अध्यायः 334

जनकेन शुकंप्रति मोक्षसाधनीभूताश्रमधर्मकथनपूर्वकं शुकप्रशंसनम् ॥ 1 ॥

भीष्म उवाच ।
ततः स राजा जनको मन्त्रिभिः सह भारत ।
पुरोहितं पुरस्कृत्य सर्वाण्यन्तः पुराणि च ॥
आसनं च पुरस्कृत्य रत्नानि विविधानि च ।
शिरसा चार्ध्यमादाय गुरुपुत्रं समभ्यगात् ॥
स तदासनमादाय बहुरत्नविभूषितम् ।
स्पर्ध्यास्तरणसंस्तीर्णं सर्वतोभद्रमृद्धिमत् ॥
पुरोधसा संगृहीतं हस्तेनालभ्य पार्थिवः ।
प्रददौ गुरुपुत्राय शुकाय परमार्चितम् ॥
तत्रोपविष्टं तं कार्ष्णि शास्त्रतः प्रतिपूज्य च ।
पाद्यं निवेद्य प्रथममर्ध्यं गां च न्यवेदयत् ॥
स च तां मन्त्रवत्पूजां प्रत्यगृह्णाद्यथाविधि ।
प्रतिगृह्य तु तां पूजां जनकाद्द्विजसत्तमः ॥
गां चैव समनुज्ञाय राजानमनुमान्य च ।
पर्यपृच्छन्महातेजा राज्ञः कुशलमव्ययम् ॥
अनामयं च राजेन्द्र शुकः सानुचरस्य ह ।
अनुज्ञातः स तेनाथ निषसाद सहानुगः ॥
कुशलं चाव्ययं चैव पृष्ट्वा वैयासकिं नृपः ।
किमागमनमित्येवं पर्यपृच्छत पार्थिवः ॥
शुक उवाच ।
पित्राऽहमुक्तो भद्रं ते मोक्षधर्मार्थकोविदः ।
विदेहराजो याज्यो मे जनको नाम विश्रुतः ॥
तत्र गच्छस्व वै तूर्णं यदि ते हृदि संशयः ।
प्रवृत्तौ वा निवृत्तौ वा स ते च्छेत्स्यति संशयं ॥
सोहं पितुर्नियोगात्त्वामुपप्रष्टुमिहागतः ।
तन्मे धर्मभृतां श्रेष्ठ यथावद्वक्तुमर्हसि ॥
किं कार्यं ब्राह्मणेनेह मोक्षार्थश्च किमात्मकः ।
कथं च मोक्षः प्राप्तव्यो ज्ञानेन तपसाऽथवा ॥
जनक उवाच ।
यत्कार्यं ब्राह्मणेनेह जन्मप्रभृति तच्छृणु ।
कृतोपनयनस्तात भवेद्वेदपरायणः ॥
तपसा गुरुवृत्त्या च ब्रह्मचर्येण चाभिभो ।
देवतानामृषीणां चाप्यनृणो ह्यनसूयकः ॥
वेदानधीत्य नियतो दक्षिणामपवर्ज्य च ।
अभ्यनुज्ञामथ प्राप्य समावर्तेत वै द्विजः ॥
समावृत्तश्च गार्हस्थ्ये स्वदारनिरतो वसेत् ।
अनसूयुर्यथान्यायमाहिताग्निरनावृतः ॥
उत्पाद्य पुत्रं पौत्रं तु वन्याश्रमपदे वसेत् ।
तानेवाग्नीन्यथाशास्त्रमर्चयन्नतिथिप्रियः ॥
स वनेऽग्नीन्यथान्यायमात्मन्यारोप्य धर्मवित् ।
निर्द्वन्द्वो बीतरागात्मा ब्रह्माश्रमपदे वसेत् ॥
शुक उवाच ।
उत्पन्ने ज्ञानविज्ञाने प्रत्यक्षे हृदि शाश्वते ।
किमवश्यं निवस्तव्यमाश्रमेषु वनेषु वा ॥
एतद्भवन्तं पृच्छामि तद्भवान्वक्तुमर्हति ।
यथा वेदार्थतत्त्वेन ब्रूहि मे त्वं जनाधिप ॥
जनक उवाच ।
न विना ज्ञानविज्ञाने मोक्षस्याधिगमो भवेत् ।
न विना गुरुसंबन्धं ज्ञानस्याधिगमः स्मृतः ॥
गुरुः प्लावयिता तस्य ज्ञानं प्लव इहोच्यते ।
विज्ञाय कृतकृत्यस्तु तीर्णस्तदुभयं त्यजेत् ॥
अनुच्छेदाय लोकानामनुच्छेदाय कर्मणाम् ।
पूर्वैराचरितो धर्मश्चातुराश्रम्यसंश्रितः ॥
अनेन क्रमयोगेन बहुजातिषु कर्मणाम् ।
कृत्वा शुभाशुभं कर्म मोक्षो नामेह लभ्यते ॥
भावितैः करणैश्चायं बहुसंसारयोनिषु ।
आसादयति शुद्धात्मा मोक्षं वै प्रथमाश्रमे ॥
तमासाद्य तु मुक्तस्य दृष्टार्थस्य विपश्चितः ।
त्रिष्वाश्रमेषु कोऽन्वर्थो भवेत्परमभीप्सतः ॥
राजसांस्तामसांश्चैव नित्यं दोषान्विवर्जयेत् ।
सात्विकं मार्गमास्थाय पश्येदात्मानमात्मना ॥
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ।
संपश्यन्नोपलिप्येत जले वारिचरो यथा ॥
पक्षिवत्प्रायणादूर्ध्वममुत्रानन्त्यमश्नुते ।
विहाय देहान्निर्मुक्तो निर्द्वन्द्वः प्रशमं गतः ॥
अत्र गाथाः पुरा गीताः शृणु राज्ञा ययातिना ।
धार्यन्तो या द्विजैस्तात मोक्षशास्त्रविशारदैः ॥
ज्योतिरात्मनि नान्यत्र सर्वजन्तुषु तत्समम् ।
स्वयं च शक्यते द्रष्टुं सुसमाहितचेतसा ॥
न बिभेति परो यस्मान्न बिभेति पराच्च यः ।
यश्च नेच्छति न द्वेष्टि ब्रह्म संपद्यते तु सः ॥
यदा भावं न कुरुते सर्वभूतेषु पापकम् ।
कर्मणा मनसा वाचा ब्रह्म संपद्यते तदा ॥
संयोज्य मनसाऽऽत्मानमीर्ष्यामुत्सृज्य मोहनीम् ।
त्यक्त्वा कामं च मोहं च ततो ब्रह्मत्वमश्नुते ॥
यदा श्राव्ये च दृश्ये च सर्वभूतेषु चाप्ययम् ।
समो भवति निर्द्वन्द्वो ब्रह्म संपद्यते तदा ॥
यदा स्तुतिं च निन्दां च समत्वेनैव पश्यति ।
काञ्चनं चायसं चैव सुखं दुःखं तथैव च ॥
शीतमुष्णं तथैवार्थमनर्थं प्रियमप्रियम् ।
जीवितं मरणं चैव ब्रह्म संपद्यते तदा ॥
प्रसार्येह यथाङ्गानि कूर्मः संहरते पुनः ।
तथेन्द्रियाणि मनसा संयन्तव्यानि भिक्षुणा ॥
तमः परिगतं वेश्म यथा दीपेन दृश्यते ।
तथा बुद्धिप्रदीपेन शक्य आत्मा निरीक्षितुम् ॥
एतत्सर्वं च पश्यामि त्वयि बुद्धिमतां वर ।
यच्चान्यदपि नोक्तं मे तत्त्वतो वेद तद्भवान् ॥
ब्रह्मर्षे विदितश्चासि विषयान्तमुपागतः ।
गुरोस्तव प्रसादेन तव चैवोपशिक्षया ॥
तस्यैव च प्रसादेन प्रादुर्भूतं महात्मनः ।
ज्ञानं दिव्यं ममापीदं तेनासि विदितो मम ॥
अधिकं तव विज्ञानमधिका च गतिस्तव ।
अधिकं तव चैश्वर्यं तच्च त्वं नावबुध्यसे ॥
बाल्याद्वा संशयाद्वापि भयाद्वाऽप्यविमोक्षणात् ।
उत्पन्ने चापि विज्ञाने नाधिगच्छति तां गतिं ॥
व्यवसायेन शुद्धेन मद्विधैश्छिन्नसंशयः ।
विमुच्य हृदयग्रन्थीनासादयति तां गतिम् ॥
भवांश्चोत्पन्नविज्ञानः स्थिरबुद्धिरलोलुपः ।
व्यवसायादृते ब्रह्मन्नासादयति तत्परम् ॥
नास्ति ते सुखदुःखेषु विशेषो नास्ति लोलुपः ।
नौत्सुक्यं नृत्यगीतेषु न राग उपजायते ॥
न बन्धुष्वनुबन्धस्ते न भयेष्वस्ति ते भयम् ।
पश्यामि त्वां महाभाग तुल्यलोष्टाश्मकाञ्चनम् ॥
अहं त्वामनुपश्यामि ये चाप्यन्ते मनीषिणः ।
आस्थितं परमं मार्गमक्षयं तमनामयम् ॥
यत्फलं ब्राह्मणस्येह मोक्षार्थश्च यदात्मकः ।
तस्मिन्वै वर्तसे विप्र किमन्यत्परिपृच्छसि ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुस्त्रिंशदधिकत्रिशततमोऽध्यायः ॥ 334 ॥

12-334-7 राज्ये कुशलमव्ययमिति ध. पाठः ॥ 12-334-12 मोक्षः कर्तव्य इति ट. ड.थ. पाठः ॥ 12-334-23 आचार्यः प्रापिता तस्येति ध. पाठः ॥ 12-334-32 नान्यत्र रतं तत्रैव चैव तत् इति ध. पाठः ॥ 12-334-41 चच्चान्यदपि वेत्तव्यमिति झ. पाठः ॥ 12-334-44 अधिकं भवति ज्ञानमिति ड. थ. पाठः ॥ 12-334-46 तद्विधश्छिन्नसंशय इति ध. पाठः ॥ 12-334-48 नास्ति लोलुप इति ध. पाठः ॥