अध्यायः 054

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति युगचतुष्टयधर्मादिप्रतिपादकनारदमार्कण्डेयसंवादानुवादः ॥ 1 ॥

`युधिष्ठिर उवाच ।

पुत्रैः कथं महाराज पुरुषस्तारितो भवेत् ।
यावन्न लब्धवान्पुत्रमफलः पुरुषो नृप ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
नारदेन पुरा गीतं मार्कण्डेयाय पृच्छते ॥
पर्वतं नारदं चैव असितं देवलं च तम् ।
आरुणेयं च रैभ्यं च एतानत्रागतान्पुरा ॥
गङ्गायमुनयोर्मध्ये भोगवत्याः समागमे ।
दृष्ट्वा पूर्वं समासीनान्मार्कण्डेयोऽभ्यगच्छत ॥
ऋषयस्तु मुनिं दृष्ट्वा समुत्थायोन्मुखाः स्थिताः ।
अर्चयित्वाऽर्हतो विप्रं किं कुर्म इति चाब्रुवन् ॥
मार्कण्डेय उवाच ।
अयं समागमः सद्भिर्यत्नेनासादितो मया ।
अत्र प्राप्स्यामि धर्माणामाचारस्य च निश्चयम् ॥
ऋजुः कृतयुगे धर्मस्तस्मिन्क्षीणे विमुह्यति ।
युगेयुगे महर्षिभ्यो धर्ममिच्छामि वेदितुम् ॥
ऋषिभिर्नारदः प्रोक्तो ब्रूहि यत्रास्य संशयः ।
धर्माधर्मेषु तत्वज्ञ त्वं हि च्छेत्ता हि संशयान् ॥
ऋषिभ्योऽनुमतं वाक्यं नियोगान्नारदस्तदा ।
सर्वधर्मार्थतत्वज्ञं मार्कण़्डेयं ततोऽब्रवीत् ॥
दीर्घायो तपसा दीप्त वदेवदाङ्गतत्ववित् ।
यत्र ते संशयो ब्रह्मन्समुत्पन्नः स उच्यताम् ॥
धर्मं लोकोपकारं वा यच्चान्यच्छ्रोतुमिच्छसि ।
तदहं कथयिष्यामि ब्रूहि त्वं सुमहातपाः ॥
मार्कण्डेय उवाच ।
युगेयुगे व्यतीतेऽस्मिन्धर्मसेतुः प्रणश्यति ।
कथं धर्मच्छलेनाहं प्राप्नुयामिति मे मतिः ॥
नारद उवाच ।
आसीद्धर्मः पुरा विप्र चतुष्पादः कृते युगे ।
ततो ह्यधर्मः कालेन प्रसूतः किञ्चिदूनतः ॥
ततस्त्रेतायुगं नाम प्रवृत्तं धर्मदूषणम् ॥
तस्मिन्नतीते सम्प्राप्तं तृतीयं द्वापरं युगम् ।
तदा धर्मस्य द्वौ पादावधर्मो नाशयिष्यति ॥
द्वापरे तु परिक्षीणे नन्दिके समुपस्थिते ।
लोकवृत्तं च धर्मं च उच्यमानं निबोध मे ॥
चतुर्थं नन्दिकं नाम धर्मः पादावशेषितः । ततः प्रभृति जायन्ते क्षीणप्रज्ञायुपो नराः ।
क्षीणप्राणधना लोके धर्माचारबहिष्कृताः ॥
मार्कण्डेय उवाच ।
एवं विलुलिते धर्मे लोके चाधर्मसंयुते ।
चातुर्वर्ण्यस्य नियतं हव्यं कव्यं नियच्छति ॥
नारद उवाच ।
मन्त्रपूतं सदा हव्यं कव्यं चैव न नश्यति ।
प्रतिगृह्णन्ति तद्देवा दातुर्न्यायात्प्रयच्छतः ॥
सत्वयुक्तं च दाता च सर्वान्कामानवाप्नुयात् ।
अवाप्तकामः स्वर्गे च महीयेत यथेप्सितम् ॥
मार्कण्डेय उवाच ।
चत्वारो ह्यथ ये वर्णा हव्यं कव्यं प्रदास्यति ।
मन्त्रहीनमपन्यायं तेषां दत्तं क्व गच्छति ॥
नारद उवाच ।
असुरान्गच्छते दत्तं विप्रै रक्षांसि क्षत्रियैः ।
वैश्यैः प्रेतानि वै दत्तं शूद्रैर्भूतानि गच्छति ॥
मार्कण्डेय उवाच ।
अथ वर्णावरे जाताश्चातुर्वर्ण्योपदेशिनः । दास्यन्ति हव्यकव्यानि तेषां दत्तं क्व गच्छति
नारद उवाच ।
वर्णावराणां भूतानां हव्यकव्यप्रदातृणाम् ।
नैव देवा न पितरः प्रतिगृह्णन्ति तत्स्वयम् ॥
यातुधानाः पिशाचाश्च भूता ये चापि नैर्ऋताः ।
तेषां सा विहिता वृत्तिः पितृदैवतनिर्गताः ॥
तेषां सर्वप्रदातॄणां हव्यकव्यं समाहिताः । यत्प्रयच्छन्ति विधइवत्तद्वै भुञ्जन्ति देवताः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुःपश्चाशोऽध्यायः ॥ 54 ॥

7-54-16 नन्दिक इति कलियुगे प्रवर्तमानधर्मैकपादस्य नाम ॥ 16 ॥

श्रीः