अध्यायः 353

श्वेतद्वीपाद्धदर्याश्रममुपागतस्य नारदस्य श्रीनारायणेन संवादः ॥ 1 ॥

शौनक उवाच ।
सौते सुमहदाख्यानं भवता परिकीर्तितम् ।
यच्छ्रुत्वा मुनयः सर्वे विस्मयं परमं गताः ॥
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् ।
न तथा फलदं सौते नारायणकथा यथा ॥
पाविताङ्गाः स्म संवृत्ताः श्रुत्वेमामादितः कथाम् ।
नारायणाश्रयां पुण्यां सर्वपापप्रमोचनीम् ॥
दुर्दर्शो भगवान्देवः सर्वलोकनमस्कृतः ।
सब्रह्मकैः सुरैः कृत्स्नैरन्यैश्चैव महर्षिभिः ॥
दृष्टवान्नारदो यत्तु देवं नारायणं हरिम् ।
नूनमेनद्ध्यनुमतं तस्य देवस्य सूतज ॥
यदृष्टवाञ्जगन्नाथमनिरुद्दतनौ स्थितम् । यत्प्राद्रवत्पुनर्भूयो नारदो देवसत्तमौ ।
नरनारायणौ द्रष्टुं कारणं तद्ब्रवीहि मे ॥
सौतिरुवाच ।
तस्मिन्यज्ञे वर्तमाने राज्ञः पारिक्षितस्य वै ।
कर्मान्तरेषु विधिवद्वर्तमानेषु शौनक ॥
कृष्णद्वैपायनं व्यासमृषिं वेदनिधिं प्रभुम् ।
परिपप्रच्छ राजेन्द्रः पितामहपितामहम् ॥
जनमेजय उवाच ।
श्वेतद्वीपान्निवृत्तेन नारदेन सुरर्षिणा ।
ध्यायता भगवद्वाक्यं चेष्टितं किमतः परम् ॥
बदर्याश्रममागम्य समागम्य च तावृषी ।
कियन्तं कालमवसत्कां कथां पृष्टवांश्च सः ॥
इदं शतसहस्राद्धि भारताख्यानविस्तरात् ।
आमन्थ्य मतिमन्थेन ज्ञानोदधिमनुत्तमम् ॥
नवनीतं यथा दध्नो मलयाच्चन्दनं यथा । अरण्यकं च वेदेभ्य ओषधीभ्योऽमृतं यथा ।
समुद्धृतमिदं ब्रह्मन्कथामृतमिदं तथा ॥
तपोनिधे त्वयोक्तं हि नारायणकथाश्रयम् ।
स ईशो भगवान्देवः सर्वभूतात्मभावनः ॥
अहो नारायणं तेजो दुर्दर्शं द्विजसत्तम ।
यत्राविशन्ति कल्पान्ते सर्वे ब्रह्मादयः सुराः ॥
ऋषयश्च सगन्धर्वा यच्च किंचिच्चराचरम् ।
न ततोऽस्ति परं मन्ये पावतं दिवि चेह च ॥
सर्वाश्रमाभिगमनं सर्वतीर्थावगाहनम् ।
न तथा फलदं चापि नारायणकथा यथा ॥
सर्वथा पाविताः स्मेह श्रुत्वेमामादितः कथाम् ।
हरेर्विश्वेश्वरस्येह सर्वपापप्रणाशनीम् ॥
न चित्रं कृतवांस्तत्र यदार्यो मे धनंजयः ।
वासुदेवसहायो यः प्राप्तवाञ्जयमुत्तमम् ॥
न चास्य किंचिदप्राप्यं मन्ये लोकेष्वपि त्रिषु ।
त्रैलोक्यनाथो विष्णुः स यथाऽसीत्साह्यकृत्सखा ॥
धन्याश्च सर्व एवासन्ब्रह्मंस्ते मम पूर्वजाः ।
हिताय श्रेयसे चैव येषामासीज्जनार्दनः ॥
तपसाऽप्यथ दुर्दर्शो भगवाँल्लोकपूजितः ।
यं दृष्टवन्तस्ते साक्षाच्छ्रीवत्साङ्कविभूषणम् ॥
तेभ्यो धन्यतरश्चैव नारदः परमेष्ठिजः । `दृष्टवान्यो हरिं देवं नारायणमजं विभुम् ॥'
न चाल्पतेजसमृषिं वेद्मि नारदमव्ययम् ।
श्वेतद्वीपं समासाद्य येन दृष्टः स्वयं हरिः ॥
देवप्रसादानुगतं व्यक्तं तत्तस्य दर्शनम् ।
यद्दृष्टवांस्तदा देवमनिरूद्धतनौ स्थितम् ॥
बदरीमाश्रमं यत्तु नारदः प्राद्रवत्पुनः ।
नरनारायणौ द्रष्टुं किं नु तत्कारणं मुने ॥
श्वेतद्वीपान्निवृत्तश्च नारदः परमेष्ठिजः । बदरीमाश्रमं प्राप्य समागम्य च तावृषी ।
कियन्तं कालमवसत्प्रश्नान्कान्पृष्टवांश्च ह ॥
श्वेतद्वीपादुपावृत्ते तस्मिन्वा सुमहात्मनि । किमब्रूतां महात्मानौ नरनारायणावृषी ।
तदेतन्मे यथातत्त्वं सर्वमाख्यातुमर्हसि ॥
`सौतिरुवाच ।
तस्य तद्वचनं श्रुत्वा कृष्णद्वैपायनस्तदा । शशास शिष्यमासीनं वैशंपायनमन्तिके ।
तदस्मै सर्वमाचक्ष्व यन्मत्तः श्रुतवानसि ॥
गुरोर्वचनमाज्ञाय स तु विप्रर्षभस्तदा । आचचक्षे ततः सर्वमितिहासं पुरातनम् ॥'
वैशंपायन उवाच ।
नमो भगवते तस्मै व्यासायामिततेजसे ।
यस्य प्रसादाद्वक्ष्यामि नारायणकथामिमाम् ॥
प्राप्य श्वेतं महाद्वीपं दृष्ट्वा च हरिमव्ययम् । निवृत्तो नारदो राजस्तरसा मेरुमागमत् ।
हृदयेनोद्वहन्भारं यदुक्तं परमात्मना ॥
पश्चादस्याभवद्राजन्नात्मनः साध्वसं महत् ।
यद्गत्वा दूरमध्वानं क्षेमी पुनरिहागतः ॥
मेरोः प्रचक्राम ततः पर्वतं गन्धमादनम् ।
निपपात च खात्तूर्णं विशालां बदरीमनु ॥
ततः स ददृशे देवौ पुराणावृषिसत्तमौ ।
तपश्चरन्तौ सुमहदात्मनिष्ठौ महाव्रतौ ॥
तेजसाऽभ्यधिकौ सूर्यात्सर्वलोकविरोचनात् ।
श्रीवत्सलक्षणौ पूज्यौ जटामण्डलधारिणौ ॥
जालपादभुजौ तौ तु पादयोश्चक्रलक्षणौ ।
व्यूढोरस्कौ दीर्घभुजौ तथा मुष्कचतुष्किणौ ॥
षष्टिदन्तावष्टदंष्ट्रौ मेघौघसदृशस्वनौ । स्वास्यौ पृथुललाटौ च सुभ्रूसुहनुनासिकौ ।
आतपत्रेण सदृशे शिरसी देवयोस्तयोः ॥
एवं लक्षणसंपन्नौ महापुरुषसंज्ञितौ ।
तौ दृष्ट्वा नारदो हृष्टस्ताभ्यां च प्रतिपूजितः ॥
स्वागतेनाभिभाष्याथ पृष्टश्चानामयं तथा ।
बभूवान्तर्गतमतिर्निरीक्ष्य पुरुषोत्तमौ ॥
सदोगतास्तत्र ये वै सर्वभूतनमस्कृताः ।
श्वेतद्वीपे मया दृष्टास्तादृशावृषिसत्तमौ ॥
इति संचिन्त्य मनसा कृत्वा चाभिप्रदक्षिणाम् ।
स चोपविविशे तत्र पीठे कुशमये शुभे ॥
ततस्तौ तपसां वासौ यशसां तेजसामपि ।
ऋषी शमदमोपेतौ कृत्वा पौर्वाह्णिकं विधिम् ॥
यश्चान्नारदमव्यग्रौ पाद्यार्ध्याभ्यामथार्चतः ।
पीठयोश्चोपविष्टौ तौ कृतातिथ्याह्निकौ नृपौ ॥
तेषु तत्रोपविष्टेषु स देशोऽभिव्यराजत ।
भ्राज्याहुतिमहाञ्वालैर्यज्ञवाटो यथाऽग्निभिः ॥
अथ नारायणस्तत्र नारदं वाक्यमब्रवीत् ।
सुखोपविष्टं विश्रान्तं कृतातिथ्यं सुखस्थितम् ॥
अपीदानीं स भगवान्परमात्मा सनातनः ।
श्वेतद्वीपे त्वया दृष्ट आवयोः प्रकृतिः परा ॥
नारद उवाच ।
दृष्टो मे पुरुषः श्रीमान्विश्वरूपधरोऽव्ययः ।
सर्वे लोका हि तत्रस्थास्तथा देवाः सहर्षिभिः ॥
अद्यापि चैनं पश्यामि युवां पश्यन्सनातनौ ॥
यैर्लक्षणैरुपेतः स हरिरव्यरक्तरूपधृत् ।
तैर्लक्षणैरुपेतौ हि व्यक्तरूपधरौ युवाम् ॥
दृष्टौ युवां मया तत्र तस्य देवस्य पार्श्वतः ।
इहैव चागतोऽस्म्यद्य विसृष्टः परमात्मना ॥
को हि नाम भवेत्तस्य तेजसा यशसा श्रिया ।
सदृशस्त्रिषु लोकेषु ऋते धर्मात्मजौ युवाम् ॥
तेन मे कथितः कृत्स्नो धर्मः क्षेत्रज्ञसंज्ञितः ।
प्रादुर्भावाश्च कथिता भविष्या इह ये यथा ॥
तत्र ये पुरुषाः श्वेताः पञ्चेन्द्रियविवर्जिताः ।
प्रतिबुद्धाश्च ते सर्वे भक्ताश्च पुरुषोत्तमम् ॥
तेऽर्चयन्ति सदा देवं तैः सार्धं रमते च सः ।
प्रियभक्तो हि भगवान्परमात्मा द्विजप्रियः ॥
रमते सोऽर्च्यमानो हि सदा भागवतप्रियः ।
विश्वभुक्सर्वगो देवो माधवो भक्तवत्सलः ॥
स कर्ता कारणं चैव कार्यं चातिबलद्युतिः ।
हेतुश्चाज्ञाविधानं च तत्त्वं चैव महायशाः ॥
तपसा योज्य सोत्मानं श्वेतद्वीपात्परं हि यत् ।
तेज इत्यभिविख्यातं स्वयं भासावभासितम् ॥
शान्तिः सा त्रिषु लोकेषु विहिता भावितात्मना ।
एतया शुभया बुद्ध्या नैष्ठिकं व्रतमास्थितः ॥
न तत्र सूर्यस्तपति न सोमोऽभिविराजते ।
न वायुर्वाति देवेशे तपश्चरति दुश्चरम् ॥
वेदीमष्टनलोत्सेधां भूमावास्थाय विश्वकृत् ।
एकपादस्थितो देव ऊर्ध्वबाहुरुदङ्भुखः ॥
साङ्गानावर्तयन्वेदांस्तपस्तेपे सुदुश्चरम् ।
यद्ब्रह्म ऋषयश्चैव स्वयं पशुपतिश्च यत् ॥
शेषाश्च विबुधश्रेष्ठा दैत्यदानवराक्षसाः ।
नागाः सुपर्णा गन्धर्वाः सिद्धा राजर्पयश्च ते ॥
हव्यं कव्यं च सततं विधियुक्तं प्रयुञ्जते ।
कृत्स्नं तु तस्य देवस्य चरणावुपतिष्ठतः ॥
याः क्रियाः संप्रयुक्ताश्च एकान्तगतबुद्धिभिः ।
ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयं ॥
न तस्यान्यः प्रियतरः प्रतिबुद्धैर्महात्मभिः ।
विद्यते त्रिषु लोकेषु ततोऽस्यैकान्तिकं गतः ॥
इह चैवागतोऽस्म्यद्य विसृष्टः परमात्मना ।
एवं मे भगवान्देवः स्वयमाख्यातवान्हरिः ॥
आसिष्ये तत्परो भूत्वा युवाभ्यां सह नित्यशः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये त्रिपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 353 ॥

12-353-18 केशवेनाभिसंगुप्तः प्राप्तवानाहये जयमिति ट. ध. पाठः ॥ 12-353-26 काः कथाः पृष्टवांश्च स इति ध. पाठः ॥ 12-353-31 हृदयेनोद्वहन्भावमिति ध. पाठः ॥ 12-353-36 जालपादा हंसास्तदङ्कितभुजौ हंसपादाङ्कितभुजौ । चक्रलक्षणौ चक्राङ्कितपादौ । जानुपातभुजान्ताविति ट. पाठः । रक्तपादभुजान्ताविति ध. पाठः ॥ 12-353-40 समागतौ हि तत्रैतौ सर्वभूतनमस्कृतौ । श्वेतद्वीपे मया दृष्टौ तादृशाविह सत्तमाविति थ. ध. पाठः ॥ 12-353-57 श्वेत इत्यभिविख्यातमिति ध. पाठः ॥ 12-353-58 लोकेषु सिद्धानभावितात्मनामिति च. ध. पाठः ॥ 12-353-60 नलवत्पर्वयुकत्त्वान्नलशब्देनाङ्गुलं ग्राह्मम् ॥ 12-353-64 एकान्तगतबुद्धिरव्यभिचरितबुद्धिभिः ॥ 12-353-65 ततोस्म्येकान्तितां गत इति थ. ध. पाठः ॥