अध्यायः 320

याज्ञवल्क्येन जनकंप्रति साङ्ख्यदर्शनकथनम् ॥ 1 ॥

याज्ञवल्क्य उवाच ।
न शक्यो निर्गुणस्तात गुणीकर्तुं विशांपते ।
गुणवांश्चाप्यगुणवान्यथातत्त्वं निबोध मे ॥
गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा ।
प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः ॥
गुणस्वभावस्त्वव्यक्तो गुणानेवाभिवर्तते ।
उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ॥
अव्यक्तस्तु न जानीते पुरुषोऽज्ञः स्वभावतः ।
न मत्तः परमोस्तीति नित्यमेवाभिमन्यते ॥
अनेन कारणेनैतदव्यक्तं स्यादचेतनम् ।
नित्यत्वाच्चाक्षरत्वाच्च क्षरत्वान्न तदन्यथा ॥
यदाऽज्ञानेन कुर्वीत गुणसर्गं पुनःपुनः ।
यदात्मानं न जानीते तदाऽऽत्मापि न मुच्यते ॥
कर्तृत्वाच्चापि सर्गाणां सर्गधर्मा तथोच्यते ।
कर्तृत्वाच्चापि योगानां योगधर्मा तथोच्यते ॥
कर्तृत्वात्प्रकृतीनां च तथा प्रकृतिधर्मिता ॥
कर्तृत्वाच्चापि वीजानां बीजधर्मा तथोच्यते ।
गुणानां प्रसवत्वाच्च प्रलयत्वात्तथैव च ॥
`कर्तृत्वात्प्रलयानां तु तथा प्रलयधर्मि च ।
कर्तृत्वात्प्रभवाणां च तथा प्रभवधर्मि च ॥
बीजत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च ।' उपेक्षत्वादनन्यत्वादभिमानाच्च केवलम् ॥
मन्यन्ते यतयः सिद्धा अध्यात्मज्ञा गतज्वराः ।
अनित्यं नित्यमव्यक्तं व्यक्तमेतद्धि शुश्रुम ॥
अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषास्तथा ।
सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः ॥
अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञकः । यथा मुञ्ज इषीकाणां तथैवैतद्धि जायते ।
`न चैव मुञ्जसंयोगादिषीका तत्र बुध्यते ॥'
अन्यच्च मशकं विद्यादन्यच्चोदुम्बरं तथा ।
च चोदुम्बरसंयोगैर्मशकस्तत्र लिप्यते ॥
अन्य एव तथा मत्स्यस्तदन्यदुदुकं स्मृतम् ।
न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ॥
अन्यो ह्यग्निरुखाऽप्यन्या नित्यमेवमवेहि भोः ।
न चोपलिप्यते सोऽग्निरुखासंस्पर्शनेन वै ॥
पुष्करं त्वन्यदेवात्र तथाऽन्यदुदकं स्मृतम् ।
न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ॥
एतेषां सहवासं च निवासं चैव नित्यशः ।
याथातथ्येन पश्यन्ति न नित्यं प्राकृता जनाः ॥
ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् ।
ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः ॥
साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यानमुत्तमम् ।
एवं हि परिसंख्याय साङ्ख्याः केवलतां गताः ॥
ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् ।
अतः परं प्रवक्ष्यामि योगानामनुदर्शनम् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि विंशत्यधिकत्रिशततमोऽध्यायः ॥ 320 ॥

12-320-3 गुणाम्नैवातिवर्तत इति झ. पाठः ॥ 12-320-5 यदज्ञानेन कुरुते निर्गुणः सगुणः पुनरिति ड. पाठः ॥ 12-320-6 यदज्ञानं न जानीषे तदित्यव्यक्तमुच्यत इति थ. पाठः ॥ 12-320-7 कर्तृत्वाच्चैव धर्माणामिति ट. पाठः । कर्तृत्वाच्चापि योनीनां योनिधर्मेत्यथोच्यत इति ट. ड. पाठः ॥ 12-320-17 उखा मृत्पात्रविशेषः ॥