अध्यायः 348

श्वेतद्वीपस्थेन हरिणा नारदंप्रति स्वदशावतारचरित्रकथनम् ॥ 1 ॥

भीष्म उवाच ।
नारदः परिप्रपच्छ भगवन्तं जनार्दनम् । एकार्णवे महाघोरे नष्टे स्थावरजङ्गमे ।
श्रीभगवानुवाच ।
शृणु नारद तत्वेन प्रादुर्भावान्महामुने । मत्स्यः कूर्मो वराहश्च नरसिंहोऽथ वामनः ।
रामो रामश्च रामश्च बुद्धः कल्कीति ते दश ॥
पूर्वं मीनो भविष्यामि स्थापयिष्याम्यहं प्रजाः ।
लोकान्वै धारयिष्यामि मज्जमानान्महार्णवे ॥
द्वितीयः कूर्मरूपो मे हेमकूटनिभः स्मृतः ।
मन्दरं धारयिष्यामि अमृतार्थं द्विजोत्तम ॥
मप्रां महार्णवे घोरे भाराक्रान्तां भुवं पुनः । ततो बलादहं विद्वन्सर्वभूतहिताय वै ॥'
सत्वैराक्रान्तसर्वाङ्गां नष्टां सागरमेखलाम् । आनयिष्यामि स्वं स्थानं वाराहं रूपमास्थितः ।
हिरण्याक्षं हनिष्यामि दैतेयं बलगर्वितम् ॥
नारसिंहं वषुः कृत्वा हिरण्यकशिषुं पुनः ।
सुरकार्ये हनिष्यामि यज्ञघ्नं दितिनन्दनम् ॥
विरोचनस्य बलवान्बलिः पुत्रो महासुरः । अवध्यः सर्वलोकानां सदेवासुररक्षसाम् ।
भविष्यति स शक्रं च स्वराज्याच्च्यावयिष्यति ॥
त्रैलोक्येऽपहृते तेन विमुखे च शचीपतौ ।
अदित्यां द्वादशः पुत्रः संभविष्यामि कश्यपान् ॥
`वटुर्गत्वा यज्ञसदः स्तूयमानो द्विजोत्तमैः ।
यज्ञस्तुतिं करिष्यामि श्रुत्वा प्रीतो भवेद्वलिः ॥
किमिच्छसि वटो ब्रूहीत्युक्तो याचे महद्वरम् ।
दीयतां त्रिपदीमात्रमिति याचे महाऽऽसुरम् ॥
स दद्यान्मयि संप्रीतः प्रतिषिद्धश्च मन्त्रिभिः । यावज्जलं हस्तगतं त्रिभिर्विक्रमणैर्युतम् ॥'
ततो राज्यं प्रदास्यामि शक्रायामिततेजसे ।
देवताः स्थापयिष्यामि स्वस्वस्थानेषु नारद ॥
बलिं चैव करिष्यामि पातालतलवासिनम् ।
दानवं च बलिश्रेष्ठमबध्यं सर्वदैवतैः ॥
त्रेतायुगे भविष्यामि रामो भृगुकुलोद्वहः ।
क्षत्रं चोत्सादयिष्यामि समृद्धबलवाहनम् ॥
संधौ तु समनुप्राप्ते त्रेतायां द्वापरस्य च ।
रामो दाशरथिर्भूत्वा भविष्यामि जगत्पतिः ॥
त्रितोपघाताद्वैरूप्यमेकतोऽथ द्वितस्तथा ।
प्राप्स्येते वानरत्वं हि प्रजापतिसुतावृषी ॥
तयोर्ये त्वन्वये जाता भविष्यन्ति वनौकसः । महाबला महावीर्याः शक्रतुल्यपराक्रमाः ।
ते सहाया भविष्यन्ति सुरकार्ये मम द्विज ॥ ततो रक्षःपतिं घोरं पुलस्त्यकुलपांसनम् ।
हनिष्ये रावणं रौद्रं सगणं लोककण्टकम् ॥
` विभीषणाय दास्यामि राज्यं तस्य यथाक्रमम् अयोध्यावासिनः सर्वान्नेष्येऽहं लोकमव्ययम् ॥'
द्वापरस्य कलेश्चैव संधौ पार्यवसानिके ।
प्रादुर्भावः कंसहेतोर्मथुरायां भविष्यति ॥
तत्राहं दानवान्हत्वा सुबहून्देवकण्टकान् ।
कुशस्थलीं करिष्यासि निवासं द्वारकां पुरीम् ॥
वसानस्तत्र वै पुर्यामदितेर्विप्रियंकरम् ।
हनिष्ये नरकं भौमं मुरं पीठं च दानवम् ॥
प्राग्ज्योतिषं पुरं रम्यं नानाधनसमन्वितम् ।
कुशस्थलीं नष्यिष्यामि हत्वा वै दानवोत्तमान् ॥
`कृकलास भूतं च नृगं मोचयिष्ये च वै पुनः ॥
तत्र पौत्रनिमित्तेन गत्वा वै शोणितं पुरम् । वाणस्य च पुरं गत्वा करिष्ये कदनं महत् ॥'
शंकरं रमहासेनं बाणप्रियहिते रतम् ।
पराजेष्याम्यथोद्युक्तौ देवौ लोकनमस्कृतौ ॥
ततः सुतं बलेर्जित्वा बाणं बाहुसहस्त्रिणम् ।
विनाशयिष्यामि ततः सर्वान्सौभनिवासिनः ॥
यः कालयवनः ख्यातो गर्गतेजोभिसंवृतः ।
भविष्यति वधस्तस्य मत्त एव द्विजोत्तम ॥
`कंसं केशिं तथाक्रूरमरिष्टं च महासुरम् ।
चाणूरं च महावीर्यं मुष्टिकं च महाबलम् ॥
प्रलम्बं धेनुकं चैव अरिष्टं वृषरूपिणम् ।
कालीयं च वशे कृत्वा यमुनाया महाह्रदे ॥
गोकुलेषु ततः पश्चाद्भवार्थे तु महागिरिम् ।
सप्तरात्रं धरिष्यामि वर्षमाणे तु वासवे ॥
अपक्रान्ते ततो वर्षे गिरिमूर्ध्निं व्यवस्थितः । इन्द्रेण सह संवादं करिष्यामि तदा द्विज ।
लघ्वाच्छिद्य धनं सर्वं वासुदेवं च पौण्ड्रकम् ॥'
जरासन्धश्च बलवान्सर्वराजविरोधनः भविष्यत्यसुरः स्फीतो भूमिपालो गिरिव्रजे ॥
मम बुद्धिपरिस्पन्दाद्वधस्तस्य भविष्यति ।
शिशुपालं वधिष्यामि यज्ञे धर्मसुतस्य वै ॥
`दुर्योधनापराधेन युधिष्ठिरगुणेन च ।' समागतेषु बलिषु पृथिव्यां सर्वराजसु ॥
वासविः सुसहायो वै मम त्वेको भविष्यति ।
युधिष्ठिरं स्थापयिष्ये स्वराज्ये भ्रातृभिः सह ॥
एवं लोका वदिष्यन्ति नरनारायणावृषी ।
उद्युक्तौ दहतः क्षत्रं लोककार्यार्थमीश्वरौ ॥
`शस्त्रैर्निपतिताः सर्वे नृपा यास्यन्ति वै दिवम् ॥'
कृत्वा भारावतरणं वसुधाया यथेप्सितम् ।
सर्वसात्वतमुख्यानां द्वारकायाश्च सत्तम ॥
करिष्ये प्रलयं घोरमात्मज्ञानाभिसंश्रयः ।
`द्वारकामात्मसात्कृत्वा समुद्रं गमयाम्यहम् ॥
ततः कलियुगस्यादौ द्विजराजतरुं श्रितः ।
भीषया मागधेनैव धर्मराजगृहे वसन् ॥
काषायवस्रसंवीतो मुण्डितः शुक्लदन्तवान् ।
शुद्धोदनसुतो बुद्धो मोहयिष्यामि मानवान् ॥
शूद्राः सुद्धेषु भुज्यन्ते मयि बुद्धत्वमागते ।
भविष्यन्ति नराः सर्वे बुद्धाः काषायसंवृताः ॥
अनध्याया भविष्यन्ति विप्रा यागविवर्जिताः ।
अग्निहोत्राणि सीदन्ति गुरुपूजा च नश्यति ॥
न शृण्वन्ति पितुः पुत्रा न स्नुषा नैव भ्रातरः ।
न पौत्रा न कलत्रा वा वर्तन्तेऽप्यधमोत्तमाः ॥
एवंभूतं जगत्सर्वं श्रुतिस्मृतिविवर्जितम् ।
भविष्यति कलौ पूर्णे ह्यशुद्धो धर्मसंकरः ॥
तेषां सकाशाद्धर्मज्ञा देवब्रह्मविदो नराः ।
भविष्यन्ति ह्यशुद्धाश्च न्यायच्छलविभाषिणः ॥
ये नष्टधर्मश्रोतारस्ते समाः पापनिश्चये । तस्मादेता न संभाष्या न स्पृश्या च हितार्थिभिः ।
उपवासत्रयं कुर्यात्तत्संसर्गविशुद्धये ॥
ततः कलियुगस्यान्ते ब्राह्मणो हरिपिङ्गलः ।
कल्किर्विष्णुयशः पुत्रो याज्ञवल्क्यः पुरोहितः ॥
तस्मिन्नाशे वनग्रामे तिष्ठेत्सोन्नासिमो हयः । सहया ब्राह्मणाः सर्वे तैरहं सहितः पुनः ।
म्लेच्छानुत्सादयिष्यामि पाषण़्डांश्चैव सर्वशः ॥
पाषण्डश्च कलौ तत्र माययैव विनश्यते ।
पाषण़्डकांश्चैव हत्वा तत्रान्तं प्रलये ह्यहम् ॥
ततः पश्चाद्भविष्यामि यज्ञेषु निरतः सदा । राज्यं प्रशासति पुनः कुन्तीपुत्र युधिष्ठिरे ॥'
कर्माण्यपरिमेयानि चतुर्मूर्तिधरो ह्यहम् ।
कृत्वा लोकान्गमिष्यामि स्वानहं ब्रह्मसत्कृतान् ॥
हंसः कूर्मश्च मत्स्यश्च प्रादुर्भावा द्विजोत्तम । वराहो नरसिंहश्च वामनो राम एव च ।
रामो दाशरथिश्चैव सात्वतः कल्किरेव च ॥
यदा वेदश्रुतिर्नष्टा मया प्रत्याहृता पुनः ।
सर्वदाः सश्रुतीकाश्च कृताः पूर्वं कृते युगे ॥
अतिक्रान्ताः पुराणेषु श्रुतास्ते यदि वा क्वचित् ।
अतिक्रान्ताश्च बहवः प्रादुर्भावा ममोत्तमाः ॥
लोककार्याणि कृत्वा च पुनः स्वां प्रकृतिं गताः ।
न ह्येतद्ब्रह्मणा प्राप्तमीदृशं मम दर्शनम् ॥
यत्त्वया प्राप्तमद्येह एकान्तगतबुद्धिना । एतत्ते सर्वमाख्यातं ब्रह्मन्भक्तिमतो मया ।
पुराणं च भविष्यं च सरहस्यं च सत्तम ॥
भीष्म उवाच ।
एवं स भगवान्देवो विश्वमूर्तिधरोऽव्ययः ।
एतावदुक्त्वा वचनं तत्रैवान्तर्दधे पुनः ॥
नारदोऽपि महातेजाः प्राप्यानुग्रहमीप्सितम् ।
नरनारायणौ द्रष्टुं बदर्याश्रममाद्रवत् ॥
इदं महोपनिषदं चतुर्वेदसमन्वितम् ।
सांख्ययोगकृतं तेन पञ्चरात्रानुशब्दितम् ॥
नारायंणमुखोदीतं नारदोऽश्रावयत्पुनः ।
ब्रह्मणः सदने तात यथादृष्टं यथाश्रुतम् ॥
युधिष्ठिर उवाच ।
एतदाश्चर्यभूतं हि माहात्म्यं तस्य धीमतः ।
किं वै ब्रह्मा न जानीते यतः शुश्राव नारदात् ॥
पितामहोऽपि भगवांस्तस्माद्देवादनन्तरः ।
कथं स न विजानीयात्प्रभावममितौजसः ॥
भीष्म उवाच ।
महाकल्पसहस्राणि महाकल्पशतानि च ।
समतीतानि राजेन्द्र सर्गाश्च प्रलयाश्च ह ॥
सर्गस्यादौ स्मृतो ब्रह्मा प्रजासर्गकरः प्रभुः । जानाति देवप्रवरं भूयश्चातोधिकं नृप ।
परमात्मानमीशानमात्मनः प्रभवं तथा ॥
ये त्वन्ये ब्रह्मसदने सिद्धसङ्घाः समागताः ।
तेभ्यस्तच्छ्रावयामास पुराणं वेदसंमितम् ॥
अष्टाविंशत्सहस्राणि ऋषीणां भावितात्मनाम् । आत्मानुगामिनां ब्रह्मा श्रावयामास तत्वतः ।
एवं पुरा प्राप्तमिदं भानुना मुनिभाषितम् ॥
वर्षषष्टिसहस्राणि षष्टिवर्षशतानि च । सूर्यस्य तपतो लोकान्निर्मिता ये पुरःसराः ।
तेषामकथयत्सूर्यः सर्वेषां भावितात्मनाम् ॥
सूर्यानुगामिभिस्तात ऋषिभिस्तैर्महात्मभिः ।
मेरौ समागता देवाः श्राविताश्चेदनुत्तमम् ॥
देवानां तु सकाशाद्वै ततः श्रुत्वाऽसितो द्विजः ।
श्रावयामास राजेन्द्र पितॄन्वै मुनिसत्तमः ॥
मम चापि पिता तात कथयामास शंतनुः ।
ततो मयापि श्रुत्वा च कीर्तितं तव भारत ॥
सुरैर्वा मुनिभिर्वापि पुराणं यैरिदं श्रुतम् ।
सर्वे ते परमात्मानं पूजयन्ते समन्ततः ॥
इदमाख्यानमार्षेयं पारम्पर्यागतं नृप ।
नावासुदेवभक्ताय त्वया देयं कथंचन ॥
`आख्यानमुत्तमं चेदं श्रावयेद्यः सदा नृप । तदैव मनुजो भक्तः शुचिर्भूत्वा समाहितः ।
प्राप्नुयादचिराद्राजन्विष्णुलोकं च शाश्वतम् ॥'
मत्तोन्यानि च ते राजन्नुपाख्यानशतानि वै ।
यानि श्रुतानि सर्वाणि तेषां सारोयमुद्धृतः ॥
सुरासुरैर्यथा राजन्निर्मथ्यामृतमुद्धृतम् ।
एवमेतत्पुरा विप्रैः कथामृतमिहोद्धृतम् ॥
यश्चेदं पठते नित्यं यश्चेदं शृणुयान्नरः ।
एकान्तभावोपगत एकान्ते सुसमाहितः ॥
प्राप्य श्वेतं महाद्वीपं भूत्वा चन्द्रप्रभो नरः ।
स सहस्रार्चिपं देवं प्रविशेन्नात्र संशयः ॥
मुच्येदार्तस्तथा रोगाच्छ्रुत्वेमामादितः कथाम् ।
जिज्ञासुर्लभते कामान्भक्तो भक्तगतिं व्रजेत् ॥
त्वयापि सततं राजत्रभ्यर्च्यः पुरुषोत्तमः ।
स हि माता पिता चैव कृत्स्नस्य जगतो गुरुः ॥
ब्रह्मण्यदेवो भगवान्प्रीयतां ते सनातनः ।
युधिष्ठिर महाबाहो महाबुद्धिर्जनार्दनः ॥
वैशंपायन उवाच ।
श्रुत्वैतदाख्यानवरं धर्मराड््जनमेजय ।
भ्रातरश्चास्य ते सर्वे नारायणपराभवन् ॥
जितं भगवता तेन पुरुषेणेति भारत ।
नित्यं जप्यपरा भूत्वा सारस्वतमुदीरयन् ॥
यो ह्यस्माकं गुरुः श्रेष्ठः कृष्णद्वैपायनो मुनिः ।
जगौ परमकं जप्यं नारायणमुदीरयन् ॥
गत्वान्तरिक्षात्सततं क्षीरोदममृताशयम् ।
पूजयित्वा च देवेशं पुनरायात्स्वगाश्रमम् ॥
भीष्म उवाच ।
एतत्ते सर्वमाख्यातं नारदोक्तं मयेरितम् ।
पारम्पर्यागतं ह्येतत्पित्रा मे कथितं पुरा ॥
सौतिरुवाच ।
एतत्ते सर्वमाख्यातं वैशंपायनकीर्तितम् ।
जनमेजयेन तच्छ्रुत्वा कृतं सम्यग्यथाविधि ॥
यूयं हि तप्ततपसः सर्वे च चरितव्रताः । शौनकस्य महासत्रं प्राप्ताः सर्वे द्विजोत्तमाः ।
यजध्वं सुहुतैर्यज्ञैः शाश्वतं परमेश्वरम् ।
पारम्पर्यागतं ह्येतत्पित्रा मे कथितं पुरा ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये अष्टचत्वारिंशदधिकत्रिशततमोऽध्यायः ॥ 348 ॥

12-348-2 रामश्च कृष्णः कल्की च ते दशेति थ. पाठः ॥ 12-348-6 यज्ञघ्नं बलगर्वितमिति ध. पाठः ॥ 12-348-9 अदित्यां द्वादशादित्य इति झ. पाठः ॥ 12-348-15 ततः कृतयुगे प्राप्ते द्वात्रिंशद्युगपर्यये । भविष्यामि ऋषिस्तत्र जमदग्निकुलोद्भवः । इति ध. पाठः ॥ 12-348-19 रावणं दृप्तं सर्वलोकैककण्टकमिति ट. पाठः ॥ 12-348-21 द्वपारस्य कलेश्चैव अष्टार्विशच्चतुर्युगे । प्रादुर्भावं करिष्यामि भूयो वृष्णिकुलोद्भवः । मधुरायां कंसहेतोर्वासुदेवेति नामतः । तृतीयो राम इत्येव वसुदेवसुतो बलीति थ. ध. पाठः । कलेश्चैव अष्टार्विशच्चतुर्युगे इति ध. पाठः ॥ 12-348-58 ईदृशं ब्रह्मदर्शनमिति ध. पाठः ॥