अध्यायः 029
कृष्णेन युधिष्ठिरंप्रति नारदपर्वतोपाख्यानकथनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतोऽभवत् ।
पर्वतेन किमथे वा दत्तस्तेन ममार च ॥
यदा वर्षसहस्रायुस्तदा भवति मानवः ।
कथमप्राप्तकौमारः सृञ्जयस्य सुतो मृतः ॥
उताहो नाममात्रं वै सुवर्णष्ठीविनोऽभवत् ।
कथं वा काञ्चनष्ठीवीत्येतदिच्छामि वेदितुम् ॥
श्रीकृष्ण उवाच ।
अत्र ते वर्णयिष्यामि यथावृत्तं जनेश्वर ।
नारदः पर्वतश्चैव द्वावृवी लोकसत्तमौ ॥
मातुलो भागिनेयश्च देवलोकादिहागतौ ।
विहर्तुकामौ संप्रीत्या मानुषेषु पुरा विभो ॥
हविःपवित्रभोज्येन देवभोज्येन चैव हि ।
नारदो मातुलस्तत्र भागिनेयश्च पर्वतः ॥
तावुभौ तपसोपेताववनीतलचारिणौ ।
भुञ्जानौ मानुषान्भोगान्यथावत्पर्यधावताम् ॥
प्रीतिमन्तौ मुदा युक्तौ समयं चैव चक्रतुः ।
यो भवेद्धृदि संकल्पः शुभो वा यदि वाऽशुभः ॥
अन्योन्यस्य च आख्येयो मृषा शापोऽन्यथा भवेत् ।
तौ तथेति प्रतिज्ञाय महर्षी लोकपूजितौ ॥
सृञ्जयं श्वैत्यमभ्येत्य राजानमिदमूचतुः ।
आवां भवति वत्स्यावः कंचित्कालं हिताय ते ॥
यथावत्पृथिवीपाल आवयोः प्रगुणीभव ।
तथेति कृत्वा राजा तौ सत्कृत्योपचचार ह ॥
ततः कदाचित्तौ राजा महात्मानौ तपोधनौ ।
अब्रवीत्परमप्रीतः सुतेयं देवरूपिणी ॥
एकैव मम कन्यैषा युवां परिचरिष्यति ।
दर्शनीयानवद्याङ्गी शीलवृत्तसमाहिता ।
सुकुमारी कुमारी च पझकिञ्जल्कसुप्रभा ॥
परमं सौम्यमित्युक्तं ताभ्यां राजा शशास ताम् ।
कन्ये विप्रावुपचर देववत्पितृवच्च ह ॥
सा तु कन्या तथेत्युक्त्वा पितरं धर्मचारिणी ।
यथानिदेशं राज्ञस्तौ सत्कृत्योपचचार ह ॥
तस्यास्तेनोपचारेण रूपेणाप्रतिमेन च ।
नारदं हृच्छयस्तूर्णं सहसैवाभ्यपद्यत ॥
ववृधे हि ततस्तस्य हृदि कामो महात्मनः ।
यथा शुक्लस्य पक्षस्य प्रवृत्तौ चन्द्रमाः शनैः ॥
न च तं भागिनेयाय पर्वताय महात्मने ।
शशंस मन्मथं तीव्रं व्रीडमानः स धर्मवित् ॥
तपसा चेङ्गितैश्चैव पर्वतोऽथ बुबोध तम् ।
कामार्तं नारदं क्रुद्धः शशापैनं ततो भृशम् ॥
कृत्वा समयमव्यग्रो भवान्वै सहितो मया ।
यो भवेद्धृदि संकल्पः शुभो वा यदि वाऽशुभः ॥
अन्योन्यस्य स आख्येय इति तद्वै मृषा कृतम् ।
भवता वचनं ब्रह्मंस्तस्मादेष शपाम्यहम् ॥
न हि कामं प्रवर्तन्तं भवानाचष्ट मे पुरा ।
सुकुमार्यां कुमार्यां ते तस्मान्नैष क्षमाम्यहम् ॥
ब्रह्मचारी गुरुर्यस्मात्तपस्वी ब्राह्मणश्च सन् ।
अकार्षीः समयभ्रंशमावाभ्यां यः कृतो मिथः ॥
शप्स्ये तस्मात्सुसंक्रुद्धो भवन्तं तं निबोध मे ॥
सुकुमारी च ते भार्या भविष्यति न संशयः ।
वानरत्वं च ते कन्या विवाहात्प्रभृति प्रभो ।
संद्रक्ष्यन्ति नराश्चान्ये स्वरूपेण विनाकृतम् ॥
स तद्वाक्यं तु विज्ञाय नारदः पर्वतं तथा ।
अशपत्तमपि क्रोधाद्भागिनेयं स मातुलः ॥
तपसा ब्रह्मचर्येण सत्येन च दमेन च ।
युक्तोऽपि नित्यधर्मश्च न वै स्वर्गमवाप्स्यसि ॥
तौ तु शावा भृशं क्रुद्धौ परस्परममर्षणौ ।
प्रतिजग्मतुहृन्योन्यं क्रुद्धाविव गजोत्तमौ ॥
पर्वतः पृथिवीं कृत्स्नां विचचार महामतिः ।
पूज्यमानो यथान्यांयं तेजसा स्वेन भारत ॥
अथ तामलभत्कन्यां नारदः सृञ्जयात्मजाम् ।
धर्मेण विप्रप्रवरः सुकुमारीमनिन्दिताम् ॥
सा तु कन्या यथाशापं नारदं तं ददर्श ह ।
पाणिग्रहणमन्त्राणां नियोगादेव नारदम् ॥
सुकुमारी च देवर्षि वानरप्रतिमाननम् ।
नैवावमन्यत तदा प्रीतिमत्येव चाभवत् ॥
उपतस्थे च भर्तारं न चान्यं मनसाऽप्यगात् ।
देवं मुनीं वा यक्षं वा पतित्वे पतिवत्सला ॥
ततः कदाचिद्भगवान्पर्वतोऽनुचचार ह ।
वनं विरहितं किंचित्तत्रापश्यत्स नारदम् ॥
ततोऽभिवाद्य प्रोवाच नारदं पर्वतस्तदा ।
भवान्प्रसादं कुरुतात्स्वर्गादेशाय ये प्रभो ॥
तमुवाच ततो दृष्ट्वा पर्वतं नारदस्तथा ।
कृताञ्जलिमुपासीनं दीनं दीनतरः स्वयम् ॥
त्वयाऽहं प्रथमं शप्तो वानरस्त्वं भविष्यसि ।
इत्युक्तेन मया पश्चाच्छप्तस्तवमपि मत्सरात् ॥
अद्यप्रभृति वै वासं स्वर्गे नावाप्स्यसीति ह ।
तव नैतद्विसदृशं पुत्रस्थाने हि मे भवान् ॥
निवर्तयेतां तौ शापावन्योन्येन तदा मुनी ॥
श्रीसमृद्धं तदा दृष्ट्वा नारदं देवरूपिणम् ।
सुकुमारी प्रदुद्राव परपुंसविशङ्कया ॥
तां पर्वतस्ततो दृष्ट्वा प्रद्रवन्तीमनिन्दिताम् ।
अब्रवीत्तव भर्तैष नात्र कार्या विचारणा ॥
ऋषिः परमधर्मात्मा नारदो भगवान्प्रभुः ।
तवैवाभेद्यहृदयो मा ते भूदत्र संशयः ॥
सानुनीता बहुविधं पर्वतेन महात्मना ।
शापदोषं च तं भर्तुः श्रुत्वा प्रकृतिमागता ।
पर्वतोऽथ ययौ स्वर्गं नारदोऽभ्यगमद्गृहान् ॥
वासुदेव उवाच ।
प्रत्यक्षकर्ता सर्वस्य नारदो भगवानृषिः ।
एष वक्ष्यति ते पृष्टो यथावृत्तं नरोत्तम ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनत्रिंशोऽध्यायः ॥ 29 ॥
12-29-6 हविः पवित्रभोज्येन शाल्यन्नेन देवभोज्येन घृतेन ताभ्यां विहर्तुकामाविति पूर्वेण संबन्धः ॥ 12-29-11 प्रगुणीभवानुकूलो भव ॥ 12-29-13 सुकुमारी नाम्रा ॥ 12-29-14 सौम्यमुत्तमम् ॥ 12-29-20 समयं कृत्वा भवानवसदिति शेषः ॥ 12-29-22 प्रवर्तन्तं प्रवर्तमानम् । ते त्वाम् ॥