अध्यायः 059

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति स्त्रीणामपरित्यागपरित्यागप्रयोजकगुणदोषादिप्रतिपादकनारदमार्कण्डेयसंवादानुवादः ॥ 1 ॥

`मार्कण्डेय उवाच ।

श्रुतं बलं प्रभावश्च योषितां मुनिसत्तम ।
एकस्य बहुभार्यस्य धर्ममिच्छामि वेदितुम् ॥
नारद उवाच ।
बहुभार्यासु सक्तस्य नारीभोगेषु गेहिनः ।
ऋतौ विमुञ्चमानस्य सांनिध्ये भ्रूणहा स्मृतः ॥
वृद्धां वन्ध्यां सुव्रता च मृतापत्यामपुष्पिणीम् ।
कन्यां च बहुपुत्रां च वर्जयन्मुच्यते भयात् ॥
व्याधितो बन्धनस्थो वा प्रवासेष्वथ पर्वसु ।
ऋतुकाले तु नारीणां भ्रूणहत्यां प्रमुञ्चति ॥
मार्कण्डेय उवाच ।
वैश्यनारीषु वै जाताः परप्रेष्यासु वा सुताः ।
कस्य ते बन्धुदायादा भवन्ति हि महामुने ॥
नारद उवाच ।
पण्यस्त्रीषु प्रसूता ये यस्य स्त्री तस्य ते सुताः ।
क्रयाच्च कृत्रिमाः पुत्रा प्रदानाच्चैव दत्रिमाः ॥
मार्कण्डेय उवाच ।
पण्यनारीष्वनियतः पुंसोऽर्थो वर्तते ध्रुवम् ।
अत्र चाहितगर्भायाः कस्य पुत्रं वदन्ति तम् ॥
नारद उवाच ।
तीर्थभूतासु नारीषु ज्ञायते योऽभिगच्छति ।
ऋतौ तस्य भवेद्गर्भो यं वा नारी न शङ्कते ॥
मार्कण्डेय उवाच ।
नराणां त्यजतां भार्यां कामक्रोधाद्गुणान्विताम् ।
अप्रसूतां प्रसूतां वा तेषां पृच्छामि निष्कृतिम् ॥
नारद उवाच ।
अपापां त्यजमानस्य साध्वीं मत्वा यमादितः ।
आत्मवंशस्वधर्मो वा त्यजतो निष्कृतिर्न तु ॥
यो नरस्त्यजते भार्या पुष्पिणीमप्रसूतिकाम् ।
स नष्टवंशः पितृभिर्युक्तस्त्यज्येत दैवतैः ॥
भार्यामपत्यसञ्जातां प्रसूतां पुत्रपौत्रिणीम् ।
पुत्रदारपरित्यागी न स प्राप्नोति निष्कृतिम् ॥
एवं हि भार्यां त्यजतां नराणां नास्ति निष्कृतिः ।
नार्हन्ति प्रमदास्त्यक्तुं पुत्रपौत्रप्रतिष्ठिताः ॥
मार्कण्डेय उवाच ।
कीदृशीं संत्यजन्भार्यां नरो दोषैर्न लिप्यते ।
एतदिच्छामि तत्वेन विज्ञातुमृषिसत्तम ॥
नारद उवाच ।
मोक्षधर्मस्थितानां तु अन्योन्यमनुजानताम् ।
भार्यापतीनां मुक्तानामधर्मो न विधीयते ॥
अन्यसङ्गां गतापत्यां शूद्रगां परगामिनीम् ।
परीक्ष्य त्यजमानानां नराणां नास्ति पातकम् ॥
पातकेऽपि तु भर्तव्यौ द्वौ तु माता पिता तथा ॥
मार्कण्डेय उवाच ।
भार्यायां व्यभिचारिण्यां नरस्य त्यजतो रुषा ।
कथं धर्मोऽप्यधर्मो वा भवतीह महामते ॥
नारद उवाच ।
अनृतेऽपि हि सत्ये वा यो नारीं दूषितां त्यजेत् ।
अरक्षमाणः स्वां भार्यां नरो भवति भ्रूणहा ॥
अपत्यहेतोर्या नारी भर्तारमतिलङ्घयेत् ।
लोलेन्द्रियेति सा रक्ष्या न सन्त्याज्या कथञ्चन ॥
नद्यश्च नार्यश्च समस्वभावा नैताः प्रमुञ्चन्ति नरावगाढाः ।
स्रोतांसि नद्यो वहते निपातं नारी रजोभिः पुनरेति शौचम् ॥
एवं नार्यो न दुष्यन्ति व्यभिचारेऽपि भर्तृणाम् ।
मासिमासि भवेद्रागस्ततः शुद्धा भवन्त्युत ॥
मार्कण्डेय उवाच ।
कानि तीर्थानि भगवन्नृणां देहाश्रितानि वै ।
तानि वै शंस भगवन्याथातथ्येन पृच्छतः ॥
सर्वतीर्थेषु सर्वज्ञ किं तीर्थं परमं नृणाम् ।
यत्रोपस्पृश्य पूतो यो नरो भवति नित्यशः ॥
नारद उवाच ।
देवर्षिपितृतीर्थानि ब्राह्मं मध्येऽथं वैष्णवम् ।
नृणां तीर्थानि पञ्चाहुः पाणौ सन्निहितानि वै ॥
आद्यतीर्थं तु तीर्थानां वैष्णवो भाग उच्यते । यत्रोपस्पृश्य वर्णानां चतुर्णां वर्धते कुलम् ।
पितृदैवतकार्याणि वर्धन्ते प्रेत्य चेह च ॥
मार्कण्डेय उवाच ।
नराणां कामवृत्तानां या नार्यो निरवग्रहाः ।
यासामभिग्रहो नास्ति ता मे कथय नारद ॥
नारद उवाच ।
पाशुर्वैश्या नटी गोपी तान्तुकी तुन्नवायिकी ।
नारी किराती शबरी नर्तकी चानवग्रहा ॥
मार्कण्डेय उवाच ।
एतासु जाता नारीषु सर्ववर्णेषु ये सुताः ।
केषु के बन्धुदायादा भवन्ति ऋषिसत्तम ॥
नारद उवाच ।
य एताः परिगृह्णन्ति तेषामेव हि ते सुताः ।
सर्वत्र तु प्रवृत्तासु बीजं नश्यति देहिनाम् ॥
मार्कण्डेय उवाच ।
सर्वस्त्रीषु प्रवृत्ताश्च साधुवेदविवर्जिताः । मानवाः काण्डपृष्ठाश्च वेदमन्त्रबहिष्कृताः ।
नियुक्ता हव्यकव्येषु तेषां दत्तं कथं भवेत् ॥
नारद उवाच ।
नार्हन्ति हव्यकव्यानि सावित्रीवर्जिता द्विजाः ।
व्रात्येष्वन्नप्रदानं तद्यथा शूद्रेषु वै तथा ॥
मार्कण्डेय उवाच ।
धर्मेष्वधिकृतानां तु नराणां मुह्यते मनः ।
कथं न विघ्नो भवति एतदिच्छामि वेदितुम् ॥
नारद उवाच ।
अर्थाश्च नार्यश्च समानमेन- च्छ्रेयांसि पुंसामिह मोहयन्ति ।
रतिप्रमोदात्प्रमदा हरन्ति भोगैर्धनं चाप्युपहन्ति धर्मान् ॥
हव्यं कव्यं च धर्मात्मा सर्वं तच्छ्रोत्रियोऽर्हति ।
दत्तं हि श्रोत्रिये साधौ ज्वलिताग्नाविवाहुतिः ॥
मार्कण्डेय उवाच ।
श्रोत्रियाणां कुले जाता वेदार्थविदितात्मनाम् ।
हित्वा कस्मात्त्रयीं विद्यां वार्तां वृत्तिमुपाश्रिताः ॥
नारद उवाच ।
चातुर्वर्ण्यं पुरा न्यस्तं सुविद्वत्सु द्विजातिषु ।
तस्माद्वर्णौः संविभज्या वृत्तिः सङ्करवर्जिता ॥
ये चान्ये श्रोत्रिया जाताः संस्कृताः पुत्रगृध्नुभिः ।
पूर्वनिर्वाणनिर्वृत्तां जातां वृत्तिमुपाश्रिताः ॥
मार्कण्डेय उवाच ।
असंस्कृताः श्रोत्रियजाः संस्कृता ज्ञानिजाः कथम् ।
नारद उवाच ।
असंस्कारो वैदिकश्च स मान्यः श्रोत्रियात्मजः ।
शुद्धान्वयः श्रोत्रियस्तु सुविद्वद्भिः समोऽन्यथा ॥
अनधीयानपुत्राश्च वेदसंस्कारवर्जिताः ।
तस्मात्ते वेदविज्ञाऽपि विप्राः श्रुतिनिकारिणः ॥
ब्रह्मराशौ पुरा सृष्टा वेदसंस्कारसंस्कृताः ।
तस्मात्तेष्वेव ते जाताः साधवः कुलधारिणः ॥
मार्कण्डेय उवाच ।
स्वयं क्रीतासु प्रेष्यासु प्रसूयन्ते तु ये नराः ।
कस्य नार्यः सुताश्चैव भवन्ति ऋषिसत्तम ॥
नारद उवाच ।
स्वदास्यां यो नरो मोहात्प्रसूयेत स पापकृत् ।
इहाभिनिन्दितः प्रेत्य अपत्यं प्रेष्यतां नयेत् ॥
सा तस्य भार्या पुत्रा ये हव्यकव्यप्रदास्तु ते । तस्या ये बान्धवाः केचिद्विषक्ताः प्रेष्यतां गताः ।
सर्वे तस्यास्तु सम्बन्धा मुच्यन्ते प्रेष्यकर्मसु ॥
एतत्ते कथितं सर्वं यदभिव्याहृतं त्वया ।
अथवा संशयः कश्चिद्भूयः सम्प्रष्टुमर्हसि ॥
मार्कण्डेय उवाच ।
अमिथ्यादर्शनालोके नारदः सर्वकोविदः ।
प्रत्यक्षदर्शी लोकानां स्वयंभुरिव सत्तमः ॥
भीष्म उवाच ।
इति सम्भाष्य ऋषिभिर्मार्कण्डेयो महातपाः । नारदं चापि सत्कृत्य तेन चैवाभिसत्कृतः ।
आमन्त्रयित्वा ऋषिभिः प्रययावाश्रमं मुनिः ॥
ऋषयश्चापि तीर्थानां परिचर्यां प्रचक्रमुः ॥
सुक्षेत्रबीजसंस्कारविशुद्धो ब्रह्मिचर्यया । नित्यनैमित्तिकात्स्नातो मनश्शुद्ध्या च शुद्ध्यति ॥' ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनषष्टितमोऽध्यायः ॥ 59 ॥

श्रीः