अध्यायः 355

नारदंप्रति नरनारायणाभ्यां पित्र्ये कर्मणि विशेषनिरूपणम् ॥ 1 ॥

वैशंपायन उवाच ।
कस्यचित्त्वथ कालस्य नारदः परमेष्ठिजः ।
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम् ॥
ततस्तं वचनं प्राह ज्येष्ठो धर्मात्मजः प्रभुः ।
क इज्यते द्विजश्रेष्ठ दैवे पित्र्ये च कल्पिते ॥
त्वया मतिमतां श्रेष्ठ तन्मे शंस यथातथम् ।
किमेतत्क्रियते कर्म फलं वाऽस्य किमिष्यते ॥
नारद उवाच ।
त्वयैतत्कथितं पूर्वं दैवं कर्तव्यमित्यपि ।
दैवतं च परो ज्ञेयः परमात्मा सनातनः ॥
ततस्तद्भावितो नित्यं यजे वैकुण्ठमव्ययम् ।
तस्माच्च प्रसृतः पूर्वं ब्रह्मा लोकपितामहः ॥
मम वै पितरं प्रीतः परमेष्ठ्यप्यजीजनत् ।
अहं संकल्पजस्तस्य पुत्रः प्रथमकल्पितः ॥
यजामि वै पितॄन्साधो नारायणविधौ कृते ।
एवं स एव भगवान्पिता माता पितामहः ॥
इज्यते पितृयज्ञेषु मया नित्यं जगत्पतिः ।
श्रुतिश्चाप्यपरा देवाः पुत्रान्हि पितरोऽयजन् ॥
वेदश्रुतिः प्रनष्टा च पुनरध्यापिता सुतैः ।
ततस्ते मन्त्रदाः पुत्राः पितॄणामिति वैदिकम् ॥
नूनं सुरैस्तद्विदितं युवयोर्भावितात्मनोः ।
पुत्राश्च पितरश्चैव परस्परमपूजयन् ॥
त्रीन्पिण्डान्न्यस्य वै पित्र्यान्पूर्वं दत्त्वा कुशानिति ।
कथं तु पिण्डसंज्ञां ते पितरो लेभिरे पुरा ॥
नरनारायणावूचतुः ।
इमां हि धरणीं पूर्वं नष्टां सागरमेखलाम् ।
गोविन्द उज्जहाराशु वाराहं रूपमास्थितः ॥
स्थापयित्वा तु धरणीं स्वे स्थाने पुरुषोत्तमः ।
जलकर्दमलिप्ताङ्गो लोककार्यार्थमुद्यतः ॥
प्राप्ते चाह्निककाले तु मध्यदेशगते रवौ ।
दंष्ट्राविलग्नांस्त्रीन्पिण्डान्विधूय सहसा प्रभुः ॥
स्थापयामास वै पृथ्व्यां कुशानास्तीर्य नारद ।
स तेष्वात्मानमुद्दिश्य पित्र्यं चक्रे यथाविधि ॥
संकल्पयित्वा त्रीन्पिण्डान्स्वेनैव विधिना प्रभुः ।
आत्मगात्रोष्मसंभूतैः स्नेहगर्भैस्तिलैरपि ॥
प्रोक्ष्यापसव्यं देवेशः प्राङ्भुखः कृतवान्स्वयम् ।
मर्यादास्थापनार्थं च ततो वचनमुक्तवान् ॥
वृषाकपिरुवाच ।
अहं हि पितरः स्रष्टुमुद्यतो लोककृत्स्वयम् ।
तस्य चिन्तयतः सद्यः पितृकार्यविधीन्परान् ॥
दंष्ट्राभ्यां प्रविनिर्धूता ममैते दक्षिणां दिशम् ।
आश्रिता धरणीं पीड्य तस्मात्पितर एव ते ॥
त्रयो मूर्तिविहीना वै पिण्डमूर्तिधरास्त्विमे ।
भवन्तु पितरो लोके मया सृष्टाः सनातनाः ॥
पिता पितामहश्चैव तथैव प्रपितामहः । अहमेवात्र विज्ञेयस्त्रिषु पिण्डेषु संस्थितः ।
नास्ति मत्तोऽधिकः कश्चित्को वान्योर्च्यो मया स्वयं
अहमेव पिता लोके अहमेव पितामहः ।
पितामहपिता चैव अहमेवात्र कारणम् ॥
इत्येतदुक्त्वा वचनं देवदेवो वृषाकपिः । वराहपर्वते विप्र दत्त्वा पिण्डान्सविस्तरान् ।
आत्मानं पूजयित्वैव तत्रैवादर्शनं गतः ॥
एतदर्थं सुभमते पितरः पिण्डसंज्ञिताः ।
लभन्ते सततं पूजां वृषाकपिवचो यथा ॥
ये यजन्ति पितॄन्देवान्गुरूंश्चैवातिर्थीस्तथा ।
गाश्चैव द्विजमुख्यांश्च पितरं मातरं तथा ॥
कर्मणा मनसा वाचा विष्णुमेव यजन्ति ते ।
अन्तर्गतः स भगवान्सर्वसत्वशरीरगः ॥
समः सर्वेषु भूतेषु ईश्वरः सुखदुःखयोः ।
महान्महात्मा सर्वात्मा नारायण इति श्रुतिः ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये पञ्चपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 355 ॥

12-355-2 क इज्यते द्विजवरैर्दैवे पित्र्ये च कर्मणीति ध. पाठः ॥ 12-355-4 परो यज्ञ इति झ. पाठः ॥ 12-355-6 मम पितरं प्रजापतिम् । ब्रह्मा परमेष्ठीति संबन्धः । नारदो दक्षशापात्प्रजापतेः सकाज्ञात्पुनर्जन्म प्रापेति हरिवंशेऽस्ति । तस्य ब्रह्मणः ॥ 12-355-7 नारायणविधौ तान्त्रिके पूजादौ ॥ 12-355-8 अग्निष्वात्तादीन्पुत्रान् पितरो देवा अध्याप्यासुरैः सह युद्धार्थं गतास्ततश्चिरोपिताना तेषां श्रुतिः नष्टा न प्रतिभाति । ततस्ते पुत्रेभ्य एव वेदमधीतयन्त इत्याख्यायिका पुराणान्तरप्रसिद्धा सूचिता ॥ 12-355-9 पुत्राः पितृत्वमुपपेदिर इति झ. ध. पाठः ॥ 12-355-11 न्यस्य वै पृथ्व्यामिति ध. थ. पाठः । पूर्वं पृथ्व्यां कुशान्दत्वा तत्र पित्राद्युद्देशेन पिण्डान्न्यस्यापूजयमिति संबन्धः ॥ 12-355-14 मध्यंदिनगते रवाविति थ. ध. पाठः । दंष्ट्राविलग्नान्मृत्पिण़्डानिति ट. थ. पाठः ॥ 12-355-16 तिलैरप इति थ. ध. पाठः ॥ 12-355-18 पितरः पितॄन् ॥ 12-355-19 विष्णोः शालग्रामइव पितॄणां मूर्तयः पिण्डा एवेत्याह । दंष्ट्राभ्यामिति । दंष्ट्राभ्यां प्रविनिर्धूता मृत्पिण्डा दक्षिणां दिशमिति ध. थ. पाठः । दंष्ट्राभ्यां विनिधूतांस्त्रीन्पिण्डानां दक्षिणां दिशमिति ठ. पाठः । आश्रिता शरणीं पिण्डा इति झ. पाठः ॥ 12-355-21 पित्तामहश्चेत्यादिना श्राद्धं सर्वं विष्णुदैवत्यमेवेति पित्र्यप्रकारो दर्शितः ॥ 12-355-22 न को मम पिता लोक इति ध. पाठः । को वा मम पिता लोके इति झ. पाठः । मातामहः पिता चैवेति ध. पाठः ॥ 12-355-24 एषा तस्य स्थितिर्विप्रेति झ. पाठः ॥ 12-355-25 पितॄन्भक्त्येति थ. ध. पाठः ॥