अनुशासनपर्व

श्रीः

अध्यायः 001

अथ दानधर्मपर्व ॥ 1 ॥

युधिष्ठिरेण भीष्मंप्रति पुनः शमादिकथनप्रार्थना ॥ 1 ॥ भीष्मादिनिधने स्वस्यैव हेतुत्वबुद्ध्या स्वोपालम्भनपूर्वकं शोचन्तं युधिष्ठिरंप्रति भीष्मेण जीवस्य कर्मण्यस्वातन्त्रयमभिधाय तन्निदर्शनतया गौतमीलुब्धकादिसंवादानुवादः ॥ 2 ॥

॥ श्रीवेदव्यासाय नमः ॥
नारायणं नमस्कृत्य नरं चैव नरोत्तमम् ।
देवीं सरस्वतीं चैव(व्यासं)ततो जयमुदीरयेत् ॥
वैशंपायन उवाच ।
`शरतल्पे महात्मानं शयानमपराजितम् । युधिष्ठिर उपागम्य प्रणिपत्येदमब्रवीत् ॥'
शमो बहुविधाकारः सूक्ष्म उक्तः पितामह ।
न च मे हृदये शान्तिरस्ति श्रुत्वेदमीदृशम् ॥
अस्मिन्नर्थे बहुविधा शान्तिरुक्ता पितामह ।
स्वकृतात्का नु शान्ति स्याच्छमाद्बहुविधादपि ॥
शराचितं शरीरं हि तीव्रव्रणमुदीक्ष्य ते ।
शमं नोपलभे वीर दुष्कृतान्येव चिन्तयन् ॥
रुधिरेणावसिक्ताङ्गं प्रस्रवन्तं यथाचलम् ।
त्वां दृष्ट्वा पुरुषव्याघ्र सीदे वर्षास्विवाम्बुजम् ॥
अतः कष्टतरं किन्नु मत्कृते यत्पितामहः ।
इमामवस्थां `गमितः प्रत्यमित्रै रणाजिरे ॥
तथा चान्ये नृपतयः सहपुत्राः सबान्धवाः ।
मत्कृते निधनं प्राप्ताः किन्नु कष्टतरं ततः ॥
वयं हि धार्तराष्ट्राश्च काममन्युवशं गताः ।
कृत्वेदं निन्दितं कर्म प्राप्स्यामः कां गतिं नृप ॥
इदं तु धार्तराष्ट्रास्य श्रेयो मन्ये जनाधिप ।
इमामवस्थां संप्राप्तं यदसौ त्वां न पश्यति ॥
सोऽहमार्तिकरो राजन्सुहृद्वधकरस्तथा ।
न शान्तिमधिगच्छामि पश्यंस्त्वां दुःखितं क्षितौ ॥
दुर्योधनो हि समरे सहसैन्यः सहानुजः ।
निहतः क्षत्रधर्मेऽस्मिन्दुसत्मा कुलपांसनः ॥
न स पश्यति दुष्टात्मा त्वामद्य पतितं क्षितौ ।
अतः श्रेयो मृतं मन्ये नेह जीवितमात्मनः ॥
अहं हि समरे वीर गमितः शत्रुभिः क्षयम् । अभविष्यं यदि पुरा सह भ्रातृभिरच्युत ।
न त्वामेवं सुदुःखार्तमद्राक्षं सायकार्दितम् ॥
नूनं हि पापकर्माणो धात्रा सृष्टाः स्म हे नृप ॥
अन्यस्मिन्नपि लोके वै यथा मुच्येम किल्बिषात् ।
तथा प्रशाधि मां राजन्मम चेदिच्छसि प्रियम् ॥
भीष्म उवाच ।
परतन्त्रं कथं हेतुमात्मानमनु पश्यसि ।
कर्मणां हि महाभाग सूक्ष्मं ह्येतदतीन्द्रियम् ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
संवादं मृत्युगौतम्योः काललुब्धकपन्नगैः ॥
गौतमी नाम काऽप्यासीत्स्थविरा शमसंयुता ।
सर्पेण दष्टं स्वं पुत्रमपश्यद्गतचेतनम् ॥
अथ तं स्नायुपाशेन बद्ध्वा सर्पममर्षितः ।
लुब्धकोऽर्जुनको नाम नाम गौतम्याः समुपानयत् ॥
तां चाब्रवीदयं ते स पुत्रहा पन्नगाधमः ।
ब्रहि क्षिप्रं महाभागे वध्यतां केन हेतुना ॥
अग्नौ प्रक्षिप्यतामेष च्छिद्यतां खण्डशोपि वा ।
न ह्यं बालहा पापश्चिरं जीवितुमर्हति ॥
गौतम्युवाच ।
विसृजैनमबुद्धिस्त्वमवध्योऽर्जुनक त्वया । को ह्यात्मानं गुरुं कुर्यात्प्राप्तव्ये सति चिन्तयन्
प्लवन्ते धर्मलघवो लोकेऽम्भसि यथा प्लवाः ।
मज्जन्ति पापगुरवः शस्त्रं स्कन्नमिवोदके ॥
नास्यामृतत्वं भवितैवं हतेऽस्मि- ञ्जीवत्यस्मिन्कोऽत्ययः स्यादयं ते ।
अस्योत्सर्गे प्राणयुक्तस्य जन्तो- र्मृत्युं लोके को न गच्छेदनन्ते ॥
लुब्धक उवाच ।
जानाम्यहं नेह गुणागुणज्ञाः सदायुक्ता गुरवो वै भवन्ति ।
स्वर्गस्य ते सूपदेशा भवन्ति तस्मात्क्षुद्रं सर्पमेनं हनिष्ये ॥
शममीप्सन्तः कालयोगं त्यजन्ति सद्यः शुचं त्वर्थविदस्त्यजन्ति ।
श्रियः क्षयः शोचतां नित्यशो हि तस्माच्छुचं मुञ्च हते भुजङ्गे ॥
गौतम्युवाच ।
न चैवार्तिर्विद्यतेऽस्मद्विधानां धर्मात्मानः सर्वदा सञ्जना हि ।
नित्यायस्तो बालजनो न चाहं धर्मोपैति प्रभवाम्यस्य नाहम् ॥
न ब्राह्मणानां कोपोऽस्ति कुतः कोपाच्च यातना ।
मार्दवात्क्षम्यतां साधो मुच्यतामेष पन्नगः ॥
लुब्धक उवाच ।
हत्वा लाभः श्रेय एवाव्ययः स्या- त्सद्योलाभःस्याद्बलिभ्यः प्रशस्तः ।
कालाल्लाभो यस्तु सद्यो भवेत श्रेयोलाभः कुत्सिते त्वीदृशि स्यात् ॥
गौतम्युवाच ।
काऽर्थप्राप्तिर्गृह्य शत्रुं निहत्य का कामाप्तिः प्राप्य शत्रुं न मुक्त्वा ।
कस्मात्सौम्याहं न क्षमे नो भुजङ्गे मोक्षार्थं वा कस्य हेतोर्न कुर्याम् ॥
लुब्धक उवाच ।
अस्मादेकाद्बहवो रक्षितव्या नैको बहुभ्यो गौतमि रक्षितव्यः ।
कृतागसं धर्महेतोस्त्यजन्ति सरीसृपं पापमिमं त्यज त्वम् ॥
गौतम्युवाय
नास्मिन्हते पन्नगे पुत्रको मे सम्प्राप्स्यते लुब्धक जीवितं वै ।
गुणं चान्यं नास्य वधे प्रपश्ये तस्मात्सर्पं लुब्धक मुञ्च जीवम् ॥
लुब्धक उवाच ।
वृत्रं हत्वा देवराट् श्रेष्ठभाग्वै यज्ञं हत्वा भागमवाप चैव ।
शूली देवो देववृत्तं चर त्वं क्षिप्रं सर्पं जहि मा भूत्ते विशङ्का ॥
भीष्म उवाच ।
असकृत्प्रोच्यमानाऽपि गौतमी भुजगं प्रति ।
लुब्धकेन महाभागा सा पापे नाकरोन्मतिम् ॥
ईषदुच्छ्वसमानस्तु कृच्छ्रात्संस्तभ्य पन्नगः ।
उत्ससर्ज गिरं मन्दां मानुषीं पाशपीडितः ॥
सर्प उवाच ।
को न्वर्जुनक दोषोऽत्र विद्यते मम बालिश ।
अस्वतन्त्रं हि मां मृत्युर्विवशं यदचूचुदत् ॥
तस्यायं वचनाद्दष्टो न कोपेन न काम्यया । तस्य तत्किल्बिषं लुब्ध विद्यते यदि किञ्चन ।
लुब्धक उवाच ।
यद्यन्यवशगेनेदं कृतं ते पन्नगाशुभम् ।
कारणं वै त्वमप्यत्र तस्मात्त्वमपि किल्बिषी ॥
मृत्पात्रस्य क्रियायां हि दण्डचक्रादयो यथा ।
कारणत्वे प्रकल्प्यन्ते तथा त्वमपि पन्नग ॥
किल्बिषी चापि मे वध्यः किल्बिषी चासि पन्नग ।
आत्मानं कारणं ह्यत्र त्वमाख्यासि भुजङ्गम ॥
सर्प उवाच ।
सर्व एते ह्यस्ववशा दण्डचक्रादयो यथा ।
तथाहमपि तस्मान्मे नैष दोषो मतस्तव ॥
अथवा मतमेतत्ते तेप्यन्योऽन्यप्रयोजकाः ।
कार्यकारणसन्देहो भवत्यन्योन्यचोदनात् ॥
एवं सति न दोषो मे नास्मि वध्यो न किल्बिषी ।
किल्बिषं समवाये स्यान्मन्यसे यदि किल्बिषम् ॥
लुब्धक उवाच ।
कारणं यदि स्याद्वै न कर्ता स्यास्त्वमप्युत ।
विनाशे कारणं त्वं च तस्माद्वध्योऽसि मे मतः ॥
असत्यपि कृते कार्ये नेह पन्नग लिप्यते ।
तस्मान्नात्रैव हेतुः स्याद्वध्यः किं बहु भाषसे ॥
सर्प उवाच ।
कार्याभावे क्रिया न स्यात्सत्यसत्यपि कारणे ।
तस्मात्समेऽस्मिन्हेतौ मे वाच्यो हेतुर्विशेषतः ॥
यद्यहं कारणत्वेन मतो लुब्धक तत्त्वतः ।
अन्यः प्रयोक्तास्यादत्र किन्नु जन्तुविनाशने ॥
लुब्धक उवाच ।
वध्यस्त्वं मम दुर्बुद्धे बालघाती नृशंसकृत् ।
भाषसे किं बहु पुनर्वध्यः सन्पन्नगाधम ॥
सर्प उवाच ।
यथा हवींषि जुह्वाना मखे वै लुब्धकर्त्विजः ।
न फलं प्राप्नुवन्त्यत्र फलयोगे तथा ह्यहम् ॥
भीष्म उवाच ।
तथा ब्रुवति तस्मिंस्तु पन्नगे मृत्युचोदिते ।
आजगाम ततो मृत्युः पन्नगं चाब्रवीदिदम् ॥
प्रचोदितोऽहं कालेन पन्नग त्वामचूचुदम् ।
विनाशहेतुर्नास्य त्वमहं न प्राणिनः शिशोः ॥
यथा वायुर्जलधरान्विकर्षति ततस्ततः ।
तद्वज्जलदवत्सर्प कालस्याहं वशानुगः ॥
सात्विका राजसाश्चैव तामसा ये च केचन ।
भावाः कालात्मकाः सर्वे प्रवर्तन्तेह जन्तुषु ॥
जङ्गमाः स्थावराश्चैव दिवि वा यदि वा भुवि ।
सर्वे कालात्मकाः सर्प कालात्मकमिदं जगत् ॥
प्रवृत्तयश्च लोके या तथैव च निवृत्तयः ।
तासां विकृतयो याश्च सर्वं कालात्मकं स्मृतम् ॥
आदित्यश्चन्द्रमा विष्णुरापो वायुः शतक्रतुः ।
अग्निः खं पृथिवी मित्रः पर्जन्यो वसवोऽदितिः ॥
सरितः सागराश्चैव भावाभावौ च पन्नग ।
सर्वे कालेन सृज्यन्ते ह्रियन्ते च पुनःपुनः ॥
एवं ज्ञात्वा कथं मां सदोषं सर्प मन्यसे ।
अथ चैवं गते दोषे मयि त्वमपि दोषवान् ॥
सर्प उवाच ।
निर्दोषं दोषवन्तं वा न त्वां मृत्यो ब्रवीम्यहम् ।
त्वयाऽहं चोदित इति ब्रवीम्येतावदेव तु ॥
यदि काले तु दोषोऽस्ति यदि तत्रापि नेष्यते ।
दोषो नैव परीक्ष्यो मे न ह्यत्राधिकृता वयम् ॥
निर्मोक्षस्त्वस्य दोषस्य मया कार्यो यथा तथा ।
मृत्योरपि न दोषः स्यादिति मेऽत्र प्रयोजनम् ॥
भीष्म उवाच ।
सर्पोऽथार्जुनकं प्राह श्रुतं ते मृत्युभाषितम् । नानागसं मां पाशेन सन्तापयितुमर्हसि ।
लुब्धक उवाच ।
मृत्योः श्रुतं मे वचनं तव चैव भुजङ्गम ।
नैव तावददोषत्वं भवति त्वयि पन्नग ॥
मृत्युस्त्वं चैव हेतुर्हि बालस्यास्य विनाशने ।
उभयं कारणं मन्ये न कारणमकारणम् ॥
धिङ्भृत्युं च दुरात्मानं क्रूरं दुःखकरं सताम् ।
त्वां चैवाहं वधिष्यामि परपापस्य कारणम् ॥
मृत्युरुवाच ।
विवशौ कालवशगावावां निर्दिष्टकारिणौ ।
नावां दोषेण गन्तव्यौ यदि सम्यक्प्रपश्यसि ॥
लुब्धक उवाच ।
युवामुभौ कालवशौ यदि मे मृत्युपन्नगौ ।
हर्षक्रोधौ यथा स्यातामेतदिच्छामि वेदितुम् ॥
मृत्युरुवाच ।
या काचिदेव चेष्टा स्यान्सर्वा कालप्रचोदिता ।
पूर्वमेवैतदुक्तं हि मया लुब्धक तत्वतः ॥
तस्मादुभौ कालवशावावां निर्दिष्टकारिणौ ।
नावां दोपेण गन्तव्यौ त्वया लुब्धक कर्हिचित् ॥
भीष्म उवाच ।
अथोपगम्य कालस्तु तस्मिन्धर्मार्थसंशये ।
अब्रवीत्पन्नगं मृत्युं लुब्धं चार्जुनकं तथा ॥
न ह्यहं नाप्ययं मृत्युर्नायं लुब्धक पन्नगः ।
किल्बिषी जन्तुमरणे न वयं हि प्रयोजकाः ॥
अकरोद्यदयं कर्म तन्नोऽर्जुनक चोदकम् ।
विनाशहेतुर्नान्योऽस्य वध्यतेऽयं स्वकर्मणा ॥
यदनेन कृतं कर्म तेनायं निधनं गतः ।
विनाशहेतुः कर्मास्य सर्वे कर्मवशा वयम् ॥
कर्मदायादवाँल्लोकः कर्मसम्बन्धलक्षणः ।
कर्माणि चोदयन्तीह यथान्योन्यं तथावयम् ॥
यथा मृत्पिण्डतः कर्ता कुरुते यद्यदिच्छति ।
एवमात्मकृतं कर्म मानवः प्रतिपद्यते ॥
यथा च्छायातपौ नित्यं सुसम्बद्धौ निरन्तरम् ।
तथा कर्म च कर्ता च सम्बद्धावात्मकर्मभिः ॥
एवं नाहं न वै मृत्युर्न सर्पो न तथा भव न् ।
न चेयं ब्राह्मणी वृद्धा शिशुरेवात्र कारणम् ॥
तस्मिंस्तथा ब्रुवाणे तु ब्राह्मणी गौतमी नृप ।
स्वकर्मप्रत्ययाँल्लोकान्मत्वाऽर्जुनकमब्रवीत् ॥
नैव कालो न भुजगो न मृत्युरिह कारणम् ।
स्वकर्मभिरयं बालः कालेन निधं गतः ॥
मया च तत्कृतं कर्म येनायं मे मृतः सुतः ।
यातु कालस्तथा मृत्युर्मुञ्चार्जुनक पन्नगम् ॥
भीष्म उवाच ।
ततो यथागतं जग्मुर्मृत्युः कालोऽथ पन्नगः ।
अभूद्विशोकोऽर्जुनको विशोका चैव गौतमी ॥
एतच्छ्रुत्वा शमं गच्छ मा भूः शोकपरो नृप ।
स्वकर्मप्रत्ययाँल्लोकांस्त्रीन्विद्धि समितिंजय ॥
नैव त्वया कृतं कर्म नापि दुर्योधनेन वै ।
कालेनैतत्कृतं विद्धि निहता येन पार्थिवाः ॥
वैशम्पायन उवाच ।
इत्येतद्वचनं श्रुत्वा बभूव विगतज्वरः ।
युधिष्ठरो महातेजाः पप्रच्छेदं च धर्मवित् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि प्रथमोऽध्यायः ॥ 1 ॥

7-1-2 धर्मो बहुविधाकार इति ट. पाठ ॥ 7-1-5 सीदे सीदामि सदा वर्षमिवाम्बुदम् इति थ.पाठः ॥ 7-1-6 मत्कृते मन्निमित्तम् । प्रत्यमित्रैः अमित्राणां प्रतिकूलैरस्मदीयैरर्जुनशिखण्डिप्रभृतिभिः ॥ 7-1-19 अथ तं साधुपाशेनेति ध. पाठ ॥ 7-1-20 केन हेतुना केनोपायेन ॥ 7-1-21 हेतुमेवाह अग्नाविति ॥ 7-1-22 प्राप्तव्यमविचिन्तयन्निति झ.पाठः ॥ 7-1-23 प्लवन्ते दुःखार्णवं तरन्ति । मज्जन्ति च तत्रैव । वस्त्रं क्लिन्नमिवोदके इति ट. पाठः 7-1-24 उत्सर्गे प्राणोत्सर्गे ॥ 7-1-29 श्रेयः परलोकहितं तदेवाऽव्ययो लाभः सच शत्रून् हत्वैव लभ्य इत्यध्याहृत्य योज्यम् । बलिभ्यः सर्वेभ्यः प्रशस्तः श्रेष्ठश्च स्यात् । शत्रुवधाल्लोकत्रयेपि मान्यो भवतीत्यर्थः ॥ 7-1-31 त्यजन्ति नाशयन्ति ॥ 7-1-32 मे पुत्रको जीवितं न सम्प्राप्स्यते । गुणं पुण्यम् । जीवं जीवन्तम् ॥ 7-1-33 शूली यज्ञं हत्वेति सम्बन्धः ॥ 7-1-35 संस्तभ्य धैर्यमालम्ब्य ॥ 7-1-36 अचूचुदत् प्रेरितवान् ॥ 7-1-37 दष्टो दष्टवान् । किल्बिषं चेदस्ति तर्हि प्रयोक्तुरेव न प्रयोज्यस्य मम शरस्येवेत्यर्थः ॥ 7-1-39 चेतनत्वात्किल्बिषीत्यवश्यं वध्योऽसीत्यर्थः ॥ 7-1-42 आयुधं हि अयस्कान्तवत्प्रहर्तारं प्रयोजयति । तेनायुधकर्तापि प्रयोजकस्तस्य चायं कारयिता प्रहर्तुकामः प्रयोजक इत्यन्योन्यप्रयोज्यत्वान्न कस्यचिद्धन्तृत्वमित्यर्थः ॥ 7-1-43 समवाये समुदाये ॥ 7-1-45 यतः कृतेऽपि असति दुष्टे कार्ये दोषे हेतुः कर्ता न लिप्यते तवमते । तस्मात् चोरादिरत्रैव राज्ञां वध्यः प्रायश्चित्ती च न स्यात् ॥ 7-1-46 कारणे कर्तरि सति कुठारोद्यमनादिकार्येण छिदिक्रिया जायते असत्यपि कर्तरि तरुशाखान्तनिघर्षेण कार्येण तज्जेनाग्निना वनदाहक्रिया जायते । तस्माच्छाखाया इव ममापि कर्तृत्वं अप्रयोजकत्वान्न दोषहेतुः विशेषाभावादित्यर्थः ॥ 7-1-49 एवमृत्विगादिवदन्यप्रेर्यत्वान्नाहं किल्बिषी किन्तु मम प्रयोजक एवेति भावः ॥ 7-1-53 कालात्मकाः कालस्येवाऽऽत्मा स्वभावो येषां ते । कालानुसारिण इत्यर्थः ॥ 7-1-57 भावाभावावैश्वर्यानैश्वर्ये ॥ 7-1-63 मे मया ॥ 7-1-67 भो मृत्युपन्नगौ यदि युवां कालवशौ तर्हि मे मम तटस्तस्य परोपकर्तरि हर्षः अपकर्त्रोश्च युवयोरुपरि द्वेषो वा यता स्यातां तथा ब्रूतम् । एतदहं वेदितुमिच्छामीत्यध्याहारपूर्वकं योज्यम् । एवं सर्वस्य परवशत्वे उपकर्त्रपकर्त्रोः स्तुतिनिन्दे न स्यातामिति भावः 7-1-68 ईश्वराधीनो जनः सदसद्वा कुर्वाणो न स्तुत्यो न वा निन्द्य इति भावः ॥ 7-1-69 दोषेण युक्ताविति शेषः । गन्तव्यौ ज्ञातव्यौ ॥ 7-1-70 धर्मस्यार्थः फलं तत्र विषये ॥ 7-1-74 कर्मैव दायादः पुत्रवत्तारकं तद्वान् । कर्मसम्बन्धः कर्मफलयोगः तदेव लक्षणं पुण्यपापवत्ताज्ञापकं यस्य तथा ॥ 7-1-78 कर्मैव प्रत्ययः कारणं येषां तान् लोकान् स्वर्गनरकादीन् ॥ 7-1-80 तत्कर्म पुत्रशोकप्रदम् ॥

श्रीः