अध्यायः 064

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति नद्यादितीर्थानां तत्तन्नामविशेषनिर्देशेन तत्सेवनफलप्रतिपादकगौतमाङ्गिरःसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

तीर्थानां दर्शनं श्रेयः स्नानं च भरतर्षभ । श्रवणं च महाप्राज्ञ श्रोतुमिच्छामि तत्त्वतः ।
पृथिव्यां यानि तीर्थानि पुण्यानि भरतर्षभ ।
वक्तुमर्हसि मे तानि श्रोताऽस्मि नियतं प्रभो ॥
भीष्म उवाच ।
इममङ्गिरसा प्रोक्तं तीर्थवंशं महाद्युते ।
श्रोतुमर्हसि भद्रं ते प्राप्स्यसे धर्ममुत्तमम् ॥
तपोवनगतं विप्रमभिगम्य महामुनिम् । पप्रच्छाङ्गिरसं धीरं गौतमः संशितव्रतः ।
अस्ति मे भगवन्कश्चित्तीर्थेभ्यो धर्मसंशयः ।
तत्सर्वं श्रोतुमिच्छामि तन्मे शंस महामुने ॥
उपस्पृश्य फलं किं स्यात्तेषु तीर्थेषु वै मुने ।
प्रेत्यभावे महाप्राज्ञ तद्यथाऽस्ति तथा वद ॥
अङ्गिरा उवाच ।
सप्ताहं चन्द्रभागां वै वितस्तामूर्मिमालिनीम् ।
विगाह्य वै निराहारो निर्मलो मुनिवद्भवेत् ॥
काश्मीरमण्डले नद्यो याः पतन्ति महास्वनम् ।
ता नदीः सिन्धुमासाद्य शीलवान्स्वर्गमाप्नुयात् ॥
पुष्करं च प्रभासं च नैमिषं सागरोदकम् ।
देविकामिन्द्रमार्गं च स्वर्णबिन्दुं विगाह्य च ॥
विबोध्यते विमानस्थः सोऽप्सरोभिरभिष्टुतः ।
हिरण्यबिन्दुमालक्ष्य प्रयतश्चाभिवाद्य च ॥
कुशेशये च देवत्वं धूयते तस्य किल्बिषम् ।
इन्द्रतोयां समासाद्य गन्धमादनसन्निधौ ॥
करतोयां कुरुङ्गे च त्रिरात्रोपोषितो नरः ।
अश्वमेधमवाप्नोति विगाह्य प्रयतः शुचिः ॥
गङ्गाद्वारे कुशावर्ते बिल्वके नीलपर्वते ।
तथा कनखले स्नात्वा धूतपाप्मा दिवं व्रजेत् ॥
अपां ह्रद उपस्पृश्य वाजिमेधफलं लभेत् ।
ब्रह्मचारी जितक्रोधः सत्यसन्धस्त्वहिंसकः ॥
यत्र भागीरथी गङ्गा वहते दिशमुत्तरम् ।
महेश्वरस्य त्रिस्थाने यो नरस्त्वभिषिच्यते ॥
एकमासं निराहारः स पश्यति हि देवताः ।
सप्तगङ्गे त्रिगङ्गे च इन्द्रमार्गे च तर्पयन् ॥
अर्थान्वै लभते भोक्तुं यो नरो जायते पुनः ।
महाश्रम उपस्पृश्य योऽग्निहोत्रपरः शुचिः ॥
एकमासं निराहारः सिद्धिं मासेन स व्रजेत् ।
महाह्रद उपस्पृश्य भृगुतुङ्गे त्वलोलुपः ॥
त्रिरात्रोपोषितो भूत्वा मुच्यते ब्रह्महत्यया ।
कन्याकूप उपस्पृश्य बलाकायां कृतोदकः ॥
देवेषु लभते कीर्तिं यशसा च विराजते ॥
देविकायामुपस्पृश्य तथा सुन्दरिकाह्रदे ।
अश्विन्यां रूपवर्चस्कं प्रेत्य वै लभते नरः ॥
महागङ्गामुपस्पृश्य कृत्तिकाङ्गारके तथा ।
पक्षमेकं निराहारः स्वर्गमाप्नोति निर्मलः ॥
वैमानिक उपस्पृश्य किङ्किणीकाश्रमे तथा ।
निवासेऽप्सरसां दिव्ये कामचारी महीयते ॥
कालिकाश्रममासाद्य विपाशायां कृतोदकः ।
ब्रह्मचारी जितक्रोधस्त्रिरात्रं मुच्यते भवात् ॥
आश्रमे कृत्तिकानां तु स्नात्वा यस्तर्पयेत्पितॄन् ।
तोषयित्वा महादेवं निर्मलः स्वर्गमाप्नुयात् ॥
महाकूपमुपस्पृश्य त्रिरात्रोपोषितः शुचिः ।
त्रसानां स्थावराणां च द्विपदानां भयं त्यजेत् ॥
देवदारुवने स्नात्वा धूतपाप्मा कृतोदकः ।
देवशब्दमवाप्नोति सप्तरात्रोषितः शुचिः ॥
शरस्तम्बे कुशस्तम्बे द्रोणशर्मपदे तथा ।
अपांप्रपतनासेवी सेव्यते सोप्सरोगणैः ॥
चित्रकूटे जनस्थाने तथा मन्दाकिनीजले ।
विगाह्य वै निराहारो राजलक्ष्म्या निषेव्यते ॥
श्यामायास्त्वाश्रमं गत्वा उषित्वा चाभिषिच्य च ।
एकपक्षं निराहारस्त्वन्तर्धानफलं लभेत् ॥
कौशिकीं तु समासाद्य वायुभक्षस्त्वलोलुपः ।
एकविंशतिरात्रेण स्वर्गमारोहते नरः ॥
मतङ्गवाप्यां यः स्नायादेकरात्रेण सिध्यति ।
विगाहति ह्यनालम्बमन्धकं वै सनातनम् ॥
नैमिषे स्वर्गतीर्थे च उपस्पृश्य जितेन्द्रियः ।
फलं पुरुषमेधस्य लभेन्मासं कृतोदकः ॥
गङ्गाह्रद उपस्पृस्य तथा चैवोत्पलावने ।
अश्वमेघमवाप्नोति तत्र मासं कृतोदकः ॥
गङ्गायमुनयोस्तीर्थे तथा कालञ्जरे गिरौ ।
दशाश्वमेधानाप्नोति तत्र मासं कृतोदकः ॥
यष्टिह्रद उपस्पृश्य चान्नदानाद्विशिष्यते ॥
दशतीर्थसहस्राणि तिस्रः कोट्यस्तथाऽपराः ।
समागच्छन्ति माघ्यां तु प्रयागे भरतर्षभ ॥
माघमासं प्रयागे तु नियतः संशितव्रतः ।
स्नात्वा तु भरतश्रेष्ठ निर्मलः स्वर्गमाप्नुयात् ॥
मरुद्गण उपस्पृश्य पितॄणामाश्रमे शुचिः ।
वैवस्वतस्य तीर्थे च तीर्थभूतो भवेन्नरः ॥
तथा ब्रह्मसरो गत्वा भागीरथ्यां कृतोदकः ।
एकमासं निराहारः सोमलोकमवाप्नुयात् ॥
उत्पातके नरः स्नात्वा अष्टावक्रे कृतोदकः ।
द्वादशाहं निराहारो नरमेधफलं लभेत् ॥
अश्मपृष्ठे गयायां च निरविन्दे च पर्वते । तृतीयां क्रौञ्चपद्यां च ब्रह्महत्यां विशुध्यते
कलविङ्क उपस्पृश्य विद्याच्च बहुशो जलम् ।
अग्नेः पुरे नरः स्नात्वा अग्निकन्यापुरे वसेत् ॥
करवीरपुरे स्नात्वा विशालायां कृतोदकः ।
देवह्रद उपस्पृश्य ब्रह्मभूतो विराजते ॥
पुनरावर्तनन्दां च महानन्दां च सेव्य वै ।
नन्दने सेव्यते दान्तस्त्वप्सरोभिरहिंसकः ॥
उर्वशीं कृत्तिकायोगे गत्वा चैव समाहितः ।
लौहित्ये विधिवत्स्नात्वा पुण्डरीकफलं लभेत् ॥
रामह्रद उपस्पृश्य विपाशायां कृतोदकः ।
द्वादशाहं निराहारः कल्मषाद्विप्रमुच्यते ॥
महाह्रद उपस्पृश्य शुद्धेन मनसा नरः ।
एकमासं निराहारो जमदग्निगतिं लभेत् ॥
विन्ध्ये संताप्य चात्मानं सत्यसन्धस्त्वहिंसकः ।
विनयात्तप आस्थाय मासेनैकेन सिध्यति ॥
`मुण्डे ब्रह्मगवा चैव निरिचिं देवपर्वतम् । देवह्रदमुपस्पृश्य ब्रह्मभूतो विराजते ।
कुमारपदमास्थाय मासेनैकेन शुध्यति ॥'
नर्मदायामुपस्पृश्य तता शूर्पारकोदके ।
एकपक्षं निराहारो राजपुत्रो विधीयते ॥
जम्बूमार्गे त्रिभिर्मासैः संयतः सुसमाहितः ।
अहोरात्रेण चैकेन सिद्धिं समधिगच्छति ॥
कोकामुखे विगाह्याथ गत्वा चाञ्जलिकाश्रमम् ।
शाकभक्षश्चीरवासाः कुमारीर्विन्दते दश ॥
वैवस्वतस्य सदनं न स गच्छेत्कदाचन ।
यस्य कन्याह्रद वासो देवलोकं स गच्छति ॥
प्रभासे त्वेकरात्रेण अमावास्यां ममाहितः ।
सिद्ध्यते तु महाबाहो यो नरो जायतेऽमरः ॥
उज्जानक उपस्पृस्य आर्ष्टिषेणस्य चाश्रमे ।
पिङ्गायाश्चाश्रमे स्नात्वा सर्वपापैः प्रमुच्यते ॥
कुल्यायां समुपस्पृश्य जप्त्वा चैवाघमर्षणम् ।
अश्वमेधमवाप्नोति त्रिरात्रोपोषितो नरः ॥
पिण्डारक उपस्पृश्य एकरात्रोषितो नरः ।
अग्निष्टोममवाप्नोति प्रभातां शर्वरीं शुचिः ॥
तथा ब्रह्मसरो गत्वा धर्मारण्योपशोभितम् ।
पुण्डरीकमवाप्नोति उपस्पृश्य नरः शुचिः ॥
मैनाके पर्वते स्नात्वा तथा सन्ध्यामुपास्य च ।
कामं जित्वा च वै मासं सर्वयज्ञफलं लभेत् ॥
कालोदकं नन्दिकुण्डं तथा चोत्तरमानसम् ।
अभ्येत्य योजनशताद्भूणहा विप्रमुच्यते ॥
नन्दीश्वरस्य मूर्ति तु दृष्ट्वा मुच्येत किल्बिषैः ।
स्वर्गमार्गे नरः स्नात्वा ब्रह्मलोकं स गच्छति ॥
विख्यातो हिमवान्पुण्यः शंकरश्वशुरो गिरिः ।
आकरः सर्वरत्नानां सिद्धचारणसेवितः ॥
`दर्शनाद्गमनात्पूतो भवेदनशनादपि ।' शरीरमुत्सृजेत्तत्र विधिपूर्वमनाशके ॥
अध्रुवं जीवितं ज्ञात्वा यो वै वेदान्तगो द्विजः । अभ्यर्च्य देवतास्तत्र नमस्कृत्य मुनींस्तथा ।
ततः क्रोधं च लोभं च यो जित्वा तीर्थमावसेत् ।
न तेन किञ्चिन्न प्राप्तं तीर्थाभिगमनाद्भवेत् ॥
यान्यगम्यानि तीर्थानि दुर्गाणि विषमाणि च ।
मनसा तानि गम्यानि सर्वतीर्थसमीक्षया ॥
इदं मेध्यमिदं पुण्यमिदं स्वर्ग्यमनुत्तमम् ।
इदं रहस्यं वेदानामाप्लाव्यं पावनं तथा ॥
इदं दद्याद््द्विजातीनां साधोरात्महितस्य च । सुहृदां च जपेत्कर्णे शिष्यस्यानुगतस्य च ।
दत्तवान्गौतमस्यैतदङ्गिरा वै महातपाः ।
अङ्गिराः समनुज्ञातः काश्यपेन च धीमता ॥
महर्षीणामिदं जप्यं पावनानां तथोत्तमम् ।
जपंश्चाभ्युत्थितः शश्वन्निर्मलः स्वर्गमाप्नुयात् ॥
इदं यश्चापि शृणुयाद्रहस्यं त्वङ्गिरोमतम् ।
उत्तमे च कुले जन्म लभेञ्जातीश्च संस्मरेत् ॥ ॥

इति श्रीमन्महाभारते अनुसासनपर्वणि दानधर्मपर्वणि चतुःषष्टितमोऽध्यायः ॥ 64 ॥

7-64-3 तीर्थवंशं तीर्थसंघम् ॥ 7-64-5 तीर्थेभ्यः तीर्थान्युद्दिश्य ॥ 7-64-6 प्रेत्यभावे जन्मान्तरे ॥ 7-64-7 मुनिवद्भवेत् मुनीनां गतिं लभेतेत्यर्थः ॥ 7-64-8 सिंधुं समुद्रं पतन्तीत्यन्वयः ॥ 7-64-9 स्वर्गबिन्दुं विगाह्येति थ.ध. पाठः ॥ 7-64-21 रूपवर्चसोः समाहारः रूपवर्चस्कम् । वर्चस्तेजः ॥ 7-64-26 त्रसानां जङ्गमानाम् ॥ 7-64-30 अन्तर्धानफलं गन्धर्वादिभोगम् ॥ 7-64-35 कालाञ्जने गिराविति थ.ध.पाठः ॥ 7-64-37 समागच्छन्त्यगावास्यामिति थ.पाठ ॥ 7-64-43 उर्वशीं उर्वशीतीर्थम् । कृत्तिकायोगे कार्तिक्यां पौर्णमास्याम् ॥ 7-64-68 इदं तीर्थसेवनम् । मेध्यं यज्ञफलप्रदम् । पुण्यं पापघ्नम् ॥ 7-64-70 समनुज्ञातः प्रार्थितः । काश्यपेन एतद्विज्ञातुकामेनेति शेषः ॥

श्रीः