अध्यायः 033

व्यासेन युधिष्ठिरंप्रति प्रायश्चित्तप्रयोजकपापकर्मणां प्रायश्चित्तानां च कथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
कानि कृत्वेह कर्माणि प्रायश्चित्तीयते नरः ।
किं कृत्वा मुच्यते तत्र तन्मे ब्रूहि पितामह ॥
व्यास उवाच ।
अकुर्वन्विहितं कर्म प्रतिषिद्धानि चाचरन् ।
प्रायश्चित्तीयते ह्येवं नरो मिथ्याऽनुवर्तयन् ॥
सूर्येणाभ्युदितो यश्च ब्रह्मचारी भवत्युत ।
तथा सूर्याभिनिर्मुक्तः कुनखी श्यावदन्नपि ॥
परिवित्तिः परिवेत्ता ब्रह्मेज्यायाश्च दूषकः ।
दिधिषूपतिस्तथा यः स्यादग्रेदिधिषुरेव च ॥
अवकीर्णी भवेद्यश्च द्विजातिवधकस्तथा ।
अतीर्थे ब्राह्मणस्त्यागी तीर्थे चाप्रतिपादकः ॥
ग्रामयाजी च कौन्तेय मांसस्य परिविक्रयी ।
यश्चाग्नीनपविध्येत तथैव ब्रह्मविक्रयी ॥
शूद्रस्त्रीवधको यश्च पूर्वः पूर्वस्तु गर्हितः ।
वृथा पशुसमालम्भी वनदाहस्य कारकः ॥
अनृतेनोपवर्ती च प्रतिषेद्धा गुरोस्तथा ।
`स्वदत्तस्यापहर्ता च परदत्तनिरोधकः ॥
वाग्दत्तं च मनोदत्तं धारादत्तं च यो हरेत् ।
पाकभेदेन भोक्ता च भुञ्जानस्याप्यनादरः ॥
स्वजनैः कलहं चैव आश्रितानामरक्षणम् । ' एतान्येनांसि सर्वाणि व्युत्क्रान्तसमयश्च यः ॥
अकार्याणि तु वक्ष्यामि यानि तानि निबोध मे ।
लोकवेदविरुद्धानि तान्येकाग्रमनाः शृणु ॥
स्वधर्मस्य परित्यागः परधर्मस्य च क्रिया ।
अयाज्ययाजनं चैव तथाऽभक्ष्यस्य भक्षणम् ॥
शरणागतसंत्यागो भृत्यस्याभरणं तथा ।
रसानां विक्रयश्चापि तिर्यग्योनिवधस्तथा ॥
आधानादीनि कर्माणि शक्तिमान्न करोति यः ।
अप्रयच्छंश्च सर्वाणि नित्यदेयानि भारत ॥
दक्षिणानामदानं च ब्राह्मणस्वाभिमर्शनम् ।
सर्वाण्येतान्यकार्याणि प्राहुर्धर्मविदो जनाः ॥
पित्रा विवदते पुत्रो यश्च स्याद्गुरुतल्पगः ।
अप्रजायन्नरव्याघ्र भवत्यधार्मिको नरः ॥
उक्तान्येतानि कर्माणि विस्तरेणेतरेण च ॥
यानि कुर्वन्निकुर्वंश्च प्रायश्चित्तीयते नरः । एतान्येव तु कर्माणि क्रियमाणानि मानवैः ।
येषुयेषु निमित्तेषु न लिप्यन्तेऽथ ताञ्शृणु ॥
प्रगृह्य शस्त्रमायान्तमपि वेदान्तगं रणे ।
जिघांसन्तं जिघांसीयान्न तेन ब्रह्महा भवेत् ॥
इति चाप्यत्र कौन्तेय मन्त्रो वेदेषु पठ्यते ।
वेदप्रमाणविहितं धर्मं च प्रब्रवीमि ते ॥
अपेतं ब्राह्मणं वृत्ताद्यो हन्यादाततायिनम् ।
न तेन ब्रह्महा स स्यान्मन्युस्तन्मन्युमृच्छति ॥
प्राणात्यये तथा ज्ञानादाचरन्मदिरामपि ।
आदेशितो धर्मपरैः पुनः संस्कारमर्हति ॥
एतत्ते सर्वमाख्यातं कौन्तेयाभक्ष्यभक्षणम् ।
प्रायश्चित्तविधानेन सर्वमेतेन शुद्ध्यति ॥
गुरुतल्पं हि गुर्वर्थं न दूषयति मानवम् ।
उद्दालकः श्वेतकेतुं जनयामास शिष्यतः ॥
स्तेयं कुर्वंश्च गुर्वर्थमापत्सु न निषिध्यते ।
बहुशः कामकारेण न चेद्यः संप्रवर्तते ॥
अन्यत्र ब्राह्मणस्वेभ्य आददानो न दुष्यति ।
स्वयमप्राशिता यश्च न स पापेन लिप्यते ॥
प्राणत्राणेऽनृतं वाच्यमात्मनो वा परस्य च ।
गुर्वर्थे स्त्रीषु चैव स्याद्विवाहकरणेषु च ॥
नावर्तते व्रतं स्वप्ने शुक्रमोक्षे कथंचन ।
आज्यहोमः समिद्धेऽग्नौ प्रायश्चित्तं विधीयते ॥
पारिवित्त्यं तु पतिते नास्ति प्रव्रजिते तथा ।
भिक्षिते पारदार्यं च तद्धर्मस्य न दूषकम् ॥
वृथा पशुसमालम्भं नैव कुर्यान्न कारयेत् ।
भ्रनुग्रहः पशूनां हि संस्कारो विधिनोदितः ॥
अनर्हे ब्राह्मणे दत्तमज्ञानात्तन्न दूषकम् ।
सत्काराणां तथा तीर्थे नित्यं वा प्रतिपादनम् ॥
स्त्रियास्तथापचारिण्या निष्कृतिः स्याददूषिका ।
अपि सा पूयते तेन न तु भर्ता प्रदुष्यति ॥
तत्त्वं ज्ञात्वा तु सोमस्य विक्रयः स्याददोषवान् ।
असमर्थस्य भृत्यस्य विसर्गः स्याददोषवान् ॥
वनदाहो गवामर्थे क्रियमाणो न दूषकः ।
उक्तान्येतानि कर्माणि यानि कुर्वन्न दुष्यति ॥
प्रायश्चित्तानि वक्ष्यामि विस्तरेणैव भारत । `यानि कृत्वा नरः पूतो भविष्यति नराधिप ॥' ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि त्रयस्त्रिंशोऽध्यायः ॥ 33 ॥

12-33-1 प्रायश्चित्तीयते प्रायश्चित्तेऽधिक्रियते ॥ 12-33-2 मिथ्यानुवर्तयन्कापट्यं चरन् ॥ 12-33-4 अनूढे ज्येष्ठे ऊढवान् कनिष्ठः परिवेत्ता । परिवित्तिः पूर्वजः । ज्येष्ठायामनूढायां कनिष्ठामूढवानग्रेदिधिषुः । दिधिषूपतिस्तु कनिष्ठाविवाहोत्तरं ज्येष्ठामूढवान् ॥ 12-33-5 अबकीर्णां नष्टव्रतः । अतीर्थे अपात्रे त्यागी दाता ॥ 12-33-6 अपविध्येत त्यजेत् । ब्रह्मविक्रयी भृतकाध्यापकः ॥ 12-33-14 नित्यदेयानि गोग्रासादीनि ॥ 12-33-16 अप्रजायन् धर्मपत्न्यां काले मैथुनमकुर्वन् ॥ 12-33-17 इतरेण संक्षेपेण ॥ 12-33-19 जिघांसी हन्तुमिच्छावान् । इयात् गच्छेत् ॥ 12-33-20 मन्त्रो मन्युरकार्षीन्नमोनम् इत्यादिर्मन्यवे स्वाहेत्यन्तः ॥ 12-33-21 मन्युः क्रोधः तन्मन्युं शत्रोः क्रोधं प्रति ऋच्छति गच्छति । क्रोध एव तं प्रतीपीभूय परशरीरद्वारा हन्तीत्यर्थः ॥ 12-33-22 आदेशित उपदिष्टः ॥ 12-33-24 गुर्वर्थं गुर्वाज्ञया ॥ 12-33-26 स्वय प्रकाशितो यश्च इति ट. ड. थ. पाठः ॥ 12-33-28 व्रतं नावर्तते पुनरुपनयनं न कर्तव्यमित्यर्थः । आज्यहोमः पुनर्मामैत्विन्द्रियमिति मन्त्रेण ॥ 12-33-29 वतिप्ते ज्येष्ठभ्रातरि । भिक्षिते धर्मार्थमपि रेतः सिञ्चेति स्त्रिया प्रार्थिते सति ॥ 12-33-30 पशूनामनुग्रहः अहिंसनं संस्कारः पावित्र्यमित्यन्वयः ॥