अध्यायः 331

भीष्मेण युधिष्ठिरंप्रति शुकोत्पत्तिप्रकारकथनारम्भः ॥ 1 ॥ तथा पुत्रार्थं व्यासतपश्चर्याकथनम् ॥ 2 ॥

युधिष्ठिर उवाच ।
कथं व्यासस्य धर्मात्मा शुको जज्ञे महातपाः ।
सिद्धिं च परमां प्राप्तस्तन्मे ब्रूहि पितामह ॥
कस्यां चोत्पादयामास शुकं व्यासस्तपोधनः ।
न ह्यस्य जननीं विद्मो जन्म चाग्र्यं महात्मनः ॥
कथं च बालस्य सतः सूक्ष्मज्ञाने रता मतिः ।
यथा नान्यस्य लोकेऽस्मिन्द्वितीयस्येह कस्यचित् ॥
एतदिच्छाम्यहं श्रोतुं विस्तरेण महामते ।
न हि मे तृप्तिरस्तीह शृण्वतोऽमृतमुत्तमम् ॥
माहात्म्यमात्मयोगं च विज्ञानं च शुकस्य ह ।
यथावदानुपूर्व्येण तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
न हायनैर्न पलितैर्न वित्तैर्न च बन्धुभिः ।
ऋषयश्चक्रिरे धर्मं योऽनूचानः स नो महान् ॥
तपोमूलमिदं सर्वं यन्मां पृच्छसि पाण्डव ।
तदिन्द्रियाणि संयम्य तपो भवति नान्यथा ॥
इन्द्रियाणां प्रसङ्गेन दोषमृच्छत्यसंशयम् ।
संनियम्य तु तान्येव सिद्धिमाप्नोति मानवः ॥
अश्वमेधसहस्रस्य वाजपेयशतस्य च ।
योगस्य कलया तात न तुल्यं विद्यते फलम् ॥
अत्र ते वर्तयिष्यामि जन्मयोगफलं तथा ।
शुकस्याग्र्यां गतिं चैव दुर्विदामकृतात्मभिः ॥
मेरुशृङ्गे किल पुरा कर्णिकारवनायुते ।
विजहार महादेवो भीमैर्भूतगणैर्वृतः ॥
शैलराजसुता चैव देवी तत्राभवत्पुरा ।
तत्र दिव्यं तपस्तेषे कृष्णद्वैपायनः प्रभुः ॥
योगेनात्मानमाविश्य योगधर्मपरायणः ।
धारयन्स तपस्तेपे पुत्रार्थं कुरुसत्तम ॥
अग्नेर्भूमेरपां वायोरन्तरिक्षस्य वा विभो ।
वीर्येण संमितः पुत्रो मम भूयादिति स्म ह ॥
संकल्पेनाथ मौनेन दुष्प्रापमकृतात्मभिः ।
वरयामास देवेशमास्थितस्तप उत्तमम् ॥
अतिष्ठन्मारुताहारः शतं किल समाः प्रभुः आराधयन्महादेवं बहुरूपमुमापतिम् ॥
तत्र ब्रह्मर्षयश्चैव सर्वे देवर्षयस्तथा ।
लोकपालाश्च लोकेशं साध्याश्च वसुभिः सह ॥
आदित्याश्चैव रुद्राश्च दिवाकरनिशाकरौ ।
मारुतो मरुतश्चैव सागराः सरितस्तथा ॥
अश्विनौ देवगन्धर्वास्तथा नारदपर्वतौ ।
विश्वावसुश्च गन्धर्वः सिद्धाश्चाप्सरसां गणाः ॥
तत्र रुद्रो महादेवः कर्णिकारमयीं शुभाम् ।
धारयाणः स्रजं भाति ज्योत्स्नामिव निशाकरः ॥
तस्मिन्दिव्ये वने रम्ये देवदेवर्षिसंकुले ।
आस्थितः परमं योगमृषिः पुत्रार्थमच्युतः ॥
न चास्य हीयते प्राणो न ग्लानिरुपजायते ।
त्रयाणामपि लोकानां तदद्भुतमिवाभवत् ॥
जटाश्च तेजसा तस्य वैश्वानरशिखोपमाः ।
प्रज्वलन्त्यः स्म दृश्यन्ते युक्तस्यामिततेजसः ॥
मार्कण्डेयो हि भगवानेतदाख्यातवान्मम ।
स देवचरितानीह कथयामास मे तदा ॥
एता अद्यापि कृष्णस्य तपसा तेन दीपिताः ।
अग्निवर्णा जटास्तात प्रकाशन्ते महात्मनः ॥
एवंविधेन तपसा तस्य भक्त्या च भारत ।
महेश्वरः प्रसन्नात्मा चकार मनसा मतिम् ॥
`ततस्तस्य महादेवो दर्शयामास साम्बिकः ।' उवाच चैवं भगवांख्यम्बकः प्रहसन्निव ।
एवंविधस्ते तनयो द्वैपायन भविष्यति ॥
यथा ह्यग्निर्यथा वायुर्यथा भूमिर्यथा जलम् ।
यथाऽऽकारास्तथा शुद्धो भविता ते सुतो महान् ॥
तद्भावभावी तद्बुद्धिस्तदाऽऽत्मा तदपाश्रयः ।
तेजसाऽऽवृत्य लोकांस्त्रीन्यशः प्राप्स्यति ते सुतः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकत्रिंशदधिकत्रिशततमोऽध्यायः ॥ 331 ॥

12-331-2 कथं चोत्पादयामासेति ध. पाठः ॥ 12-331-3 सूक्ष्मज्ञाने स्थितामतिरिति ध. पाठः ॥ 12-331-12 देवी भर्त्राभवत्पुरेति ध. पाठः ॥ 12-331-15 संकल्पेनाथ योगेनेति झ. पाठः ॥ 12-331-18 वसवो मरुतश्चैवेति झ. पाठः ॥ 12-331-22 हीयते वर्ण इति ध. पाठः ॥ 12-331-25 कृष्णस्य व्यासस्य ॥ 12-331-29 यशः प्राप्स्यति केवलमिति ट. ड. ध. पाठः ॥