अध्यायः 050

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति स्त्रीस्वभावप्रदर्शनाय दृष्टान्ततयाऽष्टावक्रोपाख्यानकथनारम्भः ॥ अष्टावक्रेण भार्यात्वाय वदान्यंप्रति कन्यायाचनम् ॥ 2 ॥ तथा वदाव्यनियोगादुत्तरदिगन्तगमनम् ॥ 3 ॥ तथोत्तरदिगभिमानिन्या जरतीरूप धारिण्या संवादः ॥ 4 ॥

युधिष्ठिर उवाच ।

यदिदं सहधर्मेति प्रोच्यते भरतर्षभ ।
पाणिग्रहणकाले तु स्त्रीणामेतत्कथं स्मृतम् ॥
आर्ष एष भवेद्धर्मः प्राजापत्योऽथवाऽसुरः ।
यदेतत्सहधर्मेति पूर्वमुक्तं महर्षिभिः ॥
सन्देहः सुमहानेष विरुद्ध इति मे मतिः ।
इह यः सहधर्मो वै प्रेत्यायं विहितः क्वनु ॥
स्वर्गो मृतानां भवति सहधर्मः पितामह ।
पूर्वमेकस्तु म्रिय********कस्तिष्ठते वद ॥
नानाधर्मफलोपेता नानाकर्मनिवासिताः ।
नानानिरयनिष्ठान्ता मानुपा बहवो यदा ॥
अनृताः स्त्रिय इत्येवं सूत्रकारो व्यवस्यति ।
यदाऽनृताः स्त्रियस्तात सहधर्मः कुतः स्मृतः ॥
अनृताः स्त्रिय इत्येवं वेदेष्वपि हि पठ्यते ।
धर्मो यः पूर्विको दृष्ट उपचारः क्रियाविधिः ॥
गहरं प्रतिभात्येतन्मम चिन्तयतोऽनिशम् ।
निःसन्देहमिदं सर्वं पितामह यथाश्रुतिः ॥
यदैतद्यादृशं चैतद्यथा चैतत्प्रवर्तितम् ।
निखिलेन महाप्राज्ञ भवानेतद्ब्रवीतु मे ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अष्टावक्रस्य संवादं दिशया सह भारत ॥ i
निर्विष्टुकामस्तु पुरा अष्टावक्रो महातपाः ।
ऋषेरथ वदान्यस्य वव्रे कन्यां महात्मनः ॥
सुप्रभां नाम वै नाम्ना रूपेणाप्रतिमां भुवि ।
गुणप्रभावशीलेन चारित्रेण च शोभनाम् ॥
सा तस्यर्षेर्मनो दृष्टा जहार शुभलोचना ।
वनराजी यथा चित्रा वसन्ते कुसुमाञचिता ॥
ऋषिस्तमाह देया मे सुता तुभ्यं हि तच्छृणु ॥
`अनन्यस्त्रीजनः प्राज्ञो ह्यप्रवासी प्रियंवदः ।
सुरूपः सम्मतो वीरः शीलवान्भोगभुक्छुचिः ॥
दारानुमतयज्ञश्च सुनक्षत्रामथोद्वेहेत् ।
सभृत्यः स्वजनोपेत इह प्रेत्य च मोदते ॥
गच्छ तावद्दिशं पुण्यामुत्तरां द्रक्ष्यसे ततः ॥
अष्टावक्र उवाच ।
किं द्रष्टव्यं मया तत्र वक्तुमर्हति मे भवान् ।
तथेदानीं मयो कार्यं यथा वक्ष्यति मां भवान् ॥
वदान्य उवाच ।
धनदं समतिक्रम्य हिमवन्तं च पर्वतम् ।
रुद्रस्यायतनं दृष्ट्वा सिद्धचारणसेवितम् ॥
संहृष्टैः पार्षदैर्जुष्टं नृत्यद्भिर्विविधाननैः ।
दिव्याङ्गरागैः पैशाचैरन्यैर्नानाविधैः प्रभोः ॥
पाणितालसुतालैश्च शम्पातालैः समैस्तथा ।
सम्प्रहृष्टैः प्रनृत्यद्भिः शर्वस्तत्र निषेव्यते ॥
इष्टं किल गिरौ स्थानं तद्दिव्यमिति शुश्रुम ।
नित्यं सन्निहितो देवस्तथा ते पार्षदाः स्मृताः ॥
तत्र देव्या तपस्तप्तं सङ्करार्थं सुदुश्चरम् ।
अतस्तदिष्टं देवस्य तथोमाया इति श्रुतिः ॥
पूर्वे तत्र महापार्श्वे देवस्योत्तरतस्तथा ॥
ऋतवः कालरात्रिश्च ये दिव्या ये च मानुषाः ॥
देवं चोपासते सर्वे रूपिणः किल तत्र ह ।
तदतिक्रम्य भवनं त्वया यातव्यमेव हि ॥
ततो नीलं वनोद्देशं द्रक्ष्यसे मेघसन्निभम् ।
रमणीयं मनोग्राहि तत्र वै द्रक्ष्यसे स्त्रियम् ॥
तपस्विनीं महाभागां वृद्धां दीक्षामनुष्ठिताम् ।
द्रष्टव्या सा त्वया तत्र सम्पूज्या चैव यत्नतः ॥
तां दृष्ट्वा विनिवृत्तस्त्वं ततः पाणिं ग्रहीष्यसि ।
यद्येष समयः सर्वः साध्यतां तत्र गम्यताम् ॥
अष्टावक्र उवाच ।
तथाऽस्तु साधयिष्यामि तत्र यास्याम्यसंशयम् ।
यत्र त्वं वदसे साधो भवान्भवतु सत्यवाक् ॥
भीष्म उवाच ।
ततोऽगच्छत्स भगवानुत्तरामुत्तरां दिशम् ।
हिमवन्तं गिरिश्रेष्ठं सिद्धचारणसेवितम् ॥
स गत्वा द्विजशार्दूलो हिमवन्तं महागिरिम् ।
अभ्यगच्छन्नदीं पुण्यां बाहुदां पुण्यदायिनीम् ॥
अशोके विमले तीर्थे स्नात्वा वै तर्प्य देवताः ।
तत्र वासाय शयने कौशे सुखमुवास ह ॥
ततो रात्र्यां व्यतीतायां प्रातरुत्थाय स द्विजः ।
स्नात्वा प्रादुश्चकाराग्निं हुत्वा चैवं विधानतः ॥
रुद्राणीकूपमासाद्य ह्रदे तत्र समाश्वसत् ।
विश्रान्तश्च समुत्थाय कैलासमभितो ययौ ॥
सोऽपश्यत्काञ्चनद्वारं दीप्यमानमिव श्रिया ।
मन्दाकिनीं च नलिनीं धनदस्य महात्मनः ॥
अथ ते राक्षसाः सर्वे येऽभिरक्षन्ति पद्मिनीम् ।
प्रत्युत्थिता भगवन्तं माणिभद्रपुरोगमाः ॥
स तान्प्रत्यर्चयामास राक्षसान्भीमविक्रमान् ।
निवेदयत मां क्षिप्रं धनदायेति चाब्रवीत् ॥
ते राक्षसास्तथा राजन्भगवन्तमथाब्रुवन् ।
असौ वैश्रवणो राजा स्वयमायाति तेऽन्तिकम् ॥
विदितो भगवानस्य कार्यमागमनस्य यत् ।
पश्यैनं त्वं महाभागं ज्वलन्तमिव तेजसा ॥
ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् ।
विधिवत्कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥
सुखं प्राप्तो भवान्कच्चित्किंवा मत्तश्चिकीर्षति ।
ब्रूहि सर्वं करिष्यामि यन्मां वक्ष्यसि वै द्विज ॥
भवनं प्रविश त्वं मे यथाकामं द्विजोत्तम ।
सत्कृतः कृतकार्यश्च भवान्यास्यत्यविघ्नतः ॥
प्राविशद्भवनं स्वं वै गृहीत्वा तं द्विजोत्तमम् ।
आसनं स्वं ददौ चैव पाद्यमर्घ्यं तथैव च ॥
अथोपविष्टयोस्तत्र माणिभद्रपुरोगमाः ।
निषेदुस्तत्र कौबेरा यक्षगन्धर्वकिन्नराः ॥
ततस्तेषां निषण्णानां धनदो वाक्यमब्रवीत् ।
भवच्छन्दं समाज्ञाय नृत्येरन्नप्सरोगणाः ॥
आतिथ्यं परमं कार्यं शुश्रूषा भवतस्तथा ।
संवर्ततामित्युवाच मुनिर्मधुरया गिरा ॥
यथोर्वरा मिश्रकेशी रम्भा चैवोर्वशी तथा ।
अलम्बुसा घृताची च चित्रा चित्राङ्गदारुचिः ॥
मनोहरा सुकेशी च सुमुखी हासिनी प्रभा ।
विद्युता प्रशमी दान्ता विद्योता रतिरेव च ॥
एताश्चान्याश्च वै बह्व्यः प्रनृत्ताप्सरसः शुभाः ।
अवादयंश्च गन्धर्वा वाद्यानि विविधानि च ॥
अथ प्रवृत्ते गान्धर्वे दिव्ये ऋषिरुपाविशत् ।
दिव्यं संवत्सरं तत्रारमतैष महातपाः ॥
ततो वैश्रवणो राजा भगवन्तमुवाच ह ।
साग्रः संवत्सरो यातो विप्रेह तव पश्यतः ॥
हार्योऽयं विषयो ब्रह्मन्गान्धर्वो नाम नामतः ।
छन्दतो वर्ततां विप्र यथा वदति वा भवान् ॥
अतिथिः पूजनीयस्त्वमिदं च भवतो गृहम् ।
सर्वमाज्ञाप्यतामाशु परवन्तो वयं त्वयि ॥
अथ वैश्रवणं प्रीतो भगवान्प्रत्यभाषत ।
अर्चितोस्मि यथान्यायं गमिष्यामि धनेश्वर ॥
प्रीतोस्मि सदृशं चैव तव सर्वं धनाधिप । तव प्रसादाद्भगवन्महर्षेश्च महात्मनः ।
नियोगादद्य यास्यामि वृद्दिमानृद्धिमान्भव ॥
अथ निष्क्रम्य भगवान्प्रययावुत्तरामुखः ।
`कैलासे सङ्करावासमभिवीक्ष्य प्रणम्य च ॥
गौरीशं शङ्करं दान्तं शरणागतवत्सलम् । गङ्गाधरं गोपतिनं गणावृतमकल्पषम् ॥'
कैलासं मन्दरं हैमं सर्वाननुचचार ह ।
तानतीत्य महाशैलान्कैरातं स्थानमुत्तमम् ॥
प्रदक्षिणं तथा चक्रे प्रयतः शिरसा नतः ।
धरणीमवतीर्याथ पूतात्माऽसौ तदाऽभकवत् ॥
स तं प्रदक्षिणं कृत्वा निर्यातश्चोत्तरामुखः ।
समेन भूमिभागेन ययौ प्रीतिपुरस्कृतः ॥
ततोऽपरं वनोद्देशं रमणीयमपश्यत । सर्वर्तुभिर्मूलफलैः पक्षिभिश्च समन्वितैः ।
रमणीयैर्वनोद्देशैस्तत्रतत्र विभूषितम् ॥
तत्राश्रमपदं दिव्यं ददर्श भगवानथ ॥
शैलांश्च विविधाकारान्काञ्चनान्रत्नभूषितान् ।
मणिभूमौ निविष्टाश्च पुष्करिण्यस्तथैव च ॥
अन्यान्यपि सुरम्याणि ददर्श सुबहून्यथ ।
भृशं तस्य मनो रमे महर्षेर्भावितात्मनः ॥
स तत्र काञ्चनं दिव्यं सर्वरत्नमयं गृहम् ।
ददर्शाद्भुतसङ्काशं धनदस्य गृहाद्वरम् ॥
महान्तो यत्र विविधा मणिकाञ्चनपर्वताः ।
विमानानि च रम्याणि रत्नानि विविधानि च ॥
मन्दारपुष्पैः सङ्कीर्णां तथा मन्दाकिनीं नदीम् ।
स्वयम्प्रभाश्च मणयो वज्रैर्भूमिश्च भूषिता ॥
नानाविधैश्च भवनैर्विचित्रमणितोरणैः ।
मुक्ताजालविनिक्षिप्तैर्मणिरत्नविभूषितैः ॥
मनोद्दष्टिहरै रम्यैः सर्वतः संवृतं शुभैः ।
ऋषिभिश्चावृतं तत्र आश्रमं तं मनोहरम् ॥
ततस्तस्याभवच्चिन्ता कुत्र वासो भवेदिति ।
अथ द्वारं समभितो गत्वा स्थित्वा ततोऽब्रवीत् ॥
अतिथिं समनुप्राप्तमभिजानन्तु येऽत्र वै ॥
अथ कन्याः परिवृता गृहात्तस्माद्विनिर्गताः ।
नानारूपाः सप्त विभो कन्याः सर्वा मनोहराः ॥
यांयामपश्यत्कन्यां वै सासा तस्य मनोऽहरत् । न च शक्तो वारयितुं मनोऽस्याथावसीदति ।
ततो धृतिः समुत्पन्ना तस्य विप्रस्य धीमतः ॥
अथ तं प्रमदाः प्राहुर्भगवान्प्रविशत्विति । स च तासां सुरुपेण तस्यैव भवनस्य च ।
कौतूहलं समाविष्टः प्रविवेश गृहं द्विजः ॥
तत्रापश्यज्जरायुक्तामरजोम्बरधारिणीम् ।
वृद्धां पर्यङ्कमासीनां सर्वाभरणभूषिताम् ॥
स्वस्तीति तेन चैवोक्ता सा स्त्री प्रत्यवदत्तदा ।
प्रत्युत्थाय च तं विप्रमास्यतामित्युवाच ह ॥
अष्टावक्र उवाच ।
सर्वाः स्वानालयान्यान्तु एका मामुपतिष्ठतु ।
प्रज्ञाता या प्रशान्ता या शेषा गच्छन्तु च्छन्दतः ॥
ततः प्रदक्षिणीकृत्य कन्यास्तास्तमृषिं तदा । निश्चक्रमुर्गृहात्तस्मात्सा वृद्धाऽथ व्यतिष्ठतः ।
तया सम्पूजितस्तत्र शयने चापि निर्मले ॥
अथ तां संविशन्प्राह शयने भास्वरे तदा ।
त्वयाऽपि सुप्यतां भद्रे रजनी ह्यतिवर्तते ॥
संलापात्तेन विप्रेण तथा सा तत्र भाषिता ।
द्वितीये शयने दिव्ये संविवेश महाप्रभे ॥
अथ सा वेपमानाङ्गी निमित्तं शीतजं तदा ।
व्यपदिश्य महर्षेर्वै शयनं व्यवरोहत ॥
स्वागतेनागतां तां तु भगवानभ्यभाषत ।
सा जुगूह भुजाभ्यां तु ऋषिं प्रीत्या नरर्षभ ॥
निर्विकारमृषिं चापि काष्ठकुड्योपमं तदा ।
दुखिता प्रेक्ष्य सञ्जल्पमकार्षीदृषिणा सह ॥
ब्रह्मन्नकामकरोस्ति स्त्रीणां पुरुषतो धृतिः ।
कामेन मोहिता चाहं त्वां भजन्तीं भजस्व माम् ॥
प्रहृष्टो भव विप्रर्षे समागच्छ मया सह ।
उपगूह च भां विप्र कामार्ताऽहं भृशं त्वयि ॥
एतद्वि तव धर्मात्मंस्तपसः पूज्यते फलम् ।
प्रार्थितं दर्शनादेव भजमानां भजस्व माम् ॥
सद्म चेदं धनं सर्वं यच्चान्यदपि पश्यसि ।
प्रभुस्त्वं भव सर्वत्र मयि चैव न संशयः ॥
सर्वान्कामान्विधास्यामि रमस्व सहितो मया ।
रमणीये वने विप्र सर्वकामफलप्रदे ॥
त्वद्वशाऽहं भविष्यामि रंस्यसे च मया सह ।
सर्वान्कामानुपाश्नीमो ये दिव्या ये च मानुषाः ॥
नातः परं हि नारीणां विद्यते च कदाचन ।
यथा पुरुषसंसर्गः परमेतद्धि नः फलम् ॥
आत्मच्छन्देन वर्तन्ते नार्यो मन्मथचोदिताः ।
न च दह्यन्ति गच्छन्त्यः सुतप्तैरपि पांसुभिः ॥
अष्टावक्र उवाच ।
परदारानहं भद्रे न गच्छेयं कथञ्चन ।
दूषितं धर्मशास्त्रज्ञैः परदाराभिमर्शनम् ॥
`शुद्धक्षेत्रे ब्रह्महत्याप्रायश्चित्तमथोच्यते ।
पुनश्च पातकं दृष्टं विप्रक्षेत्रे विशेषतः' ॥
भद्रे निर्वेष्टुकामोऽहं तत्रावकिरणं मम ।
`प्रायश्चित्तं महदतो दारग्रहणपूर्वकम् ॥
बीजं न शुद्ध्यते वोढुरन्यथा कृतनिष्कृतेः । मातृतः पितृतः शुद्धो ज्ञेयः पुत्रो यथार्थतः ॥'
विषयेष्वनभिज्ञोऽहं धर्मार्थं किल सन्ततिः ।
एवं लोकान्गमिष्यामि पुत्रैरिति न संशयः ॥
भद्रे धर्मं विजानीहि ज्ञात्वा चोपरमस्व ह ॥
स्त्र्युवाच ।
नानिलोऽग्निर्न वरुणो न चान्ये त्रिदशा द्विज ।
प्रियाः स्त्रीणां यथा कामो रतिशीला हि योषितः ॥
सहस्रे किल नारीणां प्राप्येतैका कदाचन ।
तथा शतसहस्रेषु यदि काचित्पतिव्रता ॥
नैता जानन्ति पितरं न कुलं न च मातरम् ।
न भ्रातॄन्न च भर्तारं न च पुत्रान्न देवरान् ॥
लीलायन्त्यः कुलं घ्नन्ति कूलानीव सरिद्वराः ।
दोषान्सर्वाश्च मत्वाऽऽशु प्रजापतिरभाषत ॥
भीष्म उवाच ।
ततः स ऋषिरेकाग्रस्तां स्त्रियं प्रत्यभाषत ।
आस्यतांरुचितश्छन्दः किञ्च कार्यं ब्रवीहि मे ॥
सा स्त्री प्रोवाच भगवन्द्रक्ष्यसे देशकालतः ।
वस तावन्महाभाग कृतकृत्यो भविष्यसि ॥
ब्रह्मर्षिस्तामथोवाच स तथेति युधिष्ठिर ।
वत्स्येऽहं यावदुत्साहो भवत्या नात्र संशयः ॥
अथर्षिरभिसम्प्रेक्ष्य स्त्रियं तां जरयाऽर्दिताम् ।
चिन्तां परमिकां भेजे सन्तप्त इव चाभवत् ॥
यद्यदङ्गं हि सोऽपश्यत्तस्या विप्रर्षभस्तदा ।
नारमत्तत्रतत्रास्य दृष्टी रूपविरागिता ॥
देवतेयं गृहस्यास्य शापात्किंनु विरूपिता ।
अस्याश्च कारणं वेत्तुं न युक्तं सहसा भया ॥
इति चिन्ताविषक्तस्य तमर्थं ज्ञातुमिच्छतः ।
व्यगमद्रात्रिशेषः स मनसा व्याकुलेन तु ॥
अथ सा स्त्री तथोवाच भगवन्पश्य वै रवेः ।
रूपं सन्ध्याभ्रसंरक्तं किमुपस्थाप्यतां तव ॥
स उवाच ततस्तां स्त्रीं स्नानोदकमिहानय ।
उपासिष्ये ततः सन्ध्यां वाग्यतो नियतेन्द्रियः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चाशोऽध्यायः ॥ 50 ॥

7-50-1 सहोभौ चरतां धर्मं क्षौमे वसानौ जायापती अग्निमादधीयातामिति धर्मपत्नीसाहित्यं शास्त्रे दृश्यमानमाक्षिपति यदिदमिति । पाणग्रहणात्प्राक्साहित्याभावात्सहोभाविति वाक्यं व्याकुप्येतेति भावः ॥ 7-50-3 इहैव साहित्यं दंपत्योर्दृश्यते परलोके तयोः साहित्यं क्वनु । न क्वापीत्यर्थः ॥ 7-50-6 सूत्रकारो धर्मप्रवक्ता । अनृतं साहसं माया मूर्खत्वमतिलोभतेति स्त्रीधर्मानाह ॥ 7-50-8 गह्वरं गहनं दुर्बोधमित्यर्थः ॥ 7-50-10 दिशया दिगभिमानिदेवतया ॥ 7-50-11 निर्वेष्टुकामः दारसंग्रहार्थी ॥ 7-50-21 तालैः कांस्यमयैर्वाद्यभाण्डैः । शम्पातालैः विद्युद्वदतिचपलैर्भ्रमणादिघटितैः गीतनृत्यक्रियामानविशेषैः । समैर्भ्रमणादिरहितैस्तैरेव ॥ 7-50-24 महापार्श्वे पर्वते । ततः कोपो महान्पार्श्वे इति ट. थ. पाठः । ततः कालो महान्पार्श्वे इति ध. पाठः ॥ 7-50-30 उत्तरां श्रेष्ठाम् ॥ 7-50-45 भवच्छन्दं भवदिच्छाम् ॥ 7-50-52 हार्यः हरतीति हार्यः ॥ 7-50-54 भगवान् अष्टावक्रः ॥ 7-50-55 वृद्धिरुपचयस्तद्वान् । ऋद्धिः सम्पत् तद्वान् ॥ 7-50-58 कैरातं किरातवेषधारिणो महादेवस्य सम्बन्धि ॥ 7-50-59 धरणीमवतीर्येत्यनेनाकाशमार्गेणाष्टावक्रो गच्छतीति गम्यते ॥ 7-50-72 सप्त इतरदिग्देवताः ॥ 7-50-75 उत्तराधिष्ठात्री तु देवता मुख्याऽष्टमी सैव जरायुक्ता ॥ 7-50-77 प्रज्ञाता अत्यन्तं ज्ञानवती । प्रशान्ता निर्जितचिता ॥ 7-50-82 जुगूह आलिङ्गितवती ॥ 7-50-84 ब्रह्मन्नकामतोऽन्यास्तीति झ. पाठः । तत्र अकामतोऽनिच्छातः स्वभावत इत्यर्थः । पुरुषतः पुरुषं प्राप्य स्त्रीणां धृतिर्धैर्यमन्या परकीयास्ति ।पुंयोगे स्त्रीणां धृतिः स्वकीया सर्वथा नास्तीत्यर्थः ॥ 7-50-85 प्रहृष्टः कामुको भव । उपनृह अलिङ्गस्व ॥ 7-50-96 अनभिज्ञोऽप्रीतिमान् ॥ 7-50-101 लीलायन्त्यः लीलां रतिमात्मन इच्छन्त्यः दोषांश्च मन्दान्मन्दासुः प्रजापतिरभाषत इति ध. पाठः ॥ 7-50-102 एकाग्रः स्त्रीदोषाननुसन्दधानः स्त्रियम्प्रति आस्यता तूण्णीं स्थीयताम् । रुचितः रुचिं प्राप्य छन्दः इच्छा भवतीति अभाषत । त्वं रुचिज्ञा मामिच्छसि अहं त्वरुचिज्ञो न त्वां स्फुष्टुमिच्छामीति भावः । एवमपि यत्कार्यं कर्तव्यं तव तन्मे ब्रवीहि ॥ 7-50-103 द्रक्ष्यसे स्पर्शसुखं ज्ञायसे ॥ 7-50-106 रूपे विरागिता वैराग्यवती दृष्टिर्नारमत् न रेमे ॥ 7-50-108 व्यगच्छत्तदहःशेष इति झ.पाठः ॥

श्रीः