अध्यायः 330
भीष्मेण युधिष्ठिरंप्रति सर्वथा धर्मस्य कर्तव्यताकथनम् ॥ 1 ॥
युधिष्ठिर उवाच । 
					यद्यस्ति दत्तमिष्टं वा तपस्तप्तं तथैव च ।
						गुरूणां वाऽपि शुश्रूषा तन्मे ब्रूहि पितामह ॥
						भीष्म उवाच । 
					आत्मनाऽनर्थयुक्तेन पापे निविशते मनः ।
						स कर्म कलुषं कृत्वा क्लेशे महति धीयते ॥
					दुर्भिक्षादेव दुर्भिक्षं क्लेशात्क्लेशं भयाद्भयम् ।
						मृतेभ्यः प्रमृता यान्ति दरिद्राः पापकर्मिणः ॥
					उत्सवादुत्सवं यान्ति स्वर्गात्स्वर्गं सुखात्सुखम् ।
						श्रद्दधानाश्च दान्ताश्च धनस्याः शुभकारिणः ॥
					व्यालकुञ्जरदुर्गेषु सर्पचोरभयेषु च ।
						हस्तावापेन गच्छन्ति नास्तिकाः किमतः परम् ॥
					प्रियदेवातिथेयाश्च वदान्याः प्रियसाधवः ।
						क्षेम्यमात्मवता मार्गमास्थिता हस्तदक्षिणाः ॥
					पुलाका इव धान्येषु पूत्यण्डा इव पक्षिषु ।
						तद्विधास्ते मनुष्येषु येषां धर्मो न कारणम् ॥
					सुशीघ्रमपि धावन्तं विधानमनुधावति ।
						शेते सह शयानेन येनयेन यथाकृतम् ॥
					पापं तिष्ठति तिष्ठन्तं धावन्तमनुधावति ।
						करोति कुर्वतः कर्म च्छायेवानुविधीयते ॥
					येनयेन यथा यद्यत्पुरा कर्म सुनिश्चितम् ।
						तत्तदेव नरो भुङ्क्ते नित्यं विहितमात्मना ॥
					समानकर्मनिक्षेपं विधानपरिरक्षणम् ।
						भूतग्राममिमं कालः समन्तादपकर्षति ॥
					अचोद्यमानानि यथा पुष्पाणि च फलानि च ।
						स्वं कालं नातिवर्तन्ते तथा कर्म पुराकृतम् ॥
					समानश्चावमानश्च लाभालाभौ जयाजयौ ।
						प्रवृत्ता न निवर्तन्ते निधनान्ताः पदेपदे ॥
					आत्मना विहितं दुःखमात्मना विहितं सुखम् ।
						गर्भशय्यामुपादाय भजते पूर्वदेहिकम् ॥
					बालो युवा वा वृद्धश्च यत्करोति शुभाशुभम् ।
						तस्यांतस्यामवस्थायां भुङ्क्ते जन्मनिजन्मनि ॥
					यथा धेनुसहस्रेषु वत्सो विन्दति मातरम् ।
						तथा पूर्वकृतं कर्म कर्तारमनुगच्छति ॥
					मलिनं हि यथा वस्त्रं पश्चाच्छुध्यति वारिणा ।
						उपवासैः प्रतप्तानां दीर्घं सुखमनन्तकम् ॥
					दीर्घकालेन तपसा सेवितेन तपोवने ।
						धर्मनिर्धूतपापानां संसिध्यन्ते मनोरथाः ॥
					शकुनानामिवाकाशे मत्स्यानामिव चोदके ।
						पदं यथा न दृश्येत तथा पुण्यकृतां गतिः ॥
					अलमन्यैरुपालब्धैः कीर्तितैश्च व्यतिक्रमैः ।
						पेशलं चानुरूपं च कर्तव्यं हितमात्मनः ॥ ॥
					इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि त्रिंशदधिकत्रिशततमोऽध्यायः ॥ 330 ॥
12-330-6 आस्थिता हतदक्षिणा इति ध. पाठः ॥ 12-330-10 तत्तदेवोत्तरं भुङ्क्ते इति झ. पाठः ॥ 12-330-13 लाभोऽलाभः क्षयाक्षयाविति झ. पाठः ॥ 12-330-14 भुज्यते पूर्वदैहिकमिति ध. पाठः ॥
