अध्यायः 336
वैशंपायनादिशिष्यप्रवासेन विमनसं व्यासंप्रति नारदस्यागमनम् ॥ 1 ॥
एतच्छ्रुत्वा गुरोर्वाक्यं व्यासशिष्या महौजसः ।
अन्योन्यं हृष्टमनसः परिषस्वजिरे तदा ॥
उक्ताः स्मो यद्भगवता तदात्वायतिसंहितम् ।
तन्नो मनसि संरूढं करिष्यामस्तथा च तत् ॥
अन्योन्यं संविभाष्यैवं सुप्रीतमनसः पुनः ।
विज्ञापयन्ति स्म गुरुं पुनर्वाक्यविशारदाः ॥
शैलादस्मान्महीं गन्तुं काङ्क्षितं नो महामुने ।
वेदाननेकधा कर्तुं यदि ते रुचितं प्रभो ॥
शिष्याणां वचनं श्रुत्वा पराशरसुतः प्रभुः ।
प्रत्युवाच ततो वाक्यं धर्मार्थसहितं हितम् ॥
क्षितिं वा देवलोकं वा गम्यतां यदि रोचते ।
अप्रमादश्च वः कार्यो ब्रह्म हि प्रचुरच्छलम् ॥
तेऽनुज्ञातास्ततः सर्वे गुरुणा सत्यवादिना ।
जग्मुः प्रदक्षिणं कृत्वा व्यासं मूर्ध्नाऽभिवाद्य च ॥
अवतीर्य महीं तेऽथ चातुर्होत्रमकल्पयन् ।
संयाजयन्तो विप्रांश्च राजन्यांश्च विशस्तथा ॥
पूज्यमाना द्विजैर्नित्यं मोदमाना गृहे रताः ।
याजनाध्यापनरताः श्रीमन्तो लोकविश्रुताः ॥
अवतीर्णेषु शिष्येषु व्यासः पुत्रसहायवान् ।
तूष्णीं ध्यानपरो धीमानेकान्ते समुपाविशत् ॥
`एतस्मिन्नेव काले तु देवर्षिर्नारदस्तथा ।
हिमवन्तमगं द्रष्टुं सिद्धचारणसेवितम् ॥'
तं ददर्शाश्रमपदे नारदः सुमहातपाः ।
अथैनमब्रवीत्काले मधुराक्षरया गिरा ॥
भोभो महर्षे वासिष्ठ ब्रह्मघोषो न वर्तते ।
एको ध्यानपरस्तूष्णीं किमास्से चिन्तयन्निव ॥
ब्रह्मघोषैर्विरहितः पर्वतोऽयं न शोभते ।
रजसा तमसा चैव सोमः सोपप्लवो यथा ॥
न भ्राजते यथापूर्वं निषादानामिवालयः ।
देवर्षिगणजुष्टोऽपि वेदध्वनिविनाकृतः ॥
ऋषयश्च हि देवाश्च गन्धर्वाश्च महौजसः ।
वियुक्ता ब्रह्मघोषेण न भ्राजन्ते यथा पुरा ॥
नारदस्य वचः श्रुत्वा कृष्णद्वैपायनोऽब्रवीत् ।
महर्षे यत्त्वया प्रोक्तं वेदवादविचक्षण ॥
एतन्मनोऽनुकूलं मे भवानर्हसि भाषितुम् ।
सर्वज्ञः सर्वदर्शी च सर्वत्र च कुतूहली ॥
त्रिषु लोकेषु यद्वृत्तं सर्वं तव मते स्थितम् ।
तदाज्ञापय विप्रर्षे ब्रूहि किं करवाणि ते ॥
यन्मया समनुष्ठेयं ब्रह्मर्षे तदुदाहर ।
वियुक्तस्येह शिष्यैर्मे नातिहृष्टमिदं मनः ॥
नारद उवाच ।
अनाम्नायमला वेदा ब्राह्मणस्याव्रतं मलम् ।
मलं पृथिव्या बाह्वीकाः स्त्रीणां कौतूहलं मलम् ॥
अधीयतां भवान्वेदान्सार्घं पुत्रेण धीमता ।
विधुन्वन्ब्रह्मघोषेण रक्षोभयकृतं तमः ॥
भीष्म उवाच ।
नारदस्य वचः श्रुत्वा व्यासः परमधर्मवित् ।
तथेत्युक्त्वाऽथ संहृष्टो वेदाभ्यासे दृढव्रतः ॥
`* उवाच च महाप्राज्ञं नारदं पुनरेव हि ॥
मलं पृथिव्या बाह्लीका इत्युक्तमधुना त्वया ।
कीदृशाश्चैव वाह्लीका ब्रूहि मे वदतां वर ॥
नारद उवाच ।
अस्यां पृथिव्यां चत्वारो देशाः पापजनैर्वृताः ।
युगन्धरस्तु प्रथमस्तथा भूतिलकः स्मृतः ॥
अच्युतच्छल इत्युक्तस्तृतीयः पारकृत्तमः ।
चतुर्थस्तु महापापो बाह्लीक इति संज्ञितः ॥
भृगोष्ट्रगर्दभक्षीरं पिबन्त्यस्य युगन्धरे ।
एवकर्णास्तु दृश्यन्ते जना वै ह्यच्युतस्थले ॥
मेहन्ति च मलं पापा विसृजन्ति जलेषु वै ।
नित्यं भूतिलकेत्यन्नं तज्जलं च पिबन्ति च ॥
हरिबाह्यास्तु बाहीका न स्मरन्ति हरिं क्वचित् ।
ऐहलौकिकमोक्षं ते मांसशोणितवर्धनाः ।
वृथा जाता भविष्यन्ति बाह्लीका इति विश्रुताः ॥
पुष्कराहारनिरताः पिशाचा यदभाषते ।
मुसुण्ठीं परिगृह्योग्रां तच्छृणुष्व महामुने ॥
ब्राह्मणीं बहुपुत्रां तां पुष्करे स्नातुमागताम् ।
युगन्धरे पयः पीत्वा ह्युचिता ह्यच्युतस्थले ॥
तथा भूतिलके स्नात्वा बाह्लीकांश्च निरीक्ष्य वै ।
आगताऽसि तथा स्नातुं कथं स्वर्गं न गच्छसि ॥
इत्युक्त्वा ब्राह्मणीभाण्डं पोथयित्वा मुसुण्ठिना ।
उवाच क्रोधताम्राक्षी पिशाची तीर्थपालिका ॥
एतत्तु ते दिवावृत्तं रात्रौ वृत्तमथान्यथा ।
गच्छ बाह्लीकसंसर्गादशुचित्वं न संशयः ॥
यद्द्विषन्ति महात्मानं न स्मरन्ति जनार्दनम् ।
न तेषां पुण्यतीर्थेषु गतिः संसर्गिणामपि ॥
उद्युक्ता ब्राह्मणी भीता प्रतियाता सुतैः सह ।
स्वदेहस्था जजापैवं सपुत्रा ध्यानतत्परा ॥
अनन्तस्य हरेः शुद्धं नाम वै द्वादशाक्षरम् ।
वत्सरत्रितये पूर्णे ब्राह्मणी पुनरागता ॥
सपुत्रा पुष्करद्वारं पिशाच्याह तथागतम् ।
नमस्ते ब्राह्मणि शुभे पूताऽहं तव दर्शनात् ॥
कुरु तीर्थाभिषेकं च सपुत्रा पापवर्जिता ।
हरेर्नाम्ना च मां साध्वी जलेन स्प्रष्टुमर्हसि ॥
इत्युक्ता ब्राह्मणी हृष्टा पुत्रैः सह शुभव्रता ।
जलेन प्रोक्षयामास द्वादशाक्षरसंयुतम् ॥
तत्क्षणादभवच्छुद्धा पिशाची दिव्यरूपिणी ।
अप्सरा ह्यभवद्दिव्या गता स्वर्लोकमुत्तभम् ॥
ब्राह्मणी चैव कालेन वासुदेवपरायणा ।
सपुत्रा चागता स्थानमच्युतस्य शुभं परम् ॥
एतत्ते कथितं विद्वन्मुने कालोऽयमागतः ॥
गमिष्येऽहं महाप्राज्ञ आगमिष्यामि वै पुनः ।
इत्युक्त्वा स जगामाथ नारदो वदतांवरः ॥
द्वैपायनस्तु भगवांस्तच्छ्रुत्वा मुनिसत्तमात् ।'
शुकेन सह पुत्रेण वेदाभ्यासमथाकरोत् ।
स्वरेणोच्चैः सशैक्ष्येण लोकानापूरयन्निव ॥
तयोरभ्यसतोरेव नानाधर्मप्रवादिनोः ।
वातोऽतिमात्रं प्रववौ समुद्रानिलवेजितः ॥
ततोऽनध्याय इति तं व्यासः पुत्रमवारयत् ।
शुको वारितमात्रस्तु कौतूहलसमन्वितः ॥
अपृच्छत्पितरं ब्रह्मन्कुतो वायुरभूदयम् ।
आख्यातुमर्हति भवान्वायोः सर्वं विचेष्टितम् ॥
शुकस्यैतद्वचः श्रुत्वा व्यासः परमधर्मवित् ।
अनध्यायनिमित्तेऽस्मिन्निदं वचनमब्रवीत् ॥
दिव्यं ते चक्षुरुत्पन्नं स्वस्थं ते निश्चलं मनः ।
तमसा रजसा चापि त्यक्तः सत्वे व्यवस्थितः ॥
आदर्शे रस्वामिव च्छायां पश्यस्यात्मानमात्मना ।
न्यस्यात्मनि स्वयं चेतो बुद्ध्या समनुचिन्तय ॥
देवयानपथो विष्णुः पितृयानपथो रविः ।
द्वावेतौ प्रेत्य पन्थानौ दिवं चाधश्च गच्छतः ॥
पृथिव्यामन्तरिक्षे च यत्र संवान्ति वायवः ।
सप्तैते वायुमार्गा वै तान्निबोधानुपूर्वशः ॥
तत्र देवगणाः साध्याः संबभूवुर्महाबलाः ।
तेषामप्यभवत्पुत्रः समानो नाम दुर्जयः ॥
उदानस्तस्य पुत्रोऽभूद्व्यानस्तस्याभवत्सुतः ।
अपानश्च ततो ज्ञेयः प्राणश्चापि तताऽपरः ॥
अनपत्योऽभवत्प्राणो दुर्घर्षः शत्रुतापनः ।
पृथक्कर्माणि तेषां तु प्रवक्ष्यामि यथातथम् ॥
प्राणिनां सर्वतो वायुश्रेष्टां वर्तयते पृथक् ।
प्राणनाच्चैव भूतानां प्राण इत्यभिधीयते ॥
प्रेरयत्यभ्रसंघातान्धूमजांश्चोष्मजांश्च यः ।
प्रथमः प्रथमे मार्गे आवहो नाम योऽनिलः ॥
अम्बरे स्नेहमभ्रेभ्यस्तटिद्भ्यश्च महाद्युतिः ।
प्रवहो नाम संवाति द्वितीयश्च सतोयदः ॥
उदयं ज्योतिषां शश्वत्सोमादीनां करोति यः ।
अन्तर्देहेषु चोदानं यं वदन्ति मनीषिणः ॥
यश्चतुर्भ्यः समुद्रेभ्यो वायुर्धारयते जलम् ।
उद्धृत्याददते चापो जीमूतेभ्योऽम्बरेऽनिलः ॥
योऽद्भिः संयोज्य जीमूतान्पर्जन्याय प्रयच्छति ।
उद्वहो नाम वर्षिष्ठस्तृतीयः स सदागतिः ॥
समुह्यमाना बहुधा येन नीताः पृथग्घनाः ।
वर्षमोक्षकृतारम्भास्ते भवन्ति घनाघनाः ॥
संहता येन चाविद्धा भवन्ति नदनान्तराः ।
रक्षणार्थाय संभूता मेघत्वमुपश्यान्ति च ॥
योऽसौ वहति देवानां विमानानि विहायसा ।
चतुर्थः संवहो नाम वायुः स गिरिमर्दनः ॥
येन वेगवता तूर्णं रूक्षेणारुजता रसान् ।
वायुना विहता मेघा न भवन्ति बलाहकाः ॥
दारुणोत्पातसंचारो नभसः स्तनयित्नुमान् ।
पञ्चमः स महावेगो विवहो नाम मारुतः ॥
यस्मिन्पारिप्लवा दिव्या भवन्त्यापो विहायसा ।
पुण्यं चाकाशगङ्गायास्तोयं विष्टभ्य तिष्ठति ॥
दूरात्प्रतिहतो यस्मिन्नेकरश्मिर्दिवाकरः ।
यो निरंशुः सहस्रस्य येन भाति वसुंधरा ॥
यस्मादाप्यायते सोमो योनिर्दिव्योऽमृतस्य यः ।
षष्ठः पिरवहो नाम स वायुर्जयतांवरः ॥
सर्वप्राणभृतां प्राणान्योऽनुकाले निरस्यति ।
यस्य वर्त्मानुवर्तेते मृत्युवैवस्वतावुभौ ॥
सम्यगन्वीक्षतां बुद्ध्या शान्तयाऽध्यात्मचिन्तकाः ।
ध्यानाभ्यासाभिरामाणां योऽमृतत्वाय कल्पते ॥
यं समासाद्य वेगेन दिशामन्तं प्रपेदिरे ।
दक्षस्य दशपुत्राणां सहस्राणि प्रजापतेः ॥
येन सृष्टः पराभूतो यात्येव न निवर्तते ।
परावहो नाम परो वायुः स दुरतिक्रमः ॥
एवमेतेऽदितेः पुत्रा मारुताः परमाद्भुताः ।
अनारतं ते संवान्ति सर्वगाः सर्वधारिणः ॥
एतत्तु महदाश्चर्यं यदयं पर्वतोत्तमः ।
कम्पितः सहसा तेन वायुनाऽतिप्रवायता ॥
विष्णोर्निः श्वासवातोऽयं यदा वेगसमीरितः ।
सहसोदीर्यते तात जगत्प्रव्यथते तदा ॥
तस्माद्ब्रह्मविदो ब्रह्म नाधीयन्तेऽतिवायति ।
वायोर्वायुभयं ह्युक्तं ब्रह्म तत्पीडितं भवेत् ॥
एतावदुक्त्वा वचनं पराशरसुतः प्रभुः ।
उक्त्वा पुत्रमधीष्वेति व्योमगङ्गामगात्तदा ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि
षट््त्रिंशदधिकत्रिशततमोऽध्यायः ॥ 336 ॥
12-336-2 तदात्वायतिसंहितम् तदात्वे तत्काले आयतौ उत्तरकाले च
संहितं सम्यक््हितम् ॥ 12-336-14 सोपप्लवो राहुग्रस्तः ॥ 12-336-15
वेदध्वनिनिराकृत इति झ. ट. पाठः ॥ 12-336-19 तदाज्ञापय देवर्षे इति ड. पाठः ॥ 12-336-21 पृथिव्या वाहीका इति ड. पाठः ॥ 12-336-22 अधीयता भवानिति झ. ड. पाठः ।
रजोभयकृतं तम इति ध. पाठः ॥ 12-336-47 समुद्रानिलवेगित इति ट.ड. पाठः ॥ 12-336-49 पितरं प्रह्ल इति ट. ड. पाठः । अपृच्छत्पितरं पुत्र इति ध. पाठः ॥ 12-336-52 व्यस्यात्मनि स्वयं वेदानिति झ. पाठः ॥ 12-336-61 अन्तर्देहेषु
चोदानं द्वितीयश्च ततोऽनिल इति ध. पाठः ॥ 12-336-71 सोमः क्षीणः संपूर्णमण्डल
इति झ. पाठः ॥ 12-336-78 विष्णोर्निश्वासनूतोयमिति थ. पाठः ॥ 12-336-79
ब्रह्मविदो वेदानिति झ. पाठः ॥ * 23 तमश्लेकादुपरि 44 तमश्लोकात्पूर्व
वर्तमानाः सार्धविशतिश्लोका ध. पुस्तक एव दृश्यन्ते ।