अध्यायः 328
कपिलेनासुरि प्रति तत्वविभागादिकथनम् ॥ 1 ॥
कपिल उवाच ।
यदप्युक्तं कति तत्वानि भवन्ति तत्वमेतानि ।
यमानुपूर्व्यशः प्रोक्तान्येवमाह ॥
तत्वान्यथोक्तानि । तथाविद्यो निबुद्ध्यते ।
न स पापेन लिप्येत निर्मुक्तः सर्वसंकरात् ॥
यदप्युक्तं इहाद्यं मध्यमं च तत्वानामित्यत्र ब्रूमः ॥
एवमाद्यं मध्यमं चोक्तं बुद्ध्यादीनि त्रयोविंशतितत्वानि
विशेषपर्यवसानानि ज्ञातव्यानि भवन्तीत्येव मामकेनेत्यत्रोच्यते ॥
तदेव तद्यदा
दत्तब्राह्मणक्षत्रियवैश्यशूद्रचण्डालपुल्कसादिरेतानि ज्ञातव्यानि
बुद्ध्यादीनि विशेषपर्यवसानानि मन्तव्यानि प्रत्येतव्याभ्युक्तानि
एतदाद्यं मध्यमं च । एतस्मात्तत्वानामुत्पत्तिर्भवति अत्र प्रलीयन्ते ।
केचिदाहुराचार्याः ॥
अहमित्येतदात्मकं सशीरसङ्घातं त्रिषु लोकेषु
व्यक्तमव्यक्ताधिष्ठितमेतद्देवदत्तसंज्ञकम् ॥
योगदशमपुरुषदर्शनानां तु पञ्चविंशतितत्वानां
प्रतिबुध्यमानयोर्व्यतिरिक्तं शुचिव्यभ्रमित्याहुराचार्याः ।
एवमाह ॥
चतुर्विशतितत्वज्ञस्त्वव्यक्ते प्रतितिष्ठति ।
पञ्चविंशतितत्वज्ञोऽप्यव्यक्तमधितिष्ठति ॥' ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि अष्टाविंशत्यधिकत्रिशततमोऽध्यायः ॥ 328 ॥