अध्यायः 324
भीष्मण युधिष्ठिरंप्रति दारापत्यादिषु स्नेहत्यागपूर्वकं धर्माचरणचोदकजनकपञ्चशिखसंवादानुवादः ॥ 1 ॥
युधिष्ठिर उवाच ।
ऐश्वर्यं वा महत्प्राप्य धनं वा भरतर्षभ ।
दीर्घमायुरवाप्याथ कथं मृत्युमतिक्रमेत् ॥
तपसा वा सुमहता कर्मणा वा श्रुतेन वा ।
रसायनप्रयोगैर्वा कैर्नाप्नोति जरान्तकौ ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
भिक्षोः पञ्चशिखस्येह संवादं जनकस्य च ॥
वैदेहो जनको राजा महर्षि वेदवित्तमम् ।
यर्यपृच्छत्पञ्चशिखं छिन्नधर्मार्थसंशयम् ॥
केन वृत्तेन भगवन्नतिक्रामेज्जरान्तकौ ।
तपसा वाऽथवा बुद्ध्या कर्मणा वा श्रुतेन वा ॥
एवमुक्तः स वैदेहं प्रत्युवाचापरेक्षवित् ।
निवृत्तिर्नैतयोरस्ति नातिवृत्तिः कथंचन ॥
न ह्यहानि निवर्तन्ते न मासा न पुनः क्षपाः ।
सोयं प्रपद्यतेऽध्वानं चिराय ध्रुवमध्रुवः ॥
सर्वभूतसमुच्छेदः स्रोतसेवोह्यते सदा ।
ऊह्यमानं निमज्जन्तमप्लवे कालसागरे ॥
जरामृत्युमहाग्राहे न कश्चिदतिवर्तते ।
नैवास्य कश्चिद्भवति नासौ भवति कस्यचित् ॥
पथि संगतमेवेदं दारैरन्यैश्च बन्धुभिः ।
नायमत्यन्तसंवासो लब्धपूर्वो हि केनचित् ॥
क्षिप्यन्ते तेनतेनैव निष्टनन्तः पुनः पुनः ।
कालेन जाता याता हि वायुनेवाभ्रसंचयाः ॥
जरामृत्यू हि भूतानां खादितारौ वृकाविव ।
बलिनां दुर्बलानां च ह्रस्वानां महतामपि ॥
एवंभूतेषु भूतेषु नित्यभूताध्रवेषु च ।
कथं हि हृष्येज्जातेषु मृतेषु च न संज्वरेत् ॥
कुतोऽहमागतः कोऽस्मि क्व गमिष्यामि कस्य वा ।
कस्मिन्स्थितः क्व भविता कस्मात्किमनुशोचसि ॥
द्रष्टा स्वर्गस्य न ह्यस्ति तथैव नरकस्य च ।
आगमास्त्वनतिक्रम्य दद्याच्चैव यजेत च ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुविंशत्यधिकत्रिशततमोऽध्यायः ॥ 324 ॥
12-324-14 कुतस्त्वमागतः क्वासि त्वं गमिष्यसि कस्यवेति ड. पाठः ॥