अध्यायः 053
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरम्प्रति ऋष्यादीनां वियोनिजत्वेपि तपोविद्यादीनामेव माहात्म्यप्रयोजकत्वे निदर्शनतया तादृशानां सम्भवप्रकारादिकथनम् ॥ 1 ॥
`युधिष्ठिर उवाच ।
वैश्ययोन्यां समुत्पन्नाः शूद्रयोन्यां तथैव च ।
ब्रह्मर्षय इति प्रोक्ताः पुराणि द्विजसत्तमाः ॥
कथमेतन्महाराज तत्त्वं शंसितुमर्हसि ।
विरुद्धमिह पश्यामि वियोनौ ब्राह्मणो भवेत् ॥
भीष्म उवाच ।
अलं कौतूहलेनात्र निबोध त्वं युधिष्ठिर ।
शुभेतरं शुभं वाऽपि न चिन्तयितुमर्हसि ॥
ईशन्त्यात्मन इत्येते गतिश्चैषां न सञ्जते ।
ब्रह्मभूयांस इत्येव ऋषयः श्रुतिचोदिताः ॥
निन्द्या न चैते राजेन्द्र प्रमाणं हि प्रमाणिनाम् ।
लोकोऽनुमन्यते चैतान्प्रमाणं ह्यत्र वै तपः ॥
एवं महात्मभिस्तात तपोज्ञानसमन्वितैः ।
प्रवर्तितानि कार्याणि प्रमाणान्येव सत्तम ॥
भार्याश्चतस्रो राजेन्द्र ब्राह्मणस्य स्वधर्मतः ।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च भरतर्षभ ॥
राज्ञां तु क्षत्रिया वैश्या शूद्रा च भरतर्षभ ।
वैश्यस्य वैश्या विहिता शूद्रा च भरतर्षभ ॥
शूद्रस्यैका स्मृता भार्या प्रतिलोमे तु सङ्करः ।
शूद्रायास्तु नरश्रेष्ठ चत्वारः पतयः स्मृताः ॥
वर्णोत्तमायास्तु पतिः सवर्णस्त्वेक एव सः ।
द्वौ क्षत्रियाया विहितौ ब्राह्मणः क्षत्रियस्तथा ॥
वैश्यायास्तु नरश्रेष्ठ विहिताः पतयस्त्रयः ।
सवर्णः क्षत्रियश्चैव ब्राह्मणश्च विशाम्पते ॥
एवंविधिमनुस्मृत्य ततस्ते ऋषिभिः पुरा ।
उत्पादिता महात्मानः पुत्रा ब्रह्मर्षयः पुरा ॥
पुराणाभ्यामृषिभ्यां तु मित्रेण वरुणेन च ।
वसिष्ठोऽथ तथाऽगस्त्यो बर्हिषव्यस्तथैव च ॥
कक्षीवानार्ष्टिषेणश्च पुरुषः कष एव च ।
मामतेयस्य वै पुत्रा गौतमश्चात्मजाः स्मृताः ॥
वत्सप्रियश्च भगवान्स्थूलरश्मिस्तथाक्षणिः ।
गौतमस्यैव तनया ये दास्यां जनिता ह्युत ॥
कपिञ्जलादो ब्रह्मर्षिश्चाण्डाल्यामुदपद्यत ।
वैनतेयस्तथा पक्षी तुर्यायां च वसिष्ठतः ॥
प्रसादाच्च वसिष्ठस्य शुक्लाभ्युपगमेन च ।
अदृश्यन्त्याः पिता वैश्यो नाम्ना चित्रमुखः पुरा ।
ब्राह्मणत्वमनुप्राप्तो ब्रह्मर्षित्वं च कौरव ॥
वैश्यश्चित्रमुखः कन्यां वसिष्ठतनयस्य वै ।
शुभां प्रादाद्यतो जातो ब्रह्मर्षिस्तु पराशरः ॥
तथैव दाशकन्यायां सत्यवत्यां महानृषिः ।
पराशरात्प्रसूतश्च व्यासो योगमयो मुनिः ॥
विभण्डकस्य मृग्यां च तपोयोगात्मको मुनिः ।
ऋस्यशृङ्गः समुत्पन्नो ब्रह्मचारी महायशाः ॥
शार्ङ्ग्यां च मन्दपालस्य चत्वारो ब्रह्मवादिनः ।
जाता ब्रह्मर्षयः पुण्या यैः स्तुतो हव्यवाहनः ॥
द्रोणश्च स्तम्बमित्रश्च सारिसृक्वश्च बुद्धिमान् ।
जरितारिश्च विख्यातश्चत्वारः सूर्यसन्निभाः ॥
महर्षेः कालवृक्षस्य शकुन्त्यामेव जज्ञिवान् ।
हिरण्यहस्तो भगवान्महर्षिः काञ्चनप्रभः ॥
पावकात्तात सम्भूता मनसा च महर्षयः ।
पितामहस्य राजेन्द्र पुरस्त्यपुलहादयः ॥
सावर्ण्यश्चापि राजर्षिः सवर्णायामजायत ।
मृण्मय्यां भरतश्रेष्ठ आदित्येन विवस्वता ॥
शाण्डिल्यश्चाग्नितो जातः कश्यपस्याग्रजः प्रभुः ।
शरद्वतः शरस्तम्बात्कृपश्व कृपया सह ॥
पद्माश्च जज्ञे राजेन्द्र सोस्यपस्य महात्मनः ।
रेणुश्च रेणुका चैव राममाता यशस्विनी ॥
समुनायाः समुद्भूतः सोमकेन महात्मना ।
अर्कदन्तो महानृषिः प्रथितः पृथिवीतले ॥
अग्नेराहवनीयाच्च द्रुपदस्येन्द्रवर्चसः ।
धृष्टद्युम्नश्च सम्भूतो वेद्यां कृष्णा च भारत ॥
व्याघ्रयोन्यां ततो जाता वसिष्ठस्य महात्मनः ।
एकोनविंशतिः पुत्राः ख्याता व्याघ्रपदादयः ॥
मन्धश्च बादलोमस्च जावालिश्च महानृषिः ।
मन्युश्चैवोपमन्युश्च सेतुकर्णस्तथैव च ।
एते चान्ये च विख्याताः पृथिव्यां गोत्रतां गताः ॥
विश्वकाशस्य राजर्षेरैक्ष्वाकोस्तु महात्मनः ।
बालाश्वो नाम पुत्रोऽभूच्छिखां भित्त्वा विनिस्सृतः ॥
मान्धाता चैव राजर्षिर्युवनाश्वेन धीमता ।
स्वयं धृतोऽथ गर्भेण दिव्यास्त्रबलसंयुतः ॥
गौरिकश्चापि राजर्षिश्चक्रवर्ती महायशाः ।
बाहुदायां समुत्पन्नो नद्यां राज्ञा सुबाहुना ॥
भूमेश्च पुत्रो नरकः संवर्तश्चैव पुष्कलः ।
अद्भिश्चैव महातेजा ऋषिर्गार्ग्योऽभ्यजायत ॥
एते चान्ये च बहवो राजन्या ब्राह्मणास्तथा ।
प्रभावेनाभिसम्भूता महर्षीणां महात्मनाम् ।
नासाध्य तपसा तेषां विद्ययाऽऽत्मगुणैः परैः ॥
अस्मिन्नर्थे च मनुना नीतः श्लोको नराधिप ।
धर्मं प्रणयता राजंस्तं निबोध युधिष्ठिर ॥
ऋषिणां च नदीनां च साधूनां च महात्मनाम् ।
प्रभवो नाधिगन्तव्यः स्त्रीणां दुश्चरितस्य च ॥
तन्नात्र चिन्ता कर्तव्या महर्षीणां समुद्भवे ।
यथा सर्वगतो ह्यग्निस्तथा तेजो महात्मसु ॥' ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिपञ्चाशोऽध्यायः ॥ 53 ॥
7-53-1 एतदादिसप्ताध्याया दाक्षिणात्यकोशेष्वेव दृश्यन्ते ।
श्रीः