अध्यायः 061

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति श्राद्धे निमन्त्रणार्हानर्हब्राह्मणलक्षणादिकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

श्राद्धकाले च दैवे च पित्र्येऽपि च पितामह ।
इच्छामीह त्वयाऽऽख्यातं विहितं यत्सुरर्षिभिः ॥
भीष्म उवाच ।
दैवं पौर्वाह्णिके कुर्यादपराह्णे तु पैतृकम् ।
मङ्गलाचारसम्पन्नः कृतशौचः प्रयत्नवान् ॥
मनुष्याणां तु मध्याह्ने प्रदद्यादुपपत्तिभिः ।
कालहीनं तु यद्दानं तं भागं रक्षसां विदुः ॥
लङ्घितं चावलीढं च लाकपूर्वं च यत्कृतम् ।
रजस्वलाभिदृष्टं च तं भागं रक्षसां विदुः ॥
अवघुष्टं च यद्भुक्तमव्रतेन च भारत ।
परामृष्टं शुना चैव तं भागं रक्षसां विदुः ॥
केशकीटावपतितं क्षुतं श्वभिरवेक्षितम् ।
रुदितं चावधूतं च तं भागं रक्षसां विदुः ॥
निरोङ्कारेण यद्भुक्तं सशस्त्रेण च भारत ।
दुरात्मना च यद्भुक्तं तं भागं रक्षसां विदुः ॥
परोच्छिष्टं च यद्भुक्तं परिभुक्तं च यद्भवेत् ।
दैवे पित्र्ये च सततं तं भागं रक्षसां विदुः ॥
मन्त्रहीनं क्रियाहीनं यच्छ्राद्धं परिविष्यते ।
त्रिभिर्वर्णैर्नरश्रेष्ठ तं भागं रक्षसां विदुः ॥
आज्याहुतिं विना चैव यत्किञ्चित्परिविष्यते ।
दुराचारैश्च यद्भुक्तं तं भागं रक्षसां विदुः ॥
ये भागा रक्षसां प्राप्तास्त उक्ता भरतर्षभ ।
अत ऊर्ध्वं विसर्गस्य परीक्षां ब्राह्मणे शृणु ॥
यावन्तः पतिता विप्रा जडोन्मत्तास्तथैव च ।
दैवे वाऽप्यथ पित्र्ये वा राजन्नार्हन्ति केतनम् ॥
श्वित्री क्लीबश्च कुष्ठी च तता यक्ष्महतश्च यः ।
अपस्मारी च यश्चान्धो राजन्नार्हन्ति केतनम् ॥
चिकित्सका देवलका वृथा नियमधारिणः ।
सोमविक्रयिणश्चैव श्राद्धे नार्हन्ति केतनम् ॥
गायना नर्तकाश्चैव प्लवका वादकास्तथा ।
कथका योधकाश्चैव राजन्नार्हन्ति केतनम् ॥
होतारो वृषलानां च वृषलाध्यापकास्तथा ।
तथा वृषलशिष्याश्च राजन्नार्हन्ति केतनम् ॥
अनुयोक्ता च यो विप्रो अनुयुक्तश्च भारत ।
नार्हतस्तावपि श्राद्धं ब्रह्मविक्रयिणौ हि तौ ॥
अग्रणीर्यः कृतः पूर्वं वर्णावरपरिग्रहः ।
ब्राह्मणः सर्वविद्योऽपि राजन्नार्हति केतनम् ॥
अनग्नयश्च ये विप्रा मृतनिर्यातकाश्च ये ।
स्तेनाश्च पतिताश्चैव राजन्नार्हन्ति केतनम् ॥
अपरिज्ञातपूर्वाश्च गणपूर्वाश्च भारत ।
पुत्रिकापूर्वपुत्राश्च श्राद्धे नार्हन्ति केतनम् ॥
ऋणकर्ता च यो राजन्यश्च वार्धुषिको नरः ।
प्राणिविक्रयवृत्तिश्च राजन्नार्हन्ति केतनम् ॥
स्त्रीपूर्वाः काण्डपृष्ठाश्च यावन्तो भरतर्षभ ।
आजपा ब्राह्मणाश्चैव श्राद्धे नार्हन्ति केतनम् ॥
श्राद्धे दैवे च निर्दिष्टो ब्राह्मणो भरतर्षभ ।
दातुः प्रतिग्रहीतुश्च शृणुष्वानुग्रहं पुनः ॥
चीर्णव्रता गुणैर्युक्ता भवेयुर्येऽपि कर्षकाः ।
सावित्रीज्ञाः क्रियावन्तस्ते राजन्केतनक्षमाः ॥
क्षात्रधर्मिणमप्याजौ केतयेत्कुलजं द्विजम् ।
न त्वेव वणिजं तात श्राद्धे च परिकल्पयेत् ॥
अग्निहोत्री च यो विप्रो ग्रामवासी च यो भवेत् ।
अस्तेनश्चातिथिज्ञश्च स राजन्केतनक्षमः ॥
सावित्रीं जपते यस्तु त्रिकालं भरतर्षभ ।
भिक्षावृत्तिः क्रियावांश्च स राजन्केतनक्षमः ॥
उदितास्तमितो यश्च तथैवास्तमितोदितः ।
अहिंस्रश्चाल्पदोषश्च स राजन्केतनक्षमः ॥
अकल्कको ह्यतर्कश्च ब्राह्मणो भरतर्षभ ।
संसर्ग भैक्ष्यवृत्तिश्च स राजन्केतनक्षमः ॥
अव्रती कितवः स्तेनः प्राणिविक्रयिको वणिक् ।
सनिष्कृतिः पुनः सोमं पीतवान्केतनक्षमः ॥
अर्जयित्वा धनं पूर्वं दारुणैरपि कर्मभिः ।
भवेत्सर्वातिथिः पश्चात्स राजन्केतनक्षमः ॥
ब्रह्मविक्रयनिर्दिष्टं स्त्रिया यच्चार्जितं धनम् ।
अदेयं पितृविप्रेभ्यो यच्च क्लैब्यादुपार्जितम् ॥
क्रियमाणेऽपवर्गे च यो द्विजो भरतर्षभ ।
न व्याहरति यद्युक्तं तस्याधर्मो गवानृतम् ॥
श्राद्धस्य ब्राह्मणः कालः प्राप्तं दधि घृतं तथा ।
सोमक्षयश्च मांसं च यदारण्यं युधिष्ठिर ॥
`मुहूर्तानां त्रयं पूर्वमह्नः प्रातरिति स्मृतम् ।
जपध्यानादिभिस्तस्मिन्विप्रैः कार्यं शुभव्रतम् ॥
सङ्गवाख्यं त्रिभागं तु मध्याह्नस्त्रिमुहूर्तकः ।
लौकिकं सङ्गवेऽर्धं च स्नानादि ह्यथ मध्यमे ॥
चतुर्थमपराह्णं तु त्रिमुहूर्तं तु पित्र्यकम् ।
सायाह्नस्त्रिमुहूर्तं च मध्यमं कविभिः स्मृतम् ॥
चतुर्थ त्वपराह्णाख्ये श्राद्धं कुर्यात्सदा नृप ॥
प्रागुदीचीमुखा विप्राः विश्वेदेवे च दक्षिणाः । श्रावितेषु सुतृप्तेषु पिण्डं दद्यात्सदक्षिणम् ॥'
श्राद्धापवर्गे विप्रस्य दातारो वोस्त्वितीरयेत् ।
क्षत्रियस्यापि यो ब्रूयात्प्रीयन्तां पितरस्त्विति ॥
अपवर्गे तु वैश्यस्य श्राद्धकर्मणि भारत ।
अक्षय्यमभिधातव्यं स्वस्ति शूद्रस्य भारत ॥
पुण्याहवाचनं दैवं ब्राह्मणस्य विधीयते ।
एतदेव निरोङ्कारं क्षत्रियस्य विधीयते ॥
वैश्यस्य दैवे वक्तव्यं प्रीयन्तां देवता इति ।
`गोर्हिसायां चतुर्भागं पूर्वं विप्रातिकेतिनः ॥
वर्णावरेषु भुञ्जानं क्रमाच्छूद्रे चतुर्गुणम् ।
नान्यत्र ब्राह्मणो ब्रूयात्पूर्वं विप्रेण केतितः ॥
अभोजने च दोषः स्याद्वर्जयेच्छूद्रकेतनम् ।
शूद्रान्नरसपुष्टाङ्गो द्विजो नोर्ध्वां गतिं लभेत् ॥
अशुचिर्नैव चाश्नीयान्नास्तिको मानवर्जितः ।
न पूर्वं लङ्घयेल्लोभादेकवर्णोऽपि पार्थिव ॥
विप्राः स्मृता भूमिदेवा उपकुर्वाणवर्जिताः ।' कर्मणामानुपूर्व्येण विदिपूर्वं कृतं शृणु ॥
जातकर्मादिकाः सर्वास्त्रिषु वर्णेषु भारत ।
ब्रह्मक्षत्रे हि मन्त्रोक्ता वैश्यस्य च युधिष्ठिर ॥
विप्रस्य रशना मौञ्जी मौर्वी राजन्यगामिनी ।
बाल्वजी ह्येव वैश्यस्य धर्म एष युधिष्ठिर ॥
`पालाशो द्विजदण्डः स्यादश्वत्थः क्षत्रियस्य तु । औदुम्बरश्च वैश्यस्य धर्म एष युधिष्ठिर ॥'
दातुः प्रतिग्रहीतुश्च धर्माधर्माविमौ शृणु । ब्राह्मणस्यानृतेऽधर्मः प्रोक्तः पातकसंज्ञितः ।
चतुर्गुणः क्षत्रियस्य वैश्यस्याष्टगुणः स्मृतः ॥
नान्यत्र ब्राह्मणोऽश्नीयात्पूर्वं विप्रेण केतितः ।
[यवीयान्पशुहिंसायां तुल्यधर्मा भवेत्स हि ॥
तथा राजन्यवैश्याभ्यां यद्यश्नीयात्तु केतितः ।
यवीयान्पशुहिंसायां भागार्धं समवाप्नुयात् ॥
दैवं वाऽ************** पित्र्यं योऽश्नीयाद्ब्राह्मणादिषु ।] अस्नातो ब्राह्मणो राजंस्तस्याधर्मोऽनृतं स्मृतम् ॥
आशौचो ब्राह्मणो राजन्योऽश्नीयाद्ब्राह्मणादिषु ।
ज्ञानपूर्वमथो लोभात्तस्याधर्मो गवानृतम् ॥
अर्थेनान्येन यो लिप्सेत्कर्मार्थं चैव भारत ।
आमन्त्रयति राजेन्द्र तस्याधर्मोऽनृतं स्मृतम् ॥
अवेदव्रतचारित्रास्त्रिभिर्वर्णैर्युधिष्ठिर ।
मन्त्रवत्परिविष्यन्ते तस्याधर्मो गवानृतम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकषष्टितमोऽध्यायः ॥ 61 ॥

7-61-1 कालादौ विहितं विशेषमिति शेषः ॥ 7-61-3 उपपत्तिभिः आदरादिभिर्युक्तः सन् ॥ 7-61-4 कलिपूर्वं चेति झ. पाठः ॥ 7-61-6 क्षुतं क्षुतेन दूषितम् ॥ 7-61-7 निरोंकारेण अननुज्ञातेन शूद्रेण वा ॥ 7-61-8 परिभुक्तं देवातिथिपितृबालकादीन्वर्जयित्वा भुक्तं स्वेन्नैव ॥ 7-61-10 आज्याहुतिं पात्राभिघारणं विना ॥ 7-61-11 विसर्गस्य ब्राह्मणे दानस्य पात्रभूते ॥ 7-61-12 पतिताः महापातकेन जातिबहिर्भूताः । केतनं निमन्त्रणम् ॥ 7-61-13 श्वित्री श्वेतकुष्ठी । कुष्ठी मण्डलकुष्ठी । यक्ष्महतो महारोगी । अपस्मारी ग्रहग्रस्तः ॥ 7-61-14 देवलका देवार्चनवृत्तिजीविनः । 7-61-15 प्लवकाः क्रीडापराः । कथका वृथालापिनः । योधका मल्लाः ॥ 7-61-16 वृषलानां शूद्राणां होतारो याजकाः ॥ 7-61-17 अनुयोक्ता भृतकाध्यापकः । अनुयुक्तो भृतकाध्येता ॥ 7-61-18 वर्णावरपरिग्रहः शूद्रापतिः ॥ 7-61-20 गणपूर्वा ग्रामण्यः । पुत्रिकापूर्वपुत्राः । अस्यामुत्पन्नः पुत्रो मदीय इति नियमेन या दीयते तस्यां च यो जातः स पुत्रिकापूर्वपुत्रः ॥ 7-61-21 ऋणकर्ता वृद्ध्यार्थं धनप्रयोक्ता ॥ 7-61-22 स्त्रीपूर्वाः स्त्रीजिताः स्त्रीपण्योपजीविनो वा । काण्डपृष्ठो वेश्यापतिः । अजपाः सन्ध्यावन्दनहीनाः ॥ 7-61-23 अनुग्रहं निषिद्धानामपि केनचिद्गुणेनाभ्यनुज्ञानम् ॥ 7-61-25 वणिजं वणिग्वृत्तिम् ॥ 7-61-28 उदित आढ्यः । अस्तमितो दरिद्रः पूर्वं आढ्यः सद्यो दरिद्रः ॥ 7-61-29 अकल्ककोऽदाम्भिकः अपापो वा । अतर्कोऽहैतुकः संसर्गे सङ्गत्यर्हे गृहे ज्ञाते भैक्ष्यवृत्तिः ॥ 7-61-30 कितवो धूर्तः ॥ 7-61-31 सर्वं देवतादिकं अतिथिरेव यस्य स सर्वातिथिः ॥ 7-61-32 ब्रह्म वेदः । क्लैब्यात् दीनभाषणेन मिध्याशपथादिना वा ॥ 7-61-33 अपवर्गे श्राद्धसमाप्तौ युक्तं अस्तुस्वधेत्यादिवचनं गवानृतं अनृतगोशपथस्य पापम् ॥ 7-61-34 सोमक्षयो दर्शः । आरण्यं मृगादिमांसं च यदा प्राप्तं तदैव श्राद्धस्य कालः ॥ 7-61-40 स्वधा वै मुदिता भवेदिति झ.पाठः । स्वधोच्यतामिति प्रदात्रा उक्ते अस्तुस्वधेति ब्राह्मणो वदेत् । एवमुत्तरत्र मुदिता प्रीतिकरी पितॄणामित्यर्थात् ॥ 7-61-42 पुण्याहं भवन्तो ब्रुवन्त्विति यजमानेन प्रोक्ते ओं पुण्याहमस्त्विति ब्राह्मणा ब्रूयुः । दैवं सोङ्कारम् ॥ 7-61-43 दैवे ओङ्कारस्थाने प्रीयन्तां देवताः पुण्याहमस्त्विति प्रतिवदेदित्यर्थः ॥ 7-61-49 रशना भेखला । मौञ्जी मुञ्जमयी । मौर्वी धनुर्ज्या । बाल्बजी बल्बजस्तृणविसेषस्तन्मयी ॥ 7-61-51 धर्मो दातुः । अधर्मः प्रतिग्रहीतुः ॥ 7-61-53 ब्राह्मणेन केतितः सन् यदि यवीयान् भवेत्तर्हि वृथा पशुहिंसायाः पूर्णं पापं प्राप्नुयात् । क्षत्रियादिना केतितः सन् यदि यवीयान्स्यात्तर्हि वृथापशुहिंसाया अर्धं पापं प्राप्नुयाटिति श्लोकद्वयार्थः ॥ 7-61-55 आशौचः जननमरणाशौचवान् ॥ 7-61-56 अर्थेन प्रयोजनेन तीर्थयात्राव्यपदेशेन जीविकाद्यर्थी यो धनं लिप्तेत् यो वा कर्मार्थं मे भिक्षां देहीत्यामन्त्रयति दातारममिमुखीकरोति तस्यापि अनृतं गवानृतमेव स्मृतम् ॥ 7-61-57 वेदव्रतं चारित्रं च येषां नास्ति ते । येन मन्त्रवत् मन्त्रयुक्तं यथा स्यात्तथा श्राद्धे परिविष्यन्ते तस्य ॥

श्रीः