अध्यायः 028

कृष्णेन युधिष्ठिरंप्रति सृञ्जयाय नारदोक्तषोडशराजोपाख्यानकथनम् ॥ 1 ॥

वैशंपायन उवाच ।
अव्याहरति राजेन्द्रे धर्मपुत्रे युधिष्ठिरे ।
गुडाकेशो हृषीकेशमभ्यभाषत पाण्डवः ॥
अर्जुन उवाच ।
ज्ञातिशोकाभिसंतप्तो धर्मपुत्रः परंतपः ।
एष शोकार्णवे मग्नस्तमाश्वासय माधव ॥
सर्वे स्म ते संशयिताः पुनरेव जनार्दन ।
अस्य शोकं महाप्राज्ञ प्रणाशयितुमर्हसि ॥
वैशंपायन उवाच ।
एवमुक्तस्तु गोविन्दो विजयेन महात्मना ।
पर्यवर्तत राजानं पुण्डरीकेक्षणोऽच्युतः ॥
अनतिक्रमणीयो हि धर्मराजस्य केशवः ।
बाल्यात्प्रभृति गोविंदः प्रीत्या चाभ्यधिकोर्जुनात् ॥
संप्रगृह्य महाबाहुर्भुजं चन्दनभूषितम् ।
शैलस्तम्भोपमं शौरिरुवाचाभिविनोदयन् ॥
शुशुभे वदनं तस्य सुदंष्ट्रं चारुलोचनम् ।
व्याकोचमिव विस्पष्टं पझं सूर्यविबोधितम् ॥
वासुदेव उवाच ।
मा कृथाः पुरुषव्याघ्र शोकं त्वं गात्रशोषणम् ।
न हि ते सुलभा भूयो ये हताऽस्मिन्रणाजिरे ॥
स्वप्नलब्धा यथा लाभा वितथाः प्रतिबोधने ।
तथा ते क्षत्रिया राजन्ये व्यतीता महारणे ॥
सर्वे ह्यभिमुखाः शूरा निहता रणशोभिनः ।
नैषां कश्चित्पृष्ठतो वा पलायन्वा निपातितः ॥
सर्वे त्यक्त्वाऽऽत्मनः प्राणान्युद्ध्वा वीरा महामृधे ।
शस्त्रपूता दिवं प्राप्ता न ताञ्छोचितुमर्हसि ॥
क्षत्रधर्मरताः शूरा वेदवेदाङ्गपारगाः । प्राप्ता वीरगतिं पुण्यां तान्न शोचितुमर्हसि ।
मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन् ॥
अत्रैवोदाहरन्तीममितिहासं पुरातनम् ।
सृञ्जयं पुत्रशोकार्तं यथाऽयं नारदोऽब्रवीत् ॥
नारद उवाच ।
सुखदुःखैरहं त्वं च प्रजाः सर्वाश्च सृञ्जय ।
अविमुक्ता मरिष्यामस्तत्र का परिदेवना ॥
महाभाग्यं पुरा राज्ञां कीर्त्यमानं मया शृणु ।
गच्छावधानं नृपते ततो दुःखं प्रहास्यसि ॥
मृतान्महानुभावांस्त्वं श्रुत्वैव पृथिवीपतीन् । शममानय संतापं शृणु विस्तरशश्च मे ।
क्रूरग्रहाभिशमनमायुर्वर्धनमुत्तमम् ॥
अग्रिमाणां क्षितिभुजामुदारं च मनोहरम् ।
आविक्षितं मरुत्तं च मृतं सृञ्जय शुश्रुम ॥
यस्य सेन्द्राः सवरुणा बृहस्पतिपुरोगमाः ।
देवा विश्वसृजो राज्ञो यज्ञमीयुर्महात्मनः ॥
यः स्पर्धामानयच्छक्रं देवराजं पुरंदरम् ।
शक्रप्रियैषी यं विद्वान्प्रत्याचष्ट बृहस्पतिः ॥
संवर्तो याजयामास यं पीडार्थं बृहस्पतेः ॥
यस्मिन्प्रशासति महीं नृपतौ राजसत्तम ।
अकृष्टपच्या पृथिवी विबभौ सस्यमालिनी ॥
आविक्षितस्य वै सत्रे विश्वेदेवाः सभासदः ।
मरुतः परिवेष्टारः साध्याश्चासन्महात्मनः ॥
मरुद्गण मरुत्तस्य यत्सोममपिबंस्ततः ।
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
सुहोत्रं च द्वतिथिनं मृतं सृञ्जय शुश्रुम ।
यस्मे हिरण्यं ववृषे मघवा परिवत्सरम् ॥
सत्यनामा वसुमती यं प्राप्यासीञ्जनाधिपम् ।
हिरण्यमवहन्नद्यस्तस्मिञ्जनपदेश्वरे ॥
मत्स्यान्कर्कटकान्नक्रान्मकराञ्छिंशुकानपि ।
नदीष्ववासृजद्राजन्मघवा लोकपूजितः ॥
हैरण्यान्पातितान्दृष्ट्वा मत्स्यान्मकरकच्छपान् ।
सहस्रशोऽथ शतशस्ततोऽस्मयत वैतिथिः ॥
तद्धिरण्यमपर्यन्तमावृतं कुरुजाङ्गले ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यः समार्पयत् ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ।
अदक्षिणमयज्वानं श्वैत्य संशाम्य माशुचः ॥
अङ्गं बृहद्रथं चैव मृतं सृञ्जय शुश्रुम ।
यः सहस्रं सहस्राणां श्वेतानश्वानवासृजात् ॥
सहस्रं च सहस्राणां कन्या हमपरिष्कृताः ।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥
यः सहस्रं सहस्राणां गजानां पझमालिनाम् ।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥
शतं शतसहस्राणि वृषाणां हेममालिनाम् ।
गवां सहस्रानुचरं दक्षिणामत्यकालयत् ॥
अङ्गस्य यजमानस्य तदा विष्णुपदे गिरौ ।
अमाद्यदिन्द्रः सोमेन दक्षिणाभिर्द्विजातयः ॥
यस्य यज्ञेषु राजेन्द्र शतसङ्ख्येषु वै पुरा ।
देवान्मनुष्यान्गन्धर्वानत्यरिच्यन्त दक्षिणाः ॥
न जातो जनिता नान्यः पुमान्यः संप्रदास्यति ।
यदङ्गः प्रददौ वित्तं सोमसंस्थासु सप्तसु ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
शिबिमौशीनरं चैव मृतं सृञ्जय शुश्रुम ।
य इमां पृथिवीं सर्वां चर्मवत्समवेष्टयत् ॥
महता रथघोषेण पृथिवीमनुनादयन् ।
एकच्छत्रां महीं चक्रे जैत्रेणैकरथेन यः ॥
यावदस्य गवाश्वं स्यादारण्यैः पशुभिः सह ।
तावतीः प्रददौ गाः स शिबिरौशीनरोऽध्वरे ॥
न वोढारं धुरं तस्य कंचिन्मेने प्रजापतिः । न भूतं न भविष्यं च सर्वराजसु सृञ्जय ।
अन्यत्रौशीनराच्छैब्याद्राजर्षेरिन्द्रविक्रमात् ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
अदक्षिणमयज्वानं पुत्रं संस्मृत्य मा शुचः ॥
भरतं चैव दौष्यन्तिं मृतं सृञ्जय शुश्रुम ।
शाकुन्तलं महात्मानं भूरिद्रविणतेजसम् ॥
योऽबध्नात्रिशतं चाश्वान्देवेभ्यो यमुनामनु ।
सरस्वतीं विंशतिं च गङ्गामनु चतुर्दश ॥
अश्वमेधसहस्रेण राजसूयशतेन च ।
इष्टवान्स महातेजा दौष्यन्तिर्भरतः पुरा ॥
भरतस्य महत्कर्म सवराजसु पार्थिवाः ।
स्वं मर्त्या इव बाहुभ्यां नानुगन्तुमशक्नुवन् ॥
परं सहस्राद्योऽबध्नाद्धयान्वेदीर्वितत्य च ।
सहस्रं यत्र पझानां कण्वाय भरतो ददौ ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
रामं दाशरथिं चैव मृतं सृञ्जय शुश्रुम ।
योऽन्वकम्पत वै नित्यं प्रजाः पुत्रानिवौरसान् ॥
नाधनो यस्य विषये नानर्थः कस्यचिद्भवेत् ।
सर्वस्यासीत्पितृसमो रामो राज्यं यदन्वशात् ॥
कालवर्षी च पर्जन्यः सस्यानि समपादयत् ।
नित्यं सुभिक्षमेवासीद्रामे राज्यं प्रशासति ॥
प्राणिनो नाप्सु मञ्जन्ति नानर्थे पावकोऽदहत् ।
न व्यालतो भयं चासीद्रामे राज्यं प्रशासति ॥
आसन्वर्षसहस्रिण्यस्तथा वर्षसहस्रकाः ।
अरोगाः सर्वसिद्धार्था रामे राज्यं प्रशासति ॥
नान्योन्येन विवादोऽभूत्स्त्रीणामपि कुतो नृणाम् ।
धर्मनित्याः प्रजाश्चासन्रामे राज्यं प्रशासति ॥
संतुष्टाः सर्वसिद्धार्था निर्भयाः स्वैरचारिणः ।
नराः सत्यव्रताश्चासन्रामे राज्यं प्रशासति ॥
नित्यपुष्पफलाश्चैव पादपा निरुपद्रवाः ।
सर्वा द्रोणदुघा गावो रामे राज्यं प्रशासति ॥
स चतुर्दश वर्षाणि वने प्रोष्य महातपाः ।
दशाश्वमेधाञ्जारूथ्यानाजहार निरर्गलान् ॥
युवा श्यामो लोहिताक्षो मातङ्ग इव यूथपः ।
आजानुबाहुः सुमुखः सिंहस्कन्धो महाभुजः ॥
दशवर्षसहस्राणि दशवर्षशतानि च ।
अयोध्याधिपतिर्भूत्वा रामो राज्यमकारयत् ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया । पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ।
अयज्वानमदक्षिण्यं मा पुत्रमनुतप्यथाः ॥
भगीरथं च राजानं मृतं सृञ्जय शुश्रुम् ।
यस्येन्द्रो वितते यज्ञे सोमं पीत्वा मदोत्कटः ॥
असुराणां सहस्राणि बहूनि सुरसत्तमः ।
अजयद्वाहुवीर्येण भगवान्पाकशासनः ॥
यः सहस्रं सहस्राणां कन्या हेमविभूषिताः ।
ईजानो वितते यज्ञे दक्षिणामत्यकालयत् ॥
सर्वा रथगताः कन्या रथाः सर्वे चतुर्युजः ।
शतंशतं रथे नागाः पझिनो हेममालिनः ॥
सहस्रमश्वा एकैकं हस्तिनं पृष्ठतोऽन्वयुः ।
गवां सहस्रमश्वेऽश्वे सहस्रं गव्यजाविकम् ॥
उपह्वरे निवसतो यस्याङ्के निषसाद ह ।
गङ्गा भागीरथी तस्मादुर्वशी चाभवत्पुरा ॥
भूरिदक्षिणमिक्ष्वाकुं यजमानं भगीरथम् ।
त्रिलोकपथगा गङ्गा दुहितृत्वमुपेयुषी ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
दिलीपं च महात्मानं मृतं सृञ्जय शुश्रुम ।
प्रस्य कर्माणि भूरीणि कथयन्ति द्विजातयः ॥
य इमां वसुसंपूर्णां वसुधां वसुधाधिपः ।
ददौ तस्मिन्महायज्ञे ब्राह्मणेभ्यः समाहितः ॥
यस्येह यजमानस्य यज्ञेयज्ञे पुरोहितः ।
सहस्रं वारणान्हैमान्दक्षिणामत्यकालयत् ॥
यस्य यज्ञे महानासीद्यूपः श्रीमान्हिरण्मयः ।
ते देवां कर्म कुर्वाणाः शक्रज्येष्ठा उपासत ॥
चषाले यस्य सौवर्णे तस्मिन्यूपे हिरण्मये ।
ननृतुर्देवगन्धर्वाः षट््सहस्राणि सप्तधा ॥
अवादयत्तत्र वीणां मध्ये विश्वावसुः स्वयम् ।
सर्वभूतान्यमन्यन्त मम वादयतीत्ययम् ॥
एतद्राज्ञो दिलीपस्य राजानो नानुचक्रिरे ।
यस्येभा हेमसंछन्नाः पथि मत्ताः स्म शेरते ॥
राजानं शतधन्वानं दिलीपं सत्यवादिनम् ।
येऽपश्यन्सुमहात्मानं तेऽपि स्वर्गजितो नराः ॥
त्रयः शब्दा न जीर्यन्ते दिलीपस्य निवेशने ।
स्वाध्यायशब्दः ज्याशब्दः शब्दो वै दीयतामिति ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
मान्धातारं यौवनाश्वं मृतं सृञ्जय शुश्रुम ।
यं देवा मरुतो गर्भं पितुः पार्श्वादपाहरन् ॥
समृद्धो युवनाश्वस्य जठरे यो महात्मनः ।
पृषदाज्योद्भवः श्रीमांस्त्रिलोकविजयी नृपः ॥
यं दृष्ट्वा पितुरुत्सङ्गे शयानं देवरूपिणम् ।
अन्योन्यमब्रुवन्देवाः कमयं धास्यतीति वै ॥
मामेव धास्यतीत्येवमिन्द्रोऽथाभ्युपपद्यत ।
मांधातेति ततस्तस्य नाम चक्रे शतक्रतुः ॥
ततस्तु पयसो धारां पुष्टिहेतोर्महात्मनः ।
तस्यास्ये यौवनाश्वस्य पाणिरिन्द्रस्य चास्रवत् ॥
तं पिवन्पाणिमिन्द्रस्य शतमह्ना व्यवर्धत ।
स आसीद्द्वादशसमो द्वादशाहेन पार्थिवः ॥
तमिमं पृथिवी सर्वा एकाह्ना समपद्यत ।
धर्मात्मानं महात्मानं शूरमिन्द्रसमं युधि ॥
यश्चाङ्गारं तु नृपतिं मरुत्तमसितं गयम् ।
अङ्गं बृहद्रथं चैव मान्धाता समरेऽजयत् ॥
यौवनाश्वो यदाङ्गारं समरे प्रत्ययुध्यत ।
विस्फारैर्धनुषो देवा द्यौरभेदीति मेनिरे ॥
यत्र सूर्य उदेति स्म यत्र च प्रतितिष्ठति ।
सर्वं तद्यौवनाश्वस्य मान्धातुः क्षेत्रमुच्यते ॥
अश्वमेधशतेनेष्ट्वा राजसूयशतेन च ।
अददद्रोहितान्मत्स्यान्ब्राह्मणेभ्यो विशांपते ॥
हैरण्यान्यो जनोत्सेधानायतान्दशयोजनम् ।
अतिरिक्तान्द्विजातिभ्यो व्यभजंस्त्वितरे जनाः ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
ययातिं नाहुषं चैव मृतं सृञ्जय शुश्रुम ।
य इमां पृथिवीं कृत्स्नां विजित्य सहसागराम् ॥
शम्यापातेनाभ्यतीयाद्वेदीभिश्चित्रयन्महीम् ।
ईजानः क्रतुभिर्मुख्यैः पर्यगच्छद्वसुन्धराम् ॥
इष्ट्वा क्रतुसहस्रेण वाजपेयशतेन च ।
तर्पयामास विप्रेन्द्रांस्त्रिभिः काञ्चनपर्वतैः ॥
व्यूढेनासुरयुद्धेन हत्वा दैतेयदानवान् ।
व्यभजत्पृथिवीं कृत्स्नां ययातिर्नहुषात्मजः ॥
अन्त्येषु पुत्रान्निक्षिप्य यदुद्रुह्युपुरोगमान् ।
पुरुं राज्येऽभिषिच्याथ सदारः प्राविशद्वनम् ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
अम्बरीषं च नाभागं मृतं सृञ्जय शुश्रुम ।
यं प्रजा वव्रिरे पुण्यं गोप्तारं नृपसत्तमम् ॥
यः सहस्रं सहस्राणां राज्ञामयुतयाजिनाम् ।
ईजानो वितते यज्ञे ब्राह्मणेभ्यस्त्वमन्यत ॥
नैतत्पूर्वे जनाश्चक्रुर्न करिष्यन्ति चापरे ।
इत्यम्बरीषं नाभागिमन्वमोदन्त दक्षिणाः ॥
शतं राजसहस्राणि शतं राजशतानि च ।
सर्वेऽश्वमेधैरीजानास्तेऽन्वयुर्दक्षिणायनम् ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
शशबिन्दुं चैत्ररथं मृतं शुश्रुम सृञ्जय ।
यस्य भार्यासहस्राणां शतमासीन्महात्मनः ॥
सहस्रं तु सहस्राणां यस्यासञ्शाशबिन्दवाः ।
हिरण्यकवचाः सर्वे सर्वे चोत्तमधन्विनः ॥
शतं कन्या राजपुत्रमेकैकं पृथगन्वयुः ।
कन्यांकन्यां शतं नागा नागंनागं शतं रथाः ॥
रथेरथे शतं चाश्वा देशजा हेममालिनः ।
अश्वेअश्वे शतं गावो गांगां तद्वदजाविकम् ॥
एतद्धनमपर्यन्तमश्वमेधे महामखे ।
शशबिन्दुर्महाराज ब्राह्मणेभ्यो ह्यमन्यत ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
गयं चाधूर्तरजसं मृतं शुश्रुम सृञ्जय ।
यः स वर्षशतं राजा हुतशिष्टाशनोऽभवत् ॥
यस्मै वह्निर्वरान्प्रादात्ततो वव्रे वरान्गयः ।
ददतो मे क्षयो मा भूद्धर्मे श्रद्धा च वर्धताम् ॥
मनो मे रभतां सत्ये त्वत्प्रसादाद्धुताशन ।
लेभे च कामांस्तान्सर्वान्पावकादिति नः श्रुतम् ॥
दर्शेन पूर्णमासेन चातुर्मास्यैः पुनः पुनः ।
अयजद्धयमेधेन सहस्रं परिवत्सरान् ॥
शतं गवां सहस्राणि शतमश्वशतानि च ।
उत्थायोत्थाय वै प्रादात्सहस्रं परिवत्सरान् ॥
तर्पयामास सोमेन देवान्वित्तैर्द्विजानपि ।
पितॄन्स्वधाभिः कामैश्च स्त्रियः स्वाः पुरुषर्षभ ॥
सौवर्णां पृथिवीं कृत्वा दशव्यामां द्विरायताम् ।
दक्षिणामददद्राजा वाजिमेधे महाक्रतौ ॥
यावत्यः सिकता राजन्गङ्गायां पुरुषर्षभ ।
तावतीरेव गाः प्रादादाधूर्तरजसो गयः ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
रन्तिदेवं च सांकृत्यं मृतं सृञ्जय शुश्रुम ।
सम्यगाराध्य यः शक्राद्वरं लेभे महातपाः ॥
अन्नं च नो बहु भवेदतिथींश्च लभेमहि ।
श्रद्धा च नो मा व्यगमन्मा च याचिष्म कंचन ॥
उपातिष्ठन्त पशवः स्वयं तं संशितव्रतम् ।
ग्राम्यारण्या महात्मानं रन्तिदेवं यशस्विनम् ॥
महानदी चर्मराशेरुत्क्लेदात्ससृजे यतः ।
ततश्चर्मण्वतीत्येवं विख्याता सा महानदी ॥
ब्राह्मणेभ्यो ददौ निष्कान्सदसि प्रतते नृपः ।
तुभ्यंतुभ्यं निष्कमिति यदा क्रोशन्ति वै द्विजाः ॥
सहस्रं तुभ्यमित्युक्त्वा ब्राह्मणान्संप्रपद्य ते ॥
अन्वाहार्योपकरणं द्रव्योपकरणं च यत् । घटाः पात्र्यः कटाहानि स्थाल्यश्च पिठराणि च ।
नासीत्किंचिदसौवर्णं रन्तिदेवस्य धीमतः ॥
सांकृते रन्तिदेवस्य यां रात्रिमवसन्गृहे ।
आलभ्यन्त शतं गावः सहस्राणि च विंशतिः ॥
तत्र स्म सूदाः क्रोशन्ति सुमृष्टमणिकुण्डलाः ।
सूपं भूयिष्ठमश्नीध्वं नाद्य मांसं यथा पुरा ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
सगरं च महात्मानं मृतं शुश्रुम सृञ्जय ।
ऐक्ष्वाकं पुरुषव्याघ्रमतिमानुषविक्रमम् ॥
षष्टिः पुत्रसहस्राणि यं यान्तमनुजग्मिरे ।
नक्षत्रराजं वर्षान्ते व्यभ्रे ज्योतिर्गणा इव ॥
एकच्छत्रा मही यस्य प्रतापादभवत्पुरा ।
योऽश्वमेधसहस्रेण तर्पयामास देवताः ॥
यः प्रादात्कनकस्तम्भं प्रासादं सर्वकाञ्चनम् ।
पूर्णं पझदलाक्षीणां स्त्रीणां शयनसंकुलम् ॥
द्विजातिभ्योऽनुरूपेभ्यः कामांश्च विविधान्बहून् ।
यस्यादेशेन तद्वित्तं व्यभजन्त द्विजातयः ॥
खानयामास यः कोपात्पृथिवीं सागराङ्किताम् ।
यस्य नाम्ना समुद्रश्च सागरत्वमुपागतः ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
राजानं च पृथुं वैन्यं मृतं शुश्रुम सृञ्जय ।
यमभ्यषिञ्चन्संभूयः महारण्ये महर्षयः ॥
प्रथयिष्यति वै लोकान्पृथुरित्येव शब्दितः ।
क्षताद्यो वै त्रायतीति स तस्मात्क्षत्रियः स्मृतः ॥
पृथुं वैन्यं प्रजा दृष्ट्वा रक्तास्मेति यदब्रुवन् ।
ततो राजेति नामास्य अनुरागादजायत ॥
अकृष्टपच्या पृथिवी पुटकेपुटके मधु ।
सर्वा द्रोणदुघा गावो वैन्यस्यासन्प्रशासतः ॥
अरोगाः सर्वसिद्धार्था मनुष्या अकुतोभयाः ।
यथाऽभिकाममवसन्क्षेत्रेषु च गृहेषु च ॥
आपस्तस्तम्भिरे चास्य समुद्रमभियास्यतः ।
शैलाश्चापाद्व्यदीर्यन्त ध्वजभङ्गश्च नाभवत् ॥
हैरण्यांस्त्रिनरोत्सेधान्पर्वतानेकविंशतिम् ।
ब्राह्मणेभ्यो ददौ राजा योश्वमेधे महामखे ॥
स चेन्ममार सृञ्जय चतुर्भद्रतरस्त्वया ।
पुत्रात्पुण्यतरश्चैव मा पुत्रमनुतप्यथाः ॥
किं वा तूष्णीं ध्यायसे सृञ्जय त्वं न मे राजन्वाचिममां शृणोपि ।
न चेन्मोघं विप्रलप्तं ममेदं पथ्यं मुमूर्षोरिव सुप्रयुक्तम् ॥
सृञ्जय उवाच ।
शृणोमि ते नारद वाचमेनां विचित्रार्थां स्रजमिव पुण्यगन्धाम् ।
राजर्षीणां पुण्यकृतां महात्मनां कीर्त्या युक्तानां शोकनिर्नाशनार्थाम् ॥
न ते मोघं विप्रलप्तं महर्षे दृष्ट्वैवाहं नारद त्वां विशोकः ।
शुश्रूषे ते वचनं ब्रह्मवादि न्न ते तृप्याम्यमृतस्येव पानात् ॥
अमोघदर्शिन्मम चेत्प्रसादं संतापदग्धस्य विभो प्रकुर्याः ।
सुतस्य संजीवनमद्य मे स्या त्तव प्रसादात्सुतसङ्गमाप्नुयाम् ॥
नारद उवाच ।
यस्ते पुत्रः शयितोयं विजातः स्वर्णष्ठीवी यमदात्पर्वतस्ते ।
पुनस्तं ते पुत्रमहं ददामि हिरण्यनाभं वर्षसबस्रिणं च ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि अष्टाविंशोऽध्यायः ॥ 28 ॥

12-28-3 ते वयम् ॥ 12-28-4 पर्यवर्तत अभिमुखोऽभूत् ॥ 12-28-6 भुजं राज्ञः । अभिविनादयन् इति ट. ड. थ. पाठः ॥ 12-28-7 व्याकोचं विकसितम् ॥ 12-28-8 हताः अस्मिन्संधिरार्षः ॥ 12-28-9 लाभाः अर्थाः ॥ 12-28-15 महाभाग्यं माहात्म्यम् ॥ 12-28-16 श्वैत्यमानय संतापमिति ट. ड. पाठः ॥ 12-28-19 यागं माकुर्विति प्रत्याचष्ट प्रत्याख्यातवान् ॥ 12-28-24 चतुर्भद्रतरः चत्वारि धर्मज्ञानवैराग्यैश्वर्यीख्यानि भद्राणि यस्मिन्स चतुर्भद्रः । त्वया अवधिभूतेन त्वत्तोऽतिशयेन चतुर्भद्र इत्यर्थः ॥ 12-28-31 अवासृजत् यज्ञार्थमुत्सृष्टवान् ॥ 12-28-32 अत्यकालयत् दत्तवान् ॥ 12-28-55 वर्षसदृस्त्रिण्यः स्त्रियः । वर्षसहस्रकाः पुरुषाः ॥ 12-28-58 द्रोणदुधाः द्रोणपरिमितं क्षीरं दुहन्ति ताः ॥ 12-28-59 जारूथ्यान् स्तुत्यान् । त्रिगुणदक्षिणानित्यन्ये । निरर्गलानवारितद्वारान् ॥ 12-28-66 चतुर्युजश्चतुरश्वाः ॥ 12-28-68 उपह्वरे समीपे । अङ्के ऊरौ निषसाद आसांचक्रे । तस्माद्योगात्सा उर्वशी ऊरौ वासो यस्याः सा इति योगात् । ऊर्वसीत्यपेक्षिते ह्रस्वत्वं वर्णविपर्ययश्च पृषोदरादित्वात् ज्ञेयः ॥ 12-28-75 सप्तधा सप्तस्वरानुसारेणावादयदिति संबन्धः ॥ 12-28-76 मम पुरत इति शेषः । मां लक्षीकृत्येत्यर्थः ॥ 12-28-78 शतधन्वानं शतं अनन्तान् सहते धनुर्यस्य तं शतधन्वानम् । मध्यमपदलोपी समासः ॥ 12-28-82 पृषदाज्यं दधिमिश्रमाज्यं कस्यचिदर्थे पुत्रोत्पादनाय निर्मितं तद्युवनाश्वेन पीतं तत् रेतोरुधिरयोगं वेनापि तदुदरे गर्भोऽभवत् । स पितुः पार्श्वं भित्त्वा निःसारितो देवैरित्याख्यायिकार्योऽत्र सूचितः ॥ 12-28-86 अह्ना एकेन शतं पलानि व्यवर्धत । द्वादशवर्षतुल्यः ॥ 12-28-89 अभेदि भिन्ना ॥ 12-28-91 मत्स्यान् हैरण्यानिति संबन्धः ॥ 12-28-95 शम्या स्थूलबुध्नः काष्ठदण्डः स बलवता क्षिप्तो यावद्दूरं पतेत्तावान्देशः शम्यापातः । तावतान्तरेण पुरः पुरो यज्ञवेदीं कुर्वाणो वसुंधरां पर्यगच्छत् । परित्यज्य समुद्रतीरं प्राप्त इत्यर्थः ॥ 12-28-97 व्यभजत्पुत्रेभ्यो दत्तवान् ॥ 12-28-101 नृपान्दात्ये योजितवानित्यर्थः ॥ 12-28-102 दक्षिणाः दाक्ष्ययुक्ताः ॥ 12-28-103 सर्वे राजानोऽम्बरीषयज्ञेषु विप्रद्वास्यं कुर्वाणा अश्वमेधफलभागित्वात्तद्याजिनः सन्तः अम्बरीषमाहात्म्याद्दक्षिणायनं अनुपश्चात् अयुर्गताः । उत्तरायणमार्गेण हिरण्यगर्भलोक प्राप्ता इत्यर्थः ॥ 12-28-106 शाशबिन्दवाः शशबिन्दोः पुत्राः ॥ 12-28-111 गयं चामूर्तरयसमिति झ. पाठः ॥ 12-28-115 शतमश्वतराणि चेति झ. पाठः ॥ 12-28-117 दशव्यामां पञ्चाशद्धस्तविस्तारां द्विरायतां शतहस्तदीर्घाम् ॥ 12-28-122 उपातिष्ठन्त पितृकार्ये मां नियोजयेति ॥ 12-28-123 तेषां मारितानां पशूनां चर्मराशेः । उत्क्लेदात् सारद्रवात् ॥ 12-28-126 पिठराणि विततमुखानि पात्राणि ॥ 12-28-128 नाद्य मांसं पशुमात्रोपयोगस्य प्रागुक्तत्वात् ॥ 12-28-130 ऐक्ष्वाकं इक्ष्वाकुवंशजम् ॥ 12-28-134 आदेशेन आज्ञया तद्वित्तं स्वर्णप्रासादरूपम् ॥ 12-28-137 वैन्यं वेनपुत्रम् । महारण्ये दण्डकारण्ये ॥ 12-28-140 पुटकेपुटके पत्रेपत्रे इति प्राञ्चः ॥ 12-28-145 विप्रलप्तं विप्रलपितम् ॥ 12-28-147 विशोको जात इति शेषः ॥