अध्यायः 321

याज्ञवल्क्येन जनकंप्रति योगनिरूपणम् ॥ 1 ॥

याज्ञवल्क्य उवाच ।
साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे ।
यथाश्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ॥
नास्ति साङ्ख्यसमं ज्ञानं नास्ति योगसमं बलम् ।
तावुभावेकचर्यौ तावुभावनिधनौ स्मृतौ ॥
पृथक्पृथक्प्रपश्यन्ति येऽप्यबुद्धिरता नराः ।
वयं तु राजन्पश्याम एकमेव तु निश्चयात् ॥
यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते ।
एकं साङ्ख्यं च योगं च यः पश्यति स तत्त्ववित् ॥
रुद्रप्रधानानपरान्विद्धि योगानरिंदम् ।
तेनैव चाथ देहेन विचरन्ति दिशो दश ॥
यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन ह ।
योगेन लोकान्विचरन्सुखं संन्यस्य चानघ ॥
तावदेवाष्टगुणिनं योगप्राहुर्मनीषिणः ।
सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम ॥
द्विगुणं योगत्यं तु योगानां प्राहुरुत्तमम् ।
सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ॥
धारणं चैव मनसः प्राणायामश्च पार्थिव ।
एकाग्रता च मनसः प्राणायामस्तथैव च ॥
प्राणायामो हि सगुणो निर्गुणं धारयेन्मनः । यद्यदृश्यति मुञ्चन्वै प्राणान्मैथिलसत्तम ।
वाताधिक्यं भवत्येव तस्मात्तं न समाचरेत् ॥
निशायाः प्रथमे यामे चोदना द्वादश स्मृताः ।
मध्ये स्वप्नात्परे यामे द्वादशैव तु चोदनाः ॥
तदेवमुपशान्तेन दान्तेनैकान्तशीलिना ।
आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ॥
पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा ।
शब्दं रूपं तथा स्पर्शं रसं गन्धं तथैव च ॥
प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल ।
इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ॥
मनस्तथैवाहंकारे प्रतिष्ठाप्य नराधिप ।
अहंकारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ॥
एवं हि परिसंख्याय ततो ध्यायन्ति केवलम् ।
विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् ॥
तस्थुषं पुरुषं नित्यमभेद्यमजरामरम् ।
शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाख्यम् ॥
युक्तस्य तु महाराज लक्षणान्युपधारम् ।
लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वयेत् ॥
निर्वाते तु यथा दीपो ज्वलेत्स्नेहस --धतः ।
निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिण ॥
पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः ।
नालं चालयितुं शक्यस्तथा युक्तस्य लक्षणम् ॥
शक्तदुन्दुभिनिर्घोषैर्विधिधैर्गीतवादितैः ।
क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ॥
तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः ।
सोपानमारुहेद्भीतस्तर्ज्यमानोऽसिषणिभिः ॥
संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् ।
तथैवोत्तरमागम्य एकाग्रमनसस्तथा ॥
स्थिरत्वादिन्द्रियाणां तु निश्चलस्तथैव च ।
एवं युक्तस्य तु मुनेर्लक्षणान्युपल---- ॥
स्वयुक्तः पश्यते ब्रह्म यत्तत्परम----यम् ।
महतस्तमसो मध्ये स्थितं ज्व नसा--भम् ॥
एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् ।
कालेन महता राजञ्श्रुतिरेषा सनातनी ॥
एतद्धि योगं योगानां किमन्यद्योगलक्षणम् ।
विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकविंशत्यधिकत्रिशततमोऽध्यायः ॥ 321 ॥

12-321-2 तावुभावेकपक्षौ तु इति ट. पाठः ॥ 12-321-3 येऽल्पबुद्धिपरायणा इति ट. ड. पाठः ॥ 12-321-6 सुखं वसति चानघेति ट. ड. पाठः ॥ 12-321-8 निर्गुणं योगकृत्यं त्विति ट. पाठः ॥ 12-321-10 दृश्यते यत्र मुञ्जन्वै इति ट. ड. पाठः ॥ 12-321-14 मनस्यगिर एव चेति ड. पाठः । पूतिकामुपसर्गं वेति ड. पाठः ॥ 12-321-24 हियमाणैर्न कम्पेयुरिति ड. पाठः ॥ 12-321-26 कालेन केवलं जानञ्श्रुतिरेषा सनातनीति ड. पाठः ॥