अध्यायः 357
					 श्रीनारायणेन स्वनाभिपद्मो ब्रह्मणः सर्जनम् ॥ 1 ॥ ततो
						मधुकैटभयोरुत्पादनम् ॥ 2 ॥ ताभ्यां ब्रह्मणो वेदापहरणम् ॥ 3 ॥ हयशिरोरूपिणा
						हरिणा ब्रह्मणे पुनर्वेदप्रत्यर्पणपूर्वकं मधुकैटभसंहरणम् ॥ 4 ॥ वैशंपायनेन
						जनमेजयाय श्रीनारायणमहिमानुवर्णनम् ॥ 5 ॥ 
					
					
						श्रुतं भगवतस्तस्य माहात्म्यं परमात्मनः ।
						जन्मधर्मगृहे चैव नरनारायणात्मकम् ॥
					 
					
						महावराहसृष्टा च पिण्डोत्पत्तिः पुरातनी ।
						प्रवृत्तौ च निवृत्तौ च यो यथा परिकल्पितः ॥
					 
					
						तथा स नः श्रुतो ब्रह्मन्कथ्यमानस्त्वयाऽनघ ।
						हव्यकव्यभुजो विष्णुरुदक्पूर्वे महोदधौ ॥
					 
					
						यच्च तत्कथितं पूर्वं त्वया हयशिरो महत् ।
						तच्च दृष्टं भगवता ब्रह्मणा परमेष्ठिना ॥
					 
					
						किं तदुत्पादितं पूर्वं हरिणा लोकधारिणा ।
						रूपं प्रभावं महतामपूर्वं धीमतांवर ॥
					 
					
						दृष्ट्वा हि विवुधश्रेष्ठमपूर्वममितौजसम् ।
						तदश्वशिरसं पुण्यं ब्रह्मा किमकरोन्मुने ॥
					 
					
						एतन्नः संशयं ब्रह्मन्पुराणं ब्रह्मसंभवम् ।
							कथयस्वोत्तममते महापुरुषसंश्रितम् ।
						
						पाविताः स्म त्वया ब्रह्मन्पुण्याः कथय ताः कथाः ॥
						
						सौतिरुवाच । 
					 
					
						कथयिष्यामि ते सर्वं पुराणं वेदसंमितम् ।
						जगौ यद्भगवान्व्यासो राज्ञः पारिक्षितस्य वै ॥
					 
					
						श्रुत्वाऽश्वशिरसो मूर्ति देवस्य हरिमेधसः ।
						उत्पन्नसंशयो राजा एतदेवमचोदयत् ॥
						जनमेजय उवाच । 
					 
					
						यत्तद्दर्शितवान्ब्राह्म देवं हयशिरोधरम् ।
						किमर्थं तत्समभवद्वपुर्देवोपकल्पितम् ॥
						वैशंपायन उवाच । 
					 
					
						यत्किंचिदिह लोके वै देहबद्धं विशांपते ।
						सर्वं पञ्चभिराविष्टं भूतैरीश्वरबुद्धिजैः ॥
					 
					
						ईश्वरो हि जगत्स्रष्टा प्रभुर्नारायणो विराट् ।
						भूतान्तरात्मा वरदः सगुणो निर्गुणोपि च ॥
					 
					
						भूतप्रलयमव्यक्तं शृणुष्व नृपसत्तम ॥
						
					 
					
						धरण्यामथ लीनायामप्सु चैकार्णवे पुरा ।
						ज्योतिर्भूते जले चापि लीने ज्योतिषि चानिले ॥
					 
					
						वायौ चाकाशसंलीने आकाशे च मनोनुगे ।
						व्यक्ते मनसि संलीने व्यक्ते चाव्यक्ततां गते ॥
					 
					
						अव्यक्ते पुरुषं याते पुंसि सर्वगतेऽपि च ।
						तम एवाभवत्सर्वं न प्राज्ञायत किंचन ॥
					 
					
						तमसो ब्रह्मसंभूतं तमोमूलमृतात्मकम् ।
						तद्विश्वभावसंज्ञान्तं पौरुषीं तनुमाश्रितम् ॥
					 
					
						सोऽनिरुद्ध इति प्रोक्तस्तत्प्रधानं प्रचक्षते ।
						तदव्यक्तमिति ज्ञेयं त्रिगुणं नृपसत्तम ॥
					 
					
						विद्यासहायवान्देवो विष्वक्सेनो हरिः प्रभुः ।
						`आदिकर्ता स भूतानामप्रमेयो हरिः प्रभुः ॥
					 
					
						अप्स्वेव शयनं चक्रे निद्रायोगमुपागतः ।
						जगतश्चिन्तयन्सृष्टिं चित्रां बहुगुणोद्भवाम् ॥
					 
					
						तस्य चिन्तयतः सृष्टिं महानात्मगुणः स्मृतः ।
							अहंकारस्ततो जातो ब्रह्मा शुभचतुर्मुखः ।
						
						हिरण्यगर्भो भगवान्सर्वलोकपितामहः ॥
						
					 
					
						पद्मेऽनिरुद्धात्संभूतस्तदा पद्मनिभेक्षणः ।
						सहस्रपत्रे द्युतिमानुपविष्टः सनातनः ॥
					 
					
						ददृशेऽद्भुतसंकाशो लोकानाप्याययन्प्रभुः ।
						सत्वस्थः परमेष्ठी स ततो भूतगणान्सृजन् ॥
					 
					
						पूर्वमेव च पद्मस्य पत्रे सूर्यांशुसप्रभे ।
						नारायणकृतौ बिन्दू अपामास्तां गुणोत्तरौ ॥
					 
					
						तावपश्यत्स भगवाननादिनिधनोऽच्युतः ।
						एकस्तत्राभवद्विन्दुर्मध्वाभो रुचिरप्रभः ॥
					 
					
						स तामसो मधुर्जातस्तदा नारायणाज्ञया ।
						कठिनस्त्वपरो विन्दुः कैटभो राजसस्तु सः ॥
					 
					
						तावभ्यधातवां श्रेष्ठौ तमोरजगुणान्वितौ ।
						बलवन्तौ गदाहस्तौ पद्मनालानुसारिणौ ॥
					 
					
						ददृशातेऽरविन्दस्थं ब्रह्माणममितप्रभवम् ।
						सृजन्तं प्रथमं वेदांश्चतुरश्चारुविग्रहान् ॥
					 
					
						ततो विग्रहवन्तस्तान्वेदान्दृष्ट्वाऽसुरोत्तमौ ।
						सहसा जगृहतुर्वेदान्ब्रह्मणः पश्यतस्तदा ॥
					 
					
						अथ तौ दानवश्रेष्ठौ वेदान्गृह्य सनातनान् ।
						रसां विविशतुस्तूर्णमुदक्पूर्वे महोदधौ ॥
					 
					
						ततो हृतेषु देवेषु ब्रह्मा कश्मलमाविशत् ।
						ततो वचनमीशानं प्राह वेदैर्विनाकृतः ॥
						ब्रह्मोवाच । 
					 
					
						वेदा मे परमं चक्षुर्वेदा मे परमं बलम् ।
						वेदा मे परमं धाम वेदा मे ब्रह्म चोत्तरम् ॥
					 
					
						मम वेदा हृताः सर्वे दानवाभ्यां बलादितः ।
						अन्धकारा हि मे लोका जाता वेदैर्विना कृताः ॥
					 
					
						वेदानृते हि किं कुर्या लोकानां सृष्टिमुत्तमाम् ।
						अहो बत महद्दुःखं वेदनाशनजं मम ॥
					 
					
						प्राप्तं दुनोति हृदयं तीव्रं शोकपरायणम् ।
						को हि शोकार्णवे मग्नं मामितोऽद्य समुद्धरेत् ॥
					 
					
						वदांस्तांश्चानयेन्नष्टान्कस्य चाहं प्रियो भवे ।
						इत्येवं भाषमाणस्य ब्रह्मणो नृपसत्तम ॥
					 
					
						हरेः स्तोत्रार्थमुद्भूता बुद्धिर्बुद्धिमतां वर ।
						ततो जगौ परं जप्यं साञ्जलिप्रग्रहः प्रभुः ॥
						ब्रह्मोवाच । 
					 
					
						ॐ नमस्ते ब्रह्महृदय नमस्ते मम पूर्वज ।
						लोकाद्यभुवनश्रेष्ठ साङ्ख्ययोगनिधे प्रभो ॥
					 
					
						व्यक्ताव्यक्तकराचिन्त्य क्षेमं पन्थानमास्थितः ।
							विश्वभुक्सर्वभूतानामन्तरात्मन्नयोनिज ।
						
						अहं प्रसादजस्तुभ्यं लोकधाम स्वयंभुवः ॥
						
					 
					
						त्वत्तो मे मानसं जन्म प्रथमं द्विजपूजितम् ।
						चाक्षुषं वै द्वितीयं मे जन्म चासीत्पुरातनम् ॥
					 
					
						त्वत्प्रसादात्तु मे जन्म तृतीयं वाचिकं महत् ।
						त्वत्तः श्रवणजं चापि चतुर्थं जन्म मे विभो ॥
					 
					
						नासत्यं चापि मे जन्म त्वत्तः पञ्चममुच्यते ।
						अण्डजं चापि मे जन्म त्वत्तः षष्ठं विनिर्मितं ॥
					 
					
						इदं च सप्तमं जन्म पद्मजन्मेति वै प्रभो ।
						सर्गेसर्गे ह्यहं पुत्रस्तव त्रिगुणवर्जित ॥
					 
					
						प्रथमः पुण्डरीकाक्षः प्रधानगुणकल्पितः ।
						त्वमीश्वरः स्वभावश्च भूतानां त्वं प्रभावन ॥
					 
					
						त्वया विनिर्मितोऽहं वै वेदचक्षुर्वयोतिग ।
							ते मे वेदा हृताश्चक्षुरन्धो जातोस्मि जागृहि ।
						
						ददस्व चक्षूंषि मम प्रियोऽहं ते प्रियोसि मे ॥
						
					 
					
						एवं स्तुतः स भगवान्पुरुषः सर्वतोमुखः ।
						जहौ निद्रामथ तदा वेदकार्यार्थमुह्यतः ॥
					 
					
						ऐश्वर्येण प्रयोगेण द्वितीयां तनुमास्थितः ।
							सुनासिकेन कायेन भूत्वा चन्द्रप्रभस्तदा ।
						
						कृत्वा हयशिरः शुभ्रं वेदानामालयं प्रभुः ॥
						
					 
					
						तस्य मूर्धा समभवद्द्यौः सनक्षत्रतारकाः ।
						केशाश्चास्याभवन्दीर्घा रवेरंशुसमप्रभाः ॥
					 
					
						कर्णावाकाशपाताले ललाटं भूतधारिणी ।
						गङ्गासरस्वती पुण्ये भ्रुवावास्तां महाद्युती ॥
					 
					
						चक्षुषी सोमसूर्यौं ते नासा संध्या पुनः स्मृता ।
						ॐकारस्त्वथ संस्कारो विद्युज्जिह्वा च निर्मिता ॥
					 
					
						दन्ताश्च पितरो राजन्सोमपा इति विश्रुताः ।
							गोलोको ब्रह्मलोकश्च ओष्ठावास्तां महात्मनः ।
						
						ग्रीवा चास्याभवद्राजन्कालरात्रिर्गुणोत्तरा ॥
						
					 
					
						एतद्धयशिरः कृत्वा नानामूर्तिभिरावृतम् ।
						अन्तर्दधौ स विश्वेशो विवेश च रसां प्रभुः ॥
					 
					
						रसां पुनः प्रविष्टश्च योगं परममास्थितः ।
						शैक्ष्यं स्वरं समास्थाय उद्गीतं प्रासृजत्स्वरम् ॥
					 
					
						सस्वरः सानुनादी च सर्वशः स्निग्ध एव च ।
						बभूवान्तर्जलगतः सर्वभूतगुणोदितः ॥
					 
					
						ततस्तावसुरौ कृत्वा वेदान्समयबन्धनान् ।
						रसातले विनिक्षिप्य यतः शब्दस्ततो द्रुतौ ॥
					 
					
						एतस्मिन्नन्तरे राजन्देवो हयशिरोधरः ।
						जग्राह वेदानखिलान्रसालगतान्हरिः ॥
					 
					
						प्रादाच्च ब्रह्मणे भूयस्ततः स्वां प्रकृतिं गतः ॥
						
					 
					
						स्थापयित्वा हयशिरा उदक्पूर्वे महोदधौ ।
						वेदानामालयश्चापि बभूवाश्वरिरास्ततः ॥
					 
					
						अथ किंचिदपश्यन्तौ दानवौ मधुकैटभौ ।
						यत्र देवा विनिक्षिप्तास्तत्स्थानं शून्यमेव च ॥
					 
					
						तत उत्तममास्थाय वेगं बलवतां वरौ ।
						पुनरुत्तस्थतुः शीघ्रं रसानामालयात्तदा ॥
					 
					
						ददृशाते च पुरुषं तमेवादिकरं प्रभुम् ।
							श्वेतं चन्द्रविशुद्धाभमनिरुद्धतनौ स्थितम् ।ट
						
						भूयोप्यमितविक्रान्तं निद्रायोगमुपागतम् ॥
						
					 
					
						आत्मप्रमाणरचिते अपामुपरि कल्पिते ।
						शयने नागभोगाढ्ये ज्वालामालासमावृते ॥
					 
					
						निष्कल्मषेण सत्वेन संपन्नं रुचिरप्रभम् ।
						तं दृष्ट्वा दानवेन्द्रौ तौ महाहासममुञ्चताम् ॥
					 
					
						ऊचतुश्च समाविष्टौ रजसा तमसा च तौ ।
						अयं स पुरुषः श्वेतः शेते निद्रामुपागतः ॥
					 
					
						अनेन नूनं वेदानां कृतमाहरणं रसात् ।
							कस्यैष कोनु खल्वेष किंच स्वपिति भोगवान् ।
						
						इच्युच्चारितवाक्यौ तौ बोधयामासतुर्हरिम् ॥
						
					 
					
						युद्धार्थिनौ हि विज्ञाय विबुद्धः पुरुषोत्तमः ।
						निरीक्ष्य चासुरेन्द्रौ तौ ततो युद्धे मनोदधे ॥
					 
					
						अथ युद्धं समभवत्तयोर्नारायणस्य वै ॥
						
					 
					
						रजस्तमोविष्टतनू तावुभौ मधुकैटभौ ।
						ब्रह्मणोपचितिं कुर्वञ्जधान मधुसूदनः ॥
					 
					
						ततस्तयोर्वधेनाशु वेदापहरणेन च ।
						शोकापनयनं चक्रे ब्रह्मणः पुरुषोत्तमः ॥
					 
					
						ततः परिवृतो ब्रह्मा हरिणा वेदसत्कृतः ।
						निर्ममे स तदा लोकान्कृत्स्नान्स्थावरजङ्गमान् ॥
					 
					
						दत्त्वा पितामहायाग्र्यां मतिं लोकविसर्गिकीम् ।
						तत्रैवान्तर्दधे देवो यत एवागतो हरिः ॥
					 
					
						तौ दानवौ हरिर्हत्वा कृत्वा हयशिरस्तनुम् ।
						पुनः प्रवृत्तिधर्मार्थं तामेव विदधे तनुम् ॥
					 
					
						एवमेष महाभागो बभूवाश्वशिरा हरिः ।
						पौराणमेतत्प्रख्यातं रूपं वरदमैश्वरम् ॥
					 
					
						यो ह्येतद्ब्राह्मणो नित्यं शृणुयाद्धारयीत वा ।
						न तस्याध्ययनं नाशमुपगच्छेत्कदाचन ॥
					 
					
						आराध्य तपसोग्रेण देवं हयशिरोधरम् ।
						पाञ्चालेन क्रमः प्राप्तो रामेण पथि देशिते ॥
					 
					
						एतद्धयशिरो राजन्नाख्यानं तव कीर्तितम् ।
						पुराणं वेदसमितं यन्मां त्वं परिपृच्छसि ॥
					 
					
						यांयामिच्छेत्तनुं देवः कर्तुं कार्यविधौ क्वचित् ।
						तातां कुर्याद्विकुर्वाणः स्वयमात्मानमात्मना ॥
					 
					
						एष वेदनिधिः श्रीमानेष वै तपसोनिधिः ।
						एष योगश्च साङ्ख्यं च ब्रह्म चाग्र्यं हविर्विभुः ॥
					 
					
						नारायणपरा वेदा याज्ञा नारायणात्मकाः ।
						तपो नारायणपरं नारायणपरा गतिः ॥
					 
					
						नारायणपरं सत्यमृतं नारायणात्मकम् ।
						नारायणपरो धर्मः पुनरावृत्तिदुर्लभः ॥
					 
					
						प्रवृत्तिलक्षणश्चैव धर्मो नारायणात्मकः ।
						नारायणात्मको गन्धो भूमौ श्रेष्ठतमः स्मृतः ॥
					 
					
						अपां चापि गुणा राजन्रसा नारायणात्मकाः ।
						ज्योतिषां च परं रूपं स्मृतं नारायणात्मकम् ॥
					 
					
						नारायणात्मकश्चापि स्पर्शो वायुगुणः स्मृतः ।
						नारायणात्मकश्चैव शब्द आकाशसंभवः ॥
					 
					
						मनश्चापि ततो भूतमव्यक्तगुणलक्षणम् ।
						नारायणपरं कालो ज्योतिषामयनं च यत् ॥
					 
					
						नारायणपरा कीर्तिः श्रीश्च लक्ष्णीश्च देवताः ।
						नारायणपरं साङ्ख्यं योगो नारायणात्मकः ॥
					 
					
						कारणं पुरुषो ह्येषां प्रधानं चापि कारणम् ।
						स्वभावश्चैव कर्माणि दैवं येषां च कारणम् ॥
					 
					
						अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् ।
						विविधा च तथा चेष्टा दैवं चैवात्र पञ्चमम् ॥
					 
					
						पञ्चकारणसंख्यातो निष्ठा सर्वत्र वै हरिः ।
						तत्त्वं विज्ञासमानानां हेतुभिः सर्वतोमुखैः ॥
					 
					
						तत्त्वमेको महायोगी हनिर्नारायणः प्रभुः ।
						ब्रह्मादीनां सलोकानामृषीणां च महात्मनाम् ॥
					 
					
						साङ्ख्यानां योगिनां चापि यतीनामात्मवेदिनाम् ।
						मनीषितं विजानाति केशवो न तु तस्य ते ॥
					 
					
						ये केचित्सर्वलोकेषु दैवं पित्र्यं च कुर्वते ।
						दानानि च प्रयच्छन्ति तप्यन्ते च तपो महत् ॥
					 
					
						सर्वेषामाश्रयो विष्णुरैश्वरं विधिमास्थितः ।
						सर्वभूतकृतावासो वासुदेवेति चोच्यते ॥
					 
					
						अयं हि नित्यः परमो महर्षि
							र्महाविभूतिर्गुणवान्गुणाख्यः ।
						
						गुणैश्च संयोगमुपैति शीघ्रं
							कालो यथर्तावृतुसंप्रयुक्तः ॥
						
					 
					
						नैवास्य विन्दन्ति गतिं महात्मनो
							न चागतिं कश्चिदिहानुपश्यति ।
						
						ज्ञानात्मकाः संयमिनो महर्षयः ।
							पश्यन्ति नित्यं पुरुषं गुणाधिकम् ॥ ॥
					 
					 इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि नारायणीये
						सप्तपञ्चाशदधिकत्रिशततमोऽध्यायः ॥ 357 ॥ 
					 12-357-3 हव्यकव्यभुजः । मूलविभुजादित्वात्कः । अकारान्तः
						शब्दः । उदक्पूर्वे ऐशानकोणे । महोदधौ तत्समीपे । इदमुत्तरान्वयि ॥ 12-357-5
						अपूर्वं प्रागदृष्टम् ॥ 12-357-6 अपूर्वं अद्भुतम् ॥ 12-357-10 तत्
						अश्वशिरोरूपम् ॥ 12-357-11 ईश्वरबुद्धिजैः ईश्वरसंकल्पमात्रजैः ॥ 12-357-23
						लोकनाथो महान्प्रभुरिति ट. पाठः ॥ 12-357-38 लोकाद्यनिधनश्रेष्ठेति ट. पाठः ॥ 12-357-46 देवकार्यार्थमुद्यत इति ट. ध. पाठः ॥ 12-357-53 ओमिति
						प्रासृजत्स्वरमिति थ.ध. पाठः ॥ 12-357-74 शृणुयाच्छ्राक्येत वेति थ. ध. पाठः ॥ 12-357-90 केशवो ननु वै गतिरिति ट. पाठः ॥ 12-357-93 गुणवान्निर्गुणाख्य इति थ.
						पाठः ॥ 12-357-94 पुरुषं गुणातिगमिति ट. पाठः ॥