अध्यायः 044

युधिष्ठिरेण कृष्णमेत्य सुखशयनादिप्रश्नपूर्वकं तत्स्तुतिः ॥ 1 ॥

जनमेजय उवाच ।
प्राप्य राज्यं महाबाहुर्धर्मपुत्रो युधिष्ठिरः ।
यदन्यदकरोद्विप्र तन्मे वक्तुमिहार्हसि ॥
भगवान्वा हृषीकेशस्त्रैलोक्यस्य परो गुरुः ।
ऋषे यदकरोद्वीरस्तच्च व्याख्यातुमर्हसि ॥
वैशंपायन उवाच ।
शृणु तत्त्वेन राजेन्द्र कीर्त्यमानं मयाऽनघ ।
वासुदेवं पुरस्कृत्य यदकुर्वत पाण्डवाः ॥
प्राप्य राज्यं महाराज कुन्तीपुत्रो युधिष्ठिरः ।
वर्णान्संस्थापयामास नयेन विनयेन च ॥
ब्राह्मणानां सहस्रं च स्नातकानां महात्मनाम् ।
सहस्रनिष्कैरेकैकं तर्पयामास पाण्डवः ॥
तथाऽनुजीविनो भृत्यान्संश्रितानतिथीनपि ।
कामैः संतर्पयामास कृपणांस्तार्किकानपि ॥
पुरोहिताय धौम्याय प्रादादयुतशः स गाः ।
धनं सुवर्णं रजतं वासांसि विविधान्यपि ॥
कृपाय च महाराज पितृवत्तमतर्पयत् ।
विदुराय च राजाऽसौ पूजां चक्रे यतव्रतः ॥
भक्ष्यान्नपानैर्विविधैर्वासोभिः शयनासनैः ।
सर्वान्संतोपयामास संश्रितान्ददतां वरः ॥
लब्धप्रशमनं कृत्वा स राजा राजसत्तम ।
युयुत्सोर्धार्तराष्ट्रस्य पूजां चक्रे महायेशाः ॥
धृतराष्ट्राय तद्राज्यं गान्धार्यै विदुराय च ।
निवेद्य सुस्थवद्राजा सुखमास्ते युधिष्ठिरः ॥
तथा सर्वं स नगरं प्रसाद्य भरतर्षभ ।
वासुदेवं महात्मानमभ्यगच्छत्कृताञ्जलिः ॥
ततो महति पर्यङ्के मणिकाञ्चनभूषिते ।
ददर्श कृष्णमासीनं नीलं मेराविवाम्बुदम् ॥
जाज्वल्यमानं वपुषा दिव्याभरणभूषितम् ।
पीतकौशेयवसनं हेम्नेवोपगत मणिम् ॥
कौस्तुभेनोरसिस्थेन मणिनाऽभिविराजितम् ।
उद्यतेवोदयं शैलं सूर्येणाभिविराजितम् ॥
नौपम्यं विद्यते तस्य त्रिषु लोकेषु किंचन ॥
सोऽभिगम्य महात्मानं विष्णुं पुरुषसत्तमम् ।
उवाच मधुरं राजा स्मितपूर्वमिदं तदा ॥
सुखेन ते निशा कच्चिद्व्युष्टा बुद्धिमतां वर ।
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि तवाच्युत ॥
तथैवोपश्रिता देवी बुद्धिर्बुद्धिमतां वर ।
वयं राज्यमनुप्राप्ताः पृथिवी च वशे स्थिता ॥
तव प्रसादाद्भगवंस्त्रिलोकगतिविक्रम ।
जयं प्राप्ता यशश्चाग्र्यं न च धर्मच्युता वयम् ॥
तं तथा भाषमाणं तु धर्मराजमरिंदमम् ।
नोवाच भगवान्किंचिद्ध्यानमेवान्वपद्यत ॥ ॥

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि चतुश्चत्वारिंशोऽध्यायः ॥ 44 ॥

12-44-10 लब्धप्रशमनं लब्धस्य धनादेः यथोचितमंशतः पात्रे समर्पणेन शान्तिकम् ॥