अध्यायः 371

नागब्राह्मणयोः संलापः ॥ 1 ॥

भीष्म उवाच ।
स पन्नगपतिस्तत्र प्रययौ ब्राह्मणं प्रति ।
तमेव मनसा ध्यायन्कार्यवत्तां विचारयन् ॥
तमतिक्रम्य नागेन्द्रो मतिमान्स नरेश्वर ।
प्रोवाच मधुरं वाक्यं प्रकृत्या धर्मवत्सलः ॥
भोभो क्षाम्याभिभाषए त्वां न रोषं कर्तुमर्हसि ।
इह त्वमभिसंप्राप्तः कस्यार्थे किं प्रयोजनम् ॥
आभिमुख्यादभिक्रम्य स्नेहात्पृच्छामि ते द्विज ।
विविक्ते गोमतीतीरे कं वा त्वं पर्युपाससे ॥
ब्राह्मण उवाच ।
धर्मारण्यं हि मां विद्धि नागं द्रष्टुमिहागतम् ।
पद्मनाभं द्विजश्रेष्ठ तत्र मे कार्यमाहितम् ॥
तस्य चाहमसान्निध्ये श्रुतवानस्मि तं गतम् ।
स्वजनात्तं प्रतीक्षामि पर्जन्यमिव कर्षकः ॥
तस्य चाक्लेशकरणं स्वस्तिकारसमाहितम् ।
आवर्तयामि तद्ब्रह्म योगयुक्तो निरामयः ॥
नाग उवाच ।
अहो कल्याणवृत्तस्त्वं साधुः सज्जनवत्सलः ।
अवाच्यस्त्वं महाभाग परं स्नेहेन पश्यसि ॥
अहं स नागो विप्रर्षे यथा मां विन्दते भवान् ।
आज्ञापय यथास्वैरं किं करोमि प्रियं तव ॥
भवन्तं स्वजनादस्मि संप्राप्तं श्रुतवानहम् ।
अतस्त्वां स्वयमेवाहं द्रष्टुमभ्यागतो द्विज ॥
संप्राप्तश्च भवानद्य कृतार्थः प्रतियास्यति ।
विस्रब्धो मां द्विजश्रेष्ठ विषये योक्तमर्हसि ॥
वयं हि भवता सर्वे गुणक्रीता विशेषतः ।
यस्त्वमात्महितं त्यक्त्वा मामेवेहानुरुध्यसे ॥
ब्राह्मण उवाच ।
आगतोऽहं महाभाग तव दर्शनलालसः ।
कंचिदर्थमनर्यज्ञः प्रष्टुकामो भुजंगम ॥
अहमात्मानमात्मस्थो मार्गगाणोऽऽत्मनो गतिम् ।
वासार्थिनं महाप्रज्ञं चलच्चित्तमुपास्मि ह ॥
प्रकाशितस्त्वं स गुणैर्यशोगर्भगभस्तिभिः ।
शशाङ्ककरसंस्पर्शैर्हृद्यैरात्मप्रकाशितैः ॥
तस्य मे प्रश्नमुत्पन्नं छिन्धि त्वमनिलाशन ।
पश्चात्कार्यं वदिष्यामि श्रोतुमर्हति तद्भवान् ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि एकसप्तत्यधिकत्रिशततमोऽध्यायः ॥ 371 ॥

12-371-3 क्षाम्य क्षमस्व ॥ 12-371-5 धर्मारण्यं मुनिं मां विद्धि । द्विजानां सर्पाणां श्रेष्ठ । धर्मारण्याद्धि मां विद्धि इति ट. पाठः ॥ 12-371-6 श्रुतवानस्मि तां गतिमिति ठ. पाठः ॥ 12-371-7 अक्लेशकरणं क्लेशनिवारकम् ॥ 12-371-8 श्रुत्वाद्य त्वं महाभाग परं यत्नेन पश्यसीति ट. पाठः ॥ 12-371-13 अनर्थज्ञः अर्थानभिज्ञः । कंचिदर्थं हि तत्वज्ञेति ट. पाठः ॥ 12-371-15 आत्मन्यात्मप्रकाशिभिरिति ट. पाठः ॥