध. पाठः ॥ 12-307-19 तनुं स्पर्शो इति झ. पाठः ॥ 12-307-20 कोष्ठे उदरे । देवीं पृथ्वीम् ॥ 12-307-24 सत्वगुणं देहमिति झ. पाठः ॥ 12-307-36 उपप्लवान् उपरागान् । तेजसः सूर्यस्य ॥ 12-307-37 नराणां पतनं दृष्ट्वेति थ. पाठः । बन्धूनां विप्रयोगं चेति ट. पाठः । द्वन्द्वानां दम्पतीनाम् ॥ 12-307-39 क्वचित्पुंसि ॥ 12-307-40 बहुमानं अत्यादरम् । मध्यस्थतां औदासीन्यम् ॥ 12-307-41 दौरात्म्यं बन्धहेतुताम् ॥ 12-307-42 कुलेषु गृहेषु ॥ 12-307-45 विज्ञाय गतयः पृथगिति थ. पाठः ॥ 12-307-48 क्षयं वनानामिति थ. पाठः ॥ 12-307-59 नलसारं नलतृणवदन्तःसारद्दीनम् ॥ 12-307-60 क्लेशप्रायं क्लेशबहुलम् ॥ 12-307-65 स्पर्शद्विपमरिंदमेति ट. थ. पाठः ॥ 12-307-67 व्याधिमहारुजमिति थ. पाठः ॥ 12-307-76 तमसः परमां गतिमिति थ. पाठः ॥ 12-307-83 मग्नस्य हि परं ज्ञानमिति झ. पाठः ॥ 12-307-85 तथापि परमं तत्वमिति ट. थ. पाठः ॥ 12-307-104 सर्वे देवाश्च वेदाश्चेति ट. पाठः ॥