अध्यायः 367
पुलिनवासिना ब्राह्मणेन स्वस्य फलाद्याहारं प्रार्थयतां नागीयानामवधिनिर्देशपूर्वकं प्रतिनिवर्तनम् ॥ 1 ॥
भीष्म उवाच ।
स वनानि विचित्राणि तीर्थानि च सरांसि च ।
अभिगच्छन्क्रमेण स्म कंचिन्मुनिमुपस्थितः ॥
तं स तेन यथोद्दिष्टं नागं विप्रेण ब्राह्मणः ।
पर्यपृच्छद्यथान्यायं श्रुत्वैव च जगाम सः ॥
सोऽभिगम्य यथान्यायं नागायतनमर्थवित् ।
प्रोक्तवानहमस्मीति भोःशब्दालंकृतं वचः ॥
तत्तस्य वचनं श्रुत्वा रूपिणी धर्मवत्सला ।
दर्शयामास तं विप्रं नागपत्नी पतिव्रता ।
सा तस्मै विधिवत्पूजां चक्रे धर्मपरायणा ।
स्वागतेनागतं कृत्वा किं करोमीति चाब्रवीत् ॥
ब्राह्मण उवाच ।
विश्रान्तोऽभ्यर्चिंतश्चास्मि भवत्या श्लक्ष्णया गिरा ।
द्रष्टुमिच्छामि भवति देवं नागमनुत्तमम् ॥
एतद्धि परमं कार्यमेतन्मे परमप्सितम् ।
अनेन चार्थेनास्म्यद्य संप्राप्तः पन्नगाश्रमम् ॥
नागभार्योवाच ।
आर्यः सूर्यरथं वोढुं गतोऽसौ मासचारिकः ।
सप्ताष्टभिर्दिनैर्विप्र दर्शयिष्यत्यसंशयम् ॥
एतद्विदितमार्यस्य विवासकरणं तव ।
भर्तुर्भवतु किंचान्यत्क्रियतां तद्वदस्व मे ॥
ब्राह्मण उवाच ।
अनेन निश्चयेनाहं साध्वि संप्राप्तवानिह ।
प्रतीक्षन्नागमं देवि वत्स्याम्यस्मिन्प्रहावने ॥
संप्राप्तस्यैव चाव्यग्रमावेद्योऽहमिहागतः ।
मयाभिगमनं प्राप्तो वाच्यश्च वचनं त्वया ॥
अहमप्यत्र वत्स्यामि गोमत्याः पुलिने शुभे ।
कालं परिमिताहारो यथोक्तं परिपालयन् ॥
ततः स विप्रस्तां नागीं समाधाय पुनःपुनः ।
वेदवित्पुलिनं नद्याः प्रययौ ब्राह्मणर्भषः ॥ ॥
इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तषष्ट्यधिकत्रिशततमोऽध्यायः ॥ 367 ॥
12-367-9 विवासकरणं प्रवासकारणम् ॥