अध्यायः 333

शुकेन व्यासाज्ञया तत्वजिज्ञासया मिथिलास्थं जनकंप्रत्यग्गभनम् ॥ 1 ॥

भीष्म उवाच ।
स मोक्षमनुचिन्त्यैव शुकः पितरमभ्यगात् ।
प्राहाभिवाद्य च गुरुं श्रेयोर्थी विनयान्वितः ॥
मोक्षधर्मेषु कुशलो भगवान्प्रब्रवीतु मे ।
यथा मे मनसः शान्तिः परमा संभवेत्प्रभो ॥
श्रुत्वा पुत्रस्य तु वचः परमर्षिरुवाच तम् ।
अधीहि पुत्र मोक्षं वै धर्मांश्च विविधानपि ॥
पितुर्नियोगाज्जग्राह शुको धर्मभृतां वरः ।
योगशास्त्रं च निखिलं कापिलं चैव भारत ॥
स तं ब्राह्नया श्रियः युक्तं ब्रह्मतुल्यपराक्रमम् ।
मेने पुत्रं यदा व्यासो मोक्षधर्मविशारदम् ॥
उवाच गच्छेति तदा जनकं मिथिलेश्वरम् ।
स ते वक्ष्यति मोक्षार्थं निखिलं मिथिलेश्वरः ॥
पितुर्नियोगादगमन्मैथिलं जनकं नृपम् ।
प्रष्टुं धर्मस्य निष्ठां वै मोक्षस्य च परायणम् ॥
उक्तश्च मानुषेण त्वं पथा गच्छेत्यविस्मितः ।
न प्रभावेण गन्तव्यमन्तरिक्षचरेण वै ॥
आर्जवेनैव गन्तव्यं न सुखान्वेषिणा तथा ।
नान्वेष्टव्या विशेषास्तु विशेषा हि प्रसङ्गिनः ॥
अहंकारो न कर्तव्यो याज्ये तस्मिन्नराधिपे ।
स्यातव्यं च वशे तस्य स ते छेत्स्यति संशयम् ॥
स धर्मकुशलो राजा मोक्षशास्त्रविशारदः ।
याज्यो मम स यद्ब्रूयात्तत्कार्यमविशङ्कया ॥
एवमुक्तः स धर्मात्मा जगाम मिथिलां मुनिः ।
पद्भ्यां शक्तोन्तरिक्षेण क्रान्तुं पृथ्वीं ससागराम् ॥
स गिरींश्चाप्यतिक्रम्य नदीतीर्थसरांसि च ।
बहुव्यालमृगाकीर्णा ह्यटवीश्च वनानि च ॥
मेहोर्हरेश्च द्वे वर्षे वर्षं हैमवतं ततः ।
क्रमेणैवं व्यतिक्रम्य भारतं वर्षमासदत् ॥
स देशान्विविधान्पश्यंश्चीनहूणनिषेवितान् ।
आर्यावर्तमिमं देशमाजगाम महामुनिः ॥
पितुर्वचनमाज्ञाय तमेवार्थं विचिन्तयन् ।
अध्वानं सोऽतिचक्राम खचरः खे पतविव ॥
पत्तनानि च रम्याणि स्फीतानि नगराणि च ।
रत्नानि च विचित्राणि पश्यन्नपि न पश्यति ॥
उद्यावानि च रम्याणि तथैवायतनानि च ।
पुण्यानि चैव तीर्थानि सोत्यक्रामदथाध्वगः ॥
सोचिरेणैव कालेन विदेहानाससाद ह ।
रक्षितान्धर्मराजेन जनकेन महात्मना ॥
तत्र ग्रामान्बहून्पश्यन्बह्वन्नरसभोजनान् ।
पल्लीघोषान्समृद्धांश्च बहुगोकुलसंकुलान् ॥
स्फीतांश्च शालियवसर्हंससारससेवितान् ।
पद्मिनीभिश्च शतशः श्रीमतीभिरलकृतान् ॥
स विदेहानतिक्रम्य समृद्धजनसेवितान् ।
मिथिलोपवनं रम्यमाससाद समृद्धिमत् ॥
हस्त्यश्वरथसंकीर्णं नरनारीसमाकुलम् ।
पश्यन्नपश्यन्निव तत्समतिक्रामदच्युतः ॥
मनसा तं बहन्भारं तमेवार्थं विचिन्तयन् ।
आत्मारामः प्रसन्नात्मा मिथिलामाससाद ह ॥
तस्या द्वारं समासाद्य द्वारपालैर्निवारितः ।
स्थितो ध्यानपरो मुक्तो विदितः प्रविवेश ह ॥
स राजमार्गमासाद्य समृद्धजनकसंकुलम् ।
पार्थिवक्षयमासाद्य निःशङ्कः प्रविवेश ह ॥
तत्रापि द्वारपलास्तमुग्रवाचा न्यषेधयन् ।
तथैव च शुक्रस्तत्र निर्मन्युः समतिष्ठत ॥
न चातपाध्वसंतप्तः क्षुत्पिपासाश्रमान्वितः ।
प्रताम्यति ग्लायति वा नापैति च तथाऽऽतपात् ॥
तेषां तु द्वारपालानामेकः शोकसमन्वितः ।
मध्यंगतमिवादित्यं दृष्ट्वा शुकमवस्थितम् ॥
पूजयित्वा यथान्यायमभिवाद्य कृताञ्जलिः ।
प्रावेशयत्ततः कक्ष्यां प्रथमां राजवेश्मनः ॥
तत्रासीनः शुकस्तात मोक्षमेवान्वचिन्तयत् ।
छायायामातपे चैव समदर्शी समद्युतिः ॥
तं मुहूर्तादिवागम्य राज्ञो मन्त्री कृताञ्जलिः ।
प्रावेशयत्ततः कक्ष्यां द्वितीयां राजवेश्मनः ॥
तत्रान्तः पुरसंबद्धं महच्चैत्ररथोपमम् ।
सुविभक्तजलाक्रीडं रम्यं पुष्पितपादपम् ॥
तं दर्शयित्वा स शुकं मन्त्री जनकमुत्तमम् ।
अर्हमासनमादिश्य निश्चक्रामः ततः पुनः ॥
तं चारुवेषाः सुश्रोण्यस्तरुण्यः प्रियदर्शनाः ।
सूक्ष्मरक्ताम्बरधरास्तप्तकाञ्चनभूषणाः ॥
संलापालापकुशला नृत्तगीतविशारदाः ।
स्मितपूर्वाभिभाषिण्यो रूपेणाप्सरसां समाः ॥
भावोपचारकुशला भावज्ञाः सत्वकोविदाः ।
परं पञ्चाशतं नार्यो वारमुख्याः समाद्रवन् ॥
पाद्यादीनि प्रतिग्राह्य पूजया परयाऽर्चयन् ।
कालोपपन्नेन तदा स्वाद्वन्नेनाभ्यतर्पयन् ॥
तस्य भुक्तवतस्तात तदन्तः पुरकाननम् ।
सुरम्यं दर्शयामासुरेकैकश्येन भारत ॥
क्रीडन्त्यश्च हसन्त्यश्च गायन्त्यश्चापि ताः शुभम् ।
उदारसत्वं सत्वज्ञाः स्त्रियः पर्यचरंस्तथा ॥
आरणेयस्तु शुद्धात्मा निःसंदेहस्त्रिकर्मकृत् ।
वश्येन्द्रियो जितक्रोधो न हृष्यति न कुप्यति ॥
तस्मै शय्यासनं दिव्यं वरार्हः रत्नभूषितम् ।
स्पर्ध्यास्तरणसंकीर्णं ददुस्ताः परमस्त्रियः ॥
पादशौचं तु कृत्वैव शुक्रः संध्यामुपास्य च ।
निषसादासने पुण्ये तमेवार्थं विचिन्तयन् ॥
पूर्वरात्रे तु तत्रासौ हुत्वा ध्यानपरायणः । मध्यरात्रे यथान्यायं निद्रामाहारयत्प्रभुः ।
ततो मुहूर्तादुत्थाय कृत्वा शौचमनन्तरम् ।
स्त्रीभिः परिवृतो धीमान्ध्यानमेवान्वपद्यत ॥
अनेन विधिना कर्ष्णिस्तदहः शेषमच्युतः ।
तां च रात्रिं नृपकुले वर्तयामास भारत ॥ ॥

इति श्रीमन्महाभारते शान्तिप्रवणि मोक्षधर्मपर्वणि त्रयस्त्रिंशदधिकत्रिशततमोऽध्यायः ॥ 333 ॥

12-333-1 मोक्षं मोक्षशास्त्रम् । अनुचिन्त्य उपादेयत्वेन ज्ञात्वा ॥ 12-333-3 धर्मांश्च त्रिविधानपीति ध. पाठः ॥ 12-333-4 शुको वेदविदांवर इति ट. ड. पाठः ॥ 12-333-5 मोक्षविद्याविशारदमिति ट. पाठः ॥ 12-333-6 मोक्षार्थं मोक्षशास्त्रार्थं । मोक्षार्थं निखिलेन विशेषत इति ट. ड. थ. पाठः ॥ 12-333-14 मेरोर्वर्षमिलावृतम् । हरेवंर्षं हरिवर्षाख्यम् । हैमवन्तं वर्षं किंपुरुषाख्यम् ॥ 12-333-24 तं भारं जिज्ञासाख्यम् । अर्थं मोक्षम् ॥ 12-333-28 नोपैति च तथा रुषमिति ड. ध. पाठः ॥ 12-333-37 कालोपचारकुशला इति ड. पाठः ॥ 12-333-41 आरणेयः अरणिजः शुकः ॥ 12-333-42 हेवार्हं रत्नभूषितमिति झ. पाठः ॥ 12-333-44 भूत्वा ध्यानपरायण इति झ. पाठः । अर्धरात्रे यथान्यायमिति ध. पाठः ॥ 12-333-46 कार्ष्णिः शुकः । अच्युतो धैर्यादिति शेषः ॥