अध्यायः 056

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति स्त्रीणां भार्यात्वेन परिग्रहयोग्यताप्रतिपादकनारदमार्कण्डेयसंवादानुवादः ॥ 1 ॥

`मार्कण्डेय उवाच ।

श्रुतं बहुविधं वृत्तं कन्यकानां महामते ।
इच्छामि योषितां श्रोतुं धर्माधर्मौ परिग्रहे ॥
नारद उवाच ।
अष्टौ भार्यागमा धर्म्या नराणां दारकर्मणि ।
प्रेत्येह च हिता यास्तु सपुत्रा हव्यकव्यदाः ॥
साध्वी पाणिगृहीता या कौमारी पाणिवर्जिता ।
भ्रातृभार्या स्वभार्येति प्रसूयेत्पुत्रमौरसम् ॥
मार्कण्डेय उवाच ।
त्रयो भार्यागमा ज्ञेया यत्र धर्मो न नश्यति ।
पञ्चान्याः पश्चिमा ब्रूहि भार्यास्तासां च ये सुताः ॥
नारद उवाच ।
सगोत्रभार्या क्रीता च परभार्या च कारिता ।
गतागता च या भार्या आश्रमादाहृता च या ॥
एता भार्यागमाः पञ्च पुनर्भार्या भवन्ति याः । एता भार्या नृणां गम्यास्तत्पुत्रा हव्यकव्यदाः ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि षट्पञ्चाशोऽध्यायः ॥ 56 ॥

श्रीः