अध्यायः 344
बृहस्पतिना उपरिचरवसोर्याजनम् ॥ 1 ॥ तत्र श्रीहरिणा परोक्षतया भागग्रहणात्क्रुद्धं बृहस्पतिंप्रति एकतादिभिः श्वेतद्वीपवर्णनपूर्वकं भगवन्महिमोक्त्या परिसान्त्वनम् ॥ 2 ॥
भीष्म उवाच ।
ततोऽतीते महाकल्पे उत्पन्नेऽङ्गिरसः सुते ।
बभूवुर्निर्वृता देवा जाते देवपुरोहिते ॥
बृहद्ब्रह्म महच्चेति शब्दाः पर्यायवाचकाः ।
एभिः समन्वितो राजन्गुणैर्विद्वान्बृहस्पतिः ॥
तस्य शिष्यो बभूवाग्र्यो राजोपरिचरो वसुः ।
अधीतवांस्तदा शास्त्रं सम्यक्चित्रशिखण्डिजं ॥
स राजा भावितः पूर्वं दैवेन विधिना वसुः ।
पालयामास पृथिवीं दिवमाखण्डलो यथा ॥
तस्य यज्ञो महानासीदश्वमेधो महात्मनः ।
बृहस्पतिरुपाध्यायस्तत्र होता बभूव ह ॥
प्रजापतिसुताश्चात्र सदस्याश्चाभवंस्त्रयः ।
एकतश्च द्वितश्चैव त्रितश्चैव मर्हषयः ॥
धनुषाख्योऽथ रैभ्यश्च अर्वावसुपरावसू ।
ऋषिर्मोधातिथिश्चैव ताण्ड्यश्चैव महानृषिः ॥
ऋषिः शान्तिर्महाभागस्तथा वेदशिराश्च यः ।
ऋषिश्रेष्ठश्च कपिलः शालिहोत्रपिता स्मृतः ॥
आद्यः कठस्तैत्तिरिश्च वैशंपायनपूर्वजः ।
कण्वोऽथ देवहोत्रश्च एते षोडश कीर्तिताः ॥
संभूताः सर्वसंभारास्तस्मिन्राजन्महाक्रतौ ।
न तत्र पशुघातोऽभूत्स राजैवं स्थितोऽभवत् ॥
अहिंस्रः शुचिरक्षुद्रो निराशीः कर्मसंस्तुतः ।
आरण्यकपदोद्भूता भागास्तत्रोपकल्पिताः ॥
प्रीतस्ततोऽस्य भगवान्देवदेवः पुरातनः ।
साक्षात्तं दर्शयामास सोदृश्योऽन्येन केनचित् ॥
स्वयं भागमुपाघ्राय पुरोडाशं गृहीतवान् ।
अदृश्येन हृतो भागो देवेन हरिमेधसा ॥
बृहस्पतिस्ततः क्रुद्धः स्रुचमुद्यम्य वेगितः ।
आकाशं घ्नन्स्रुचः पातै रोषादश्रूण्यवर्तयत् ॥
उवाच चोपरिचरं मया भागोऽयमुद्यतः ।
ग्राह्यः स्वयं हि देवेन मत्प्रत्यक्षं न संशयः ॥
उद्यता यज्ञभागा हि साक्षात्प्राप्ताः सुरैरिह ।
किमर्थमिह न प्राप्तो दर्शनं मे हरिर्नृप ॥
भीष्म उवाच ।
ततः स तं समुद्भूतं भूमिपालो महान्वसुः ।
प्रसादयामास मुनिं सदस्यास्ते च सर्वशः ॥
`हुतस्त्वया वदानीह पुरोडाशस्य यावती ।
गृहीता देवदेवेन मत्प्रत्यक्षं न संशयः ॥
इत्येवमुक्ते वसुना सरोषश्चाब्रवीद्गुरुः ।
न यजेयमहं चात्र परिभूतस्त्वया नृप ॥
त्वया पशुर्वारितश्च कृतः पिष्टमयः पशुः ।
त्वं देवं पश्यसे नित्यं न पश्येयमहं कथम् ॥
वसुरुवाच ।
पशुहिंसा वारिता च यजुर्वेदादिमन्त्रतः ।
अहं न वारये हिंसां द्रक्ष्याम्येकान्तिको हरिम् ।
तस्मात्कोपो न कर्तव्यो भवता गुरुणा मयि ॥
वसुमेवं ब्रुवाणं तु क्रुद्ध एव बृहस्पतिः ।
उवाच ऋत्विजश्चैव किं नः कर्मेति वारयन् ॥
अथैकतो द्वितश्चैव त्रितश्चैव महर्षयः ।'
ऊचुश्चैनमसंभ्रान्ता न रोषं कर्तुमर्हसि ॥
`शृणु त्वं वचनं पुत्र अस्माभिः समुदाहृतम् ।'
नैष धर्मः कृतयुगे यत्त्वं रोषमिहाहिथाः ॥
अरोषणो ह्यसौ देवो यस्य भागोऽयमुद्यतः ।
न शक्यः स त्वया द्रष्टुमस्माभिर्वा बृहस्पते ।
यस्य प्रसादं कुरुते स वै तं द्रष्टुमर्हति ॥
वयं हि ब्रह्मणः पुत्रा मानसाः परिकीर्तिताः ।
गता निःश्रेयसार्थं हि कदाचिद्दिशमुत्तराम् ॥
तप्त्वा वर्षसहस्राणि चत्वारि तप उत्तमम् ।
एकपादा स्थिताः सम्यक्काष्ठभूताः समाहिताः ॥
मेरोरुत्तरभागे तु क्षीरोदस्यानुकूलतः ।
स देशो यत्र नस्तप्तं तपः परमदारुणम् ॥
वरेण्यं वरदं तं वै देवदेवं सनातनम् ।
कथं पश्येमहि वयं देवं नारायणं त्विति ॥
अथ व्रतस्यावभृथे वागुवाचाशरीरिणी ।
स्निग्धगम्भीरया वाचा प्रहर्षणकरी विभो ॥
सुतप्तं वस्तपो विप्राः प्रसन्नेनान्तरात्मना ।
यूयं जिज्ञासवो भक्ताः कथं द्रक्ष्यथ तं विभुम् ॥
क्षीरोदधेरुत्तरतः श्वेतद्वीपो महाप्रभः ।
तत्र नारायणपरा मानवाश्चन्द्रवर्चसः ॥
एकान्तभावोपगतास्ते भक्ताः पुरुषोत्तमम् ।
ते सहस्रार्चिषं देवं प्रविशन्ति सनातनम् ॥
अनिन्द्रिया निराहारा अनिष्पन्दाः सुगन्धिनः ।
एकान्तिनस्ते पुरुषाः श्वेतद्वीपनिवासिनः । 12-344-34ca गच्छध्वं
तत्र मुनयस्तत्रात्मा मे प्रकाशितः ॥
अथ श्रुत्वा वयं सर्वे वाचं तामशरीरिणीम् ।
यथाख्यातेन मार्गेण तं देशं प्रविशेमहि ॥
प्राप्य श्वेतं महाद्वीपं तच्चित्तास्तद्दिदृक्षवः ।
`सहसा हि गताः सर्वे तेजसा तस्य मोहिताः ॥'
ततोऽस्मद्दृष्टिविषयस्तदा प्रतिहतोऽभवत् ।
न च पश्याम पुरुषं तत्तेजोहतदर्शनाः ॥
ततो नः प्रादुरभवद्विज्ञानं देवयोगजम् ।
न किलातप्ततपसा शक्यते द्रष्टमञ्जसा ॥
ततः पुनर्वर्षशतं तप्त्वा तात्कालिकं महत् ।
व्रतावसाने च शुभान्नरान्ददृशिमो वमय् ॥
श्वेतांश्चन्द्रप्रतीकाशान्सर्वलक्षणलक्षितान् ।
नित्याञ्जलिकृतान्ब्रह्म जपतः प्रागुदङ्भुखान् ॥
मानसो नाम स जपो जप्यते तैर्महात्मभिः ।
तेनैकाग्रमनस्त्वेन प्रीतो भवति वै हरिः ॥
याऽभवन्मुनिशार्दूल भाः सूर्यस्य युगक्षये ।
एकैकस्य प्रभा तादृक्साऽभवन्मानवस्य ह ॥
तेजोनिवासः स द्वीप इति वै मेनिरे वयम् ।
न तत्राभ्यधिकः कश्चित्सर्वे ते समतेजसः ॥
अथ सूर्यसहस्रस्य प्रभां युगपदुत्थिताम् ।
सहसा दृष्टवन्तः स्म पुनरेव बृहस्पते ॥
सहिताश्चाभ्यधावन्त ततस्ते मानवा द्रुतम् ।
कृताञ्जलिपुष्टा हृष्टा नम इत्येव वादिनः ॥
ततो हि वदतां तेषामश्रौष्म विपुलं ध्वनिम् ।
बलिः किलोपह्रियते तस्य देवस्य तैर्नरैः ॥
वयं तु तेजसा तस्य सहसा हृतचेतसः ।
न किंचिदपि पश्यामो हतचक्षुर्बलेन्द्रियाः ॥
एकस्तु शब्दो विततः श्रुतोऽस्माभिरुदीरितः ।
`आकाशं पूरयन्सर्वं शिक्षाक्षरसमन्वितः ॥
जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।
नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ।
इति शब्दः श्रुतोऽस्माभिः शिक्षाक्षरसमन्वितः ॥
एतस्मिन्नन्तरे वायुः सर्वगन्धवहः शुचिः ।
दिव्यान्युवाह पुष्पाणि कर्मण्याश्चौषधीस्तथा ॥
तैरिष्टः पञ्चकालज्ञैर्हरिरेकान्तिभिर्नरैः ।
भक्त्या परमया युक्तैर्मनोवाक्कर्मभिस्तदा ॥
नूनं तत्रागतो देवो यथा तैर्वागुदीरिता ।
वयं त्वेनं न पश्यामो मोहितास्तस्य मायया ॥
मारुते सन्निवृत्ते च बलौ च प्रतिपादिते ।
चिन्ताव्याकुलितात्मानो जाताः स्मोङ्गिसांवर ॥
मानवानां सहस्रेषु तेषु वै शुद्धयोनिषु ।
अस्मान्न कश्चिन्मनसा चक्षुषा वाऽप्यपूजयत् ॥
तेऽपि स्वस्था मुनिगणा एक भावमनुव्रताः ।
नास्मासु दधिरे भावं ब्रह्मभावमनुष्ठिताः ॥
ततोऽस्मान्सुपरिश्रान्तांस्तपसा चातिकर्शितान् ।
उवाच स्वस्थं किमपि भूतं तत्राशरीरकम् ॥
देव उवाच ।
दृष्टा वः पुरुषाः श्वेताः सर्वेन्द्रियविवर्जिताः ।
दृष्टो भवति देवेश एभिर्दृष्टैर्द्विजोत्तमैः ॥
गच्छध्वं मुनयः सर्वे यथागतमितोऽचिरात् ।
न स शक्यस्त्वभक्तेन द्रष्टुं देवः कथंचन ॥
कामं कालेन महता एकान्तित्वमुपागतैः ।
शक्यो द्रष्टुं स भगवान्प्रभामण्डलदुर्दृशः ॥
महत्कार्यं च कर्तव्यं युष्माभिर्द्विजसत्तमाः ।
इतः कृतयुगेऽतीते विपर्यासं गतेऽपि च ॥
वैवस्वतेऽन्तरे विप्राः प्राप्ते त्रेतायुगे पुनः ।
सुराणां कार्यसिद्ध्यर्थं सहाया वै भविष्यथ ॥
ततस्तदद्भुतं वाक्यं निशम्यैवामृतोपमम् ।
तस्य प्रसादात्प्राप्ताः स्मो देशमीप्सिंतमञ्जसा ॥
एवं सुतपसा चैव हव्यकव्यस्तैथैव च ।
देवोऽस्माभिर्न दृष्टः स कथं त्वं द्रष्टुमर्हसि ॥
नारायणो महद्भूतं विश्वसृग्घव्यकव्यभुक् ।
अनादिनिधनोऽव्यक्तो देवदानवपूजितः ॥
एवमेकतवाक्येन द्वितत्रितमतेन च ।
अनुनीतः सदस्यैश्च बृहस्पतिरुदारधीः ।
समापयत्ततो यज्ञं दैवतं समपूजयत् ॥
समाप्तयज्ञो राजाऽपि प्रजां पालितवान्वसुः ।
ब्रह्मशापाद्दिवो भ्रष्टः प्रविवेश महीं ततः ॥
स राजा राजशार्दूल सत्यधर्मपरायणः ।
अन्तर्भूमिगतश्चैव सततं धर्मवत्सलः ॥
नारायणपरो भूत्वा नारायणजपं जपन् ।
तस्यैव च प्रसादेन पुनरेवोत्थितस्तु सः ॥
महीतलाद्गतः स्थानं ब्रह्मणः समनन्तरम् ।
परां गतिमनुप्राप्त इति नैष्ठिकमञ्जसा ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये चतुश्चत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 344 ॥
12-344-31 क्रुद्धं द्रक्ष्यथ तं प्रभुमिति ध. पाठः ॥ 12-344-34 अतीन्द्रिया निराहारा इति ध. पाठः ॥ 12-344-43 पुरुषव्यत्यय आर्षः ॥