अध्यायः 062

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति दानादिषु पात्रलक्षणानां स्वर्गनरकप्रापकपुण्यपापानां च प्रतिपादनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

पित्र्यं वाऽप्यथवा दैवं दीयते यत्पितामह ।
एतदिच्छाम्यहं ज्ञातुं दत्तं केषु महाफलम् ॥
भीष्म उवाच ।
येषां दाराः प्रतीक्षन्ते सुवृष्टिमिव कर्षकाः ।
उच्छेषपरिशेषं हि तान्भोजय युधिष्ठिर ॥
चारित्रनिरता राजन्ये कृशाः कृशवृत्तयः ॥
अर्थिनश्चोपगच्छन्ति तेषु दत्तं महाफलम् ॥
तद्भक्तास्तद्गृहा राजंस्तद्बलास्तदपाश्रयाः ।
अर्थिनश्च भवन्त्यर्थे तेषु दत्तं महाफलम् ॥
तस्करेभ्यः परेभ्यो वा हृतस्वा भयदुःखिताः ।
अर्थिनो भोक्तुमिच्छन्ति तेषु दत्तं महाफलम् ॥
अकल्ककस्य विप्रस्य रौक्ष्यात्करकृतात्मनः ।
वटवो यस्य भिक्षन्ति तेभ्यो दत्तं महाफलम् ॥
हृतस्वा हृतदाराश्च ये विप्रा देशसम्प्लवे ।
अर्थार्थमभिगच्छन्ति तेभ्यो दत्तं महाफलम् ॥
व्रतोनो नियमस्थाश्च ये विप्राः श्रुतसम्मताः ।
तस्मपाप्त्यर्थमिच्छन्ति तेभ्यो दत्तं महाफलम् ॥
अत्युत्क्रान्ताश्च धर्मेषु पाषण्डस्रमयेषु च ।
कृशप्राणाः कृशघनास्तेभ्यो दत्तं महाफलम् ॥
कृतसर्वस्वहरणा निर्दोषाः प्रभविष्णुभिः ।
स्पृहयन्ति च भुक्त्वाऽन्नं तेषुदत्तं महाफलम् ॥
तपस्विनस्तपोनिष्ठास्तेषां भैक्षचराश्च ये ।
अर्थिनः किञ्चिदिच्छन्ति तेषु दत्तं महाफलम् ॥
महाफलविधिर्दाने श्रुतस्ते भरतर्षभ ।
निरयं येन गच्छन्ति स्वर्गं चैव हि तत्छृणु ॥
`व्रतानां पारणार्थाय गुर्वर्थे यज्ञदक्षिणाम् ।
निर्वेशार्थं च विद्वांसस्तेषां दत्तं महाफलम् ॥
पित्रोश्च रक्षणार्थाय पुत्रदारार्थमेव वा ।
महाव्याधिविमोक्षार्थं तेषु दत्तं महाफलम् ॥
बालाः स्त्रियश्च वाञ्छन्ति सुभक्तं चाप्यसाधनाः ।
स्वर्गमायान्ति दत्त्वैषां निरयान्नोपयान्ति ते ॥' ॥
गुर्वर्थमभयार्थं वा वर्जयित्वा युधिष्ठिर ।
येऽनृतं कथयन्ति स्म ते वा निरयगामिनः ॥
परदाराभिहर्तारः परदाराभिमर्शिनः ।
परदारप्रयोक्तास्ते वै निरयगामिनः ॥
ये परस्वापहर्तारः परस्वानां च नाशकाः ।
सूचकाश्च परेषां ये ते वा निरयगामिनः ॥
प्रपाणां च सभानां च संक्रमाणां च भारत ।
अगाराणां च भेत्तारो नरा निरयगामिनः ॥
अनाथां प्रमदां बालां वृद्धां भीतां तपस्विनीम् ।
वञ्चयन्ति नरा ये च ते वै निरयगामिनः ॥
वृत्तिच्छेदं गृहच्छेदं दारच्छेदं च भारत ।
मित्रच्छेदं तथाऽऽशायास्ते वै निरयगामिनः ॥
सूचकाः सेतुभेत्तारः परवृत्त्युपजीवकाः ।
अकृतज्ञाश्च मित्राणां ते वै निरयगामिनः ॥
पाषण्डा दूषकाश्चैव समयानां च दूषकाः ।
ये प्रत्यवसिताश्चैव ते वै निरयगामिनः ॥
विषमव्यवहाराश्च विषमाश्चैव वृद्धिषु ।
लाभेषु विषमाश्चैव ते वै निरयगामिनः ॥
दूतसंव्यवहाराश्च निष्परीक्षाश्च मानवाः ।
प्राणिहिंसाप्रवृत्ताश्चि ते वै निरयगामिनः ॥
कृताशं कृतनिर्देशं कृतभक्तं कृतश्रमम् ।
भेदैर्ये व्यपकर्षन्ति ते वै निरयगामिनः ॥
पर्यश्नन्ति च ये दारानग्निभृत्यातिथींस्तथा ।
उत्सन्नपितृदेवेज्यास्ते वै निरयगामिनः ॥
वेदविक्रयिणश्चैव वेदानां चैव दूषकाः ।
वेदानां लेखकाश्चैव ते वै निरयगामिनः ॥
चातुराश्रम्यबाह्याश्च श्रुतिबाह्याश्च ये नराः ।
विकर्मभिश्च जीवन्ति ते वै निरयगामिनः ॥
केशविक्रयिका राजन्विषविक्रयिकाश्च ये ।
क्षीरविक्रयिकाश्चैव ते वै निरयगामिनः ॥
ब्राह्मणानां गवां चैव कन्यानां च युधिष्ठिर ।
येऽन्तरायान्ति कार्येषु ते वै निरयगामिनः ॥
शस्त्रविक्रयिकाश्चैव कर्तारश्च युधिष्ठिर ।
शल्यानां धनुषां चैव ते वै निरयगामिनः ॥
शिलाभिः शङ्कुभिर्वाऽपि श्वर्भ्रैर्वा भरतर्षभ ।
ये मार्गमनुरुन्धन्ति ते वै निरयगामिनः ॥
उपाध्यायांश्च भृत्यांश्च भक्तांश्च भरतर्षभ ।
ये त्यजन्त्यविकारांस्त्रींस्ते वै निरयगामिनः ॥
अप्राप्तदमकाश्चैव नासानां वेधकाश्च ये ।
बन्धकाश्च पशूनां ये ते वै निरयगामिनः ॥
अगोप्तारश्च राजानो बलिषड्भागतस्कराः ।
समर्थाश्चाप्यदातारस्ते वै निरयगामिनः ॥
क्षान्तान्दान्तांस्तथा प्राज्ञान्दीर्घकालं सहोषितान् ।
त्यजन्ति कृतकृत्या ये ते वै निरयगामिनः ॥
बालानामथ वृद्धानां दासानां चैव ये नराः ।
अदत्त्वा भक्षयन्त्यग्रे ते वै निरयगामिनः ॥
एते पूर्वं विनिर्दिष्टाः प्रोक्ता निरयगामिनः ।
भागिनः स्वर्गलोकस्य वक्ष्यामि भरतर्षभ ॥
सर्वेष्वेव तु कार्येषु दैवपूर्वेषु भारत ।
हन्ति पुत्रान्पशून्कृत्स्नान्ब्राह्मणातिक्रमः कृतः ॥
दानेन तपसा चैव सत्येन च युधिष्ठिर ।
ये धर्ममनुवर्तन्ते ते नराः स्वर्गगामिनः ॥
शुश्रूषाभिस्तपोभिश्च विद्यामादाय भारत ।
ये प्रतिग्रहनिःस्नेहास्ते नराः स्वर्गगामिनः ॥
भयात्पाषात्तथा बाधाद्दारिद्र्याद्व्याधिधर्षणात् ।
तत्कृते धनमीप्सन्ते ते नराः स्वर्गगामिनः ॥
क्षमावन्तश्च धीराश्च धर्मकार्येषु चोत्थिताः ।
मङ्गलाचारसम्पन्नाः पुरुषाः स्वर्गगामिनः ॥
निवृत्ता मधुमांसेभ्यः परदारेभ्य एव च ।
निवृत्ताश्चैव मद्येभ्यस्ते नराः स्वर्गगामिनः ॥
आश्रमाणां च कर्तारः कुलानां चैव भारत ।
देशानां नगराणां च ते नराः स्वर्गगामिनः ॥
वस्त्राभरणदातारो भक्ष्यपानान्नदास्तथा ।
कुटुम्बानां च भर्तारः पुरुषाः स्वर्गगामिनः ॥
सर्वहिंसानिवृत्ताश्च नराः सर्वसहाश्च ये ।
सर्वस्याश्रयभूताश्च ते नराः स्वर्गगामिनः ॥
मातरं पितरं चैव शुश्रुषन्ति जितेन्द्रियाः ।
भ्रातॄणां चैव सस्नेहास्ते नराः स्वर्गगामिनः ॥
आढ्याश्च बलवन्तश्च यौवनस्थाश्च भारत ।
ये वै जितेन्द्रिया धीरास्ते नराः स्वर्गगामिनः ॥
अपराधिषु सस्नेहा मृदवो मृदुवत्सलाः ।
आराधनसुखाश्चापि पुरुषाः स्वर्गगामिनः ॥
सहस्रपरिवेष्टारस्तथैव च सहस्रदाः ।
त्रातारश्च सहस्राणां ते नराः स्वर्गगामिनः ॥
सुवर्णस्य च दातारो गवां च भरतर्षभ ।
यानानां वाहनानां च ते नराः स्वर्गगामिनः ॥
वैवाहिकानां द्रव्याणां प्रेष्याणां च युधिष्ठिर ।
दातारो वाससां चैव ते नराः स्वर्गगामिनः ॥
विहारावसथोद्यानकूपारामसभाप्रपा ।
वप्राणां चैव कर्तारस्ते नराः स्वर्गगामिनः ॥
निवेशनानां क्षेत्राणां वसतीनां च भारत ।
दातारः प्रार्थितानां च ते नराः स्वर्गगामिनः ॥
रसानां चाथ बीजानां धान्यानां च युधिष्ठिर ।
स्वयमुत्पाद्य दातारः पुरुषाः स्वर्गगामिनः ॥
यस्मिंस्तस्मिन्कुले जाता बहुपुत्राः शतायुषः ।
सानुक्रोशा जितक्रोधाः पुरुषाः स्वर्गगामिनः ॥
एतदुक्तममुत्रार्थं दैवं पित्र्यं च भारत ।
दानधर्मं च दानस्य यत्पूर्वमृषितिः कृतम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विषष्टितमोऽध्यायः ॥ 62 ॥

7-62-2 भोजनपात्रेऽवशिष्टमुच्छेषः तेन सहितं परिशेषं स्थाल्यामवशिष्टं प्रतीक्षन्ते । येषां पाकपर्याप्तमेव धान्यादिकमस्ति न कुसूलादौ तान् भोजय ॥ 7-62-4 तद्भक्ताः चारित्रमेव भक्तोऽन्नं तद्वज्जीवनं येषां ते । तद्गृहाः तदेव गृहे स्त्र्यादौ येषां ते अर्थे प्रयोजने सत्येवार्थिनो भवन्ति न सङ्ग्रहार्थम् ॥ 7-62-6 रौक्ष्यात् दारिद्र्यात् । करे कृतः आत्मेवात्मा जीवनमन्नम् । हस्ते गृहीतान्नस्य वटवः क्षुधार्ताः मह्य देहि मह्यं देवीति याचन्ते तेभ्योऽतिदरिद्रेभ्यः ॥ 7-62-9 पाषण्डानां समयो मर्यादा येषु धर्मेषु तत्र अत्युत्क्रान्ताः अत्यन्तं ततो दूरे स्थिताः ॥ 7-62-10 भुवत्वान्नमेव स्पृहयन्ति न स्वादु । अतएव न चतुर्थी ॥ 7-62-16 असयार्थं, भयनिवृत्तिरूपं प्रयोजनम् ॥ 7-62-17 अभिमर्शितो जाराः । प्रयोक्तारः हर्त्रभिमर्शिनोर्दूताः ॥ 7-62-18 परेषां दोषस्येति शेषः ॥ 7-62-21 आशायाश्छेदमित्येकदेशानुषङ्गः । कुर्वन्तीति शेषः ॥ 7-62-22 सूचकाः राजगामिपैशुन्यवादिनः । सेतुः आर्यमर्यादा ॥ 7-62-23 पाषण्डाः वेदविरोधिनः शाक्यादयः दूषकाः सतां निन्दकाः । समयानां धर्मसङ्केतानाम् । प्रत्यवसिताः आरूढपतिताः ॥ 7-62-26 कृताशं दासमर्थिन वा । कृतनिर्देशं निर्देशः तुभ्यमिदं दास्यामीति प्रतिज्ञा सा कृतायस्मै तम् । भक्तं वेतनम् । व्यपकर्षन्ति षत्युः सकाशाद्दूरीकुर्वन्ति ॥ 7-62-27 पर्यश्नन्ति । परित्यज्याश्नन्ति ॥ 7-62-29 विकर्मभइः स्वस्य निषिद्धैः कर्मभिः ॥ 7-62-30 केशाश्चामरकम्बलादयः ॥ 7-62-32 कर्तारः शस्त्रशल्यादीनाम् ॥ 7-62-35 अप्राप्तानामदान्तानां पशूनाम् । अण्डमर्दनेन बलवीर्ययोर्नाशका अप्राप्तदमकाः ॥ 7-62-40 ये ब्राह्मणातिक्रमं न कुर्वन्ति ते स्वर्गागामिन इत्यर्थः ॥ 7-62-43 कर्तारः पालनकर्तारः ॥ 7-62-51 आराधनेनि इतरान् सुखयनति ते तथा ॥ 7-62-57 दानस्य प्रत्यर्पणस्य । दानं च तद्धर्म येति शोधको धर्मः दैष् शोधन इति धातुः अमुत्रार्थं परलोकफलम् ॥

श्रीः