अध्यायः 002

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरंप्रति गार्हस्थ्याश्रयणेनातिथिसत्कारस्य श्रेयःसाधनतायां सुदर्शनोपाख्यानकथनम् ॥ 1 ॥

युधिष्ठिर उवाच ।
पितामह महाप्राज्ञ सर्वशास्त्रविशारद ।
श्रुतं मे महदाख्यानमिदं मतिमतांवर ॥
भूयस्तु श्रोतुमिच्छामि धर्मार्थसहितं नृप ।
कथ्यमानं त्वया किञ्चित्तन्मे व्याख्यातुमर्हसि ॥
केन मृत्युर्गृहस्थेन धर्ममाश्रित्य निर्जितः ।
इत्येतद्धर्ममाचक्ष्व तत्त्वेनापि च पार्थिव ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
यथा मृत्यर्गृहस्थेन धर्ममाश्रित्य निर्जितः ॥
मनोः प्रजापते राजन्निक्ष्वाकुरभवत्सुतः ।
तस्य पुत्रशतं जज्ञे नृपतेः सूर्यवर्चसः ॥
दशमस्तस्य पुत्रस्तु दशाश्वो नाम भारत ।
माहिष्मत्यामभूद्राजा धर्मात्मा सत्यविक्रमः ॥
दशाश्वस्य सुतस्त्वासीद्राजा परमधार्मिकः ।
सत्ये तपसि दाने च यस्य नित्यं रतं मनः ॥
मदिराश्व इति ख्यातः पृथिव्यां पृथिवीपतिः ।
धनुर्वेदे च वेदे च निरतो योऽभवत्सदा ॥
मदिराश्वस्य पुत्रस्तु द्युतिमान्नाम पार्थिवः ।
महाभागो महातेजा महासत्वो महाबलः ॥
पुत्रो द्युतिमतस्त्वासीद्राजा परमधार्मिकः । सर्वलोकेषु विख्यातः सुवीरो नाम नामतः ।
धर्मात्मा कोशवांश्चापि देवराज इवापरः ॥
सुवीरस्य तु पुत्रोऽभूत्सर्वसङ्ग्रामदुर्जयः ।
दुर्जयो नाम विख्यातः सर्वशस्त्रभृतांवर ॥
दुर्जयस्येन्द्रवपुषः पुत्रोऽग्निसदृशद्युतिः ।
दुर्योधनो नाम महान्राजा राजर्षिसत्तमः ॥
तस्येन्द्रसमवीर्यस्य सङ्ग्रामेष्वनिवर्तिनः ।
विषये वासवस्तस्य सम्यगेव प्रवर्षति ॥
रत्नैर्धनैश्च पशुभिः सस्यैश्चापि पृथग्विधैः ।
नगरं विषयश्चास्य प्रतिपूर्णस्तदाऽभवत् ॥
न तस्य विषये चाभूत्कृपणो नापि दुर्गतः ।
व्याधितो वा कृशो वाऽपरि तस्मिन्नाभून्नरः क्वचित् ॥
सुदक्षिणो मधुरवागनसूयुर्जितेन्द्रियः ।
धर्मात्मा चानृशंसश्च विक्रान्तोऽथाविकत्थनः ॥
यज्वा च दान्तो मेधावी ब्रह्मण्यः सत्यसङ्गरः ।
न चावमन्ता दाता च वेदवेदाङ्गपारगः ॥
तं नर्मदा देवनदी पुण्या शीतजला शिवा ।
चकमे पुरुषव्याघ्रं स्वेन भावेन भारत ॥
तस्यां जज्ञे तदा नद्यां कन्या राजीवलोचना ।
नाम्ना सुदर्शना राजन्रूपेण च सुदर्शना ॥
तादृग्रूपा न नारीषु भूतपूर्वा युधिष्ठिर ।
दुर्योधनसुता यादृगभवद्वरवर्णिनी ॥
तामग्निश्चकमे साक्षाद्राजकन्यां सुदर्शनाम् ।
स्वरूपं दीप्तिमत्कृत्वा शरदर्कसमद्युति ॥
सा चाग्निशरणे राज्ञः शुश्रूषाकृतनिश्चया ।
नियुक्ता पितृसन्देशादारिराधयिषुः शिखिम् ॥
तस्या मनोहरं रूपं दृष्ट्वा देवो हुताशनः ।
मन्मथेन समादिष्टः पत्नीत्वे यतते मिथः ॥
भज मामनवद्याङ्गि कामात्कमललोचने ।
रम्भोरु मृगशावाक्षि पूर्णचन्द्रनिभानने ॥
तवेदं पद्मपत्राक्षं मुखं दृष्ट्वा मनोहरम् ।
भ्रूलताललितं कान्तमनङ्गो बाधते हि माम् ॥
ललाटं चन्द्ररेखाभं शिरोरुहविभूषितम् ।
दृष्ट्वा ते पत्रलेखान्तमनङ्गो बाधते भृशम् ॥
बालातपेन तुलितं सस्वेदपुलकोद्गमम् । बिम्बाधरोष्ठवदनं विबुद्धमिव पङ्कजम् ।
अतीव चारुविभ्रान्तं मदमावहते मम ॥
दन्तप्रकाशनियता वाणी तव सुरक्षिता ।
ताम्रपल्लवसंकाशा जिह्वेयं मे मनोहरा ॥
समाः स्निग्धाः सुजाताश्च सहिताश्च द्विजास्तव ।
द्विजप्रिये प्रसीदस्व भज मां सुभगा ह्यसि ॥
मनोज्ञं सुकृतापाङ्गं मुखं तव मनोहरम् ।
स्तनौ ते संहतौ भीरु हाराभरणभूषितौ ॥
पक्वबिल्वप्रतीकाशौ कर्कशौ सङ्गमक्षमौ ।
गम्भीरनाभिसुभगे भज मां वरवर्णिनि ॥
भीष्म उवाच ।
सैवमुक्ता विरहिते पावकेन महात्मना ।
ईषदाकम्पहृदया व्रीडिता वाक्यमब्रवीत् ॥
नलु नाम कुलीनानां कन्यकानां विशेषतः ।
माता पिता प्रभवतः प्रदाने बान्धवाश्च ये ॥
पाणिग्रहणमन्त्रैश्च हुते चैव विभावसौ । सतां मध्ये निविष्टायाः कन्यायाः शरणं पतिः
साऽहं नात्मवशा देव पितरं वरयस्व मे ।
अथ नातिचिराद्राजा कालाद्दुर्योधनस्तदा । यज्ञसम्भारनिपुणान्मन्त्रीनाहूय चोक्तवान् ।
यज्ञं यक्ष्येऽहमिति वै सम्भारान्सम्भ्रियन्तु मे ॥
ततः समाहिते तस्य यज्ञे ब्राह्मणसत्तमैः ।
विप्ररूपी हुतवहो नृपं कन्यामयाचत ॥
न तु राजा प्रदानाय तस्मै भावमकल्पयत् । दरिद्रश्चासवर्णश्च ममायमिति पार्थिवः ।
इति तस्मै न वै कन्यां दित्सां चक्रे नराधिपः ॥
अथ दीक्षामुपेतस्य यज्ञे तस्य महात्मनः ।
आहितो हवनार्थाय वेद्यामग्निः प्रणश्यत ॥
ततः स भीतो नृपतिर्भृशं प्रव्यथितेन्द्रियः । मन्त्रिणो ब्राह्मणांश्चैव पप्रच्छ किमिदं भवेत् ।
यज्ञे समिद्धो भगवान्नष्टो मे हव्यवाहनः ॥
सम्मन्त्रकुशलैस्तैस्तैर्ब्राह्मणैर्वेदपारगैः ।
ऋत्विग्भिर्मन्त्रकुशलैर्यज्यतां वा हुताशनः ॥
अथ ऋक्सामयजुषां ब्राह्मणैर्वेदपारगैः ।
वेदतत्वार्थकुशलैस्ततः सोमपुरस्करैः ॥
गुह्यैश्च नामभिः सर्वैराहूतो हव्यवाहनः ।
स्वरूपं दीप्तिमत्कृत्वा शरदर्कसमद्युतिः ॥
ततो महात्मा तानाह दहनो ब्राह्मणर्षभान् ।
वरयाम्यात्मनोऽर्थाय दुर्योधनसुतामिति ॥
ततस्ते कल्यमुत्थाय तस्मै राज्ञे न्यवेदयन् ।
ब्राह्मणा विस्मिताः सर्वे यदुक्तं चित्रभानुना ॥
ततः स राजा तच्छ्रुत्वा वचनं ब्रह्मवादिनाम् ।
अवाप्य परमं हर्षं तथेति प्राह बुद्धिमान् ॥
अयाचत च तं शुल्कं भगवन्तं विभावसुम् ।
नित्यं सान्निध्यमिह ते चित्रभानो भवेदिति ॥
तमाह भगवानग्निरेवमस्त्विति पार्थिवम् ।
ततः सान्निध्यमद्यापि माहिष्मत्यां विभावसोः ॥
दृष्टं हि सहदेवेन दिशं विजयता च तत् ।
ततस्तां समलङ्कृत्य कन्यामहतवाससम् ।
ददौ दुर्योधनो राजा पावकाय महात्मने ॥
प्रतिजग्राह चाग्निस्तु राजकन्यां सुदर्शनाम् ।
विधिना वेददृष्टेन वसोर्धारामिवाध्वरे ॥
तस्या रूपेण शीलेन कुलेन वपुषा श्रिया ।
अभवत्प्रीतिमानग्निर्गर्भं चास्यां समादधे ॥
तस्याः समभवत्पुत्रो नाम्नाऽग्नेयः सुदर्शनः ॥
सुदर्शनस्तु रूपेण पूर्णेन्दुसदृशोपमः ।
शिशुरेवाध्यगात्सर्वं परं ब्रह्म सनातनम् ॥
अथौघवान्नाम नृपो नृगस्यासीत्पितामहः ।
तस्याप्योघवती कन्या पुत्रश्चौघरथोऽभवत् ॥
तामोघवान्ददौ तस्मै स्वयमोघवतीं सुताम् ।
सुदर्शनाय विदुषे भार्यार्थे देवरूपिणीम् ॥
स गृहस्थाश्रमरतस्तया सह सुदर्शनः ।
कुरुक्षेत्रेऽवसद्राजन्नोघवत्या समन्वितः ॥
गृहस्थश्चावजेष्यामि मृत्युमित्येव स प्रभो ।
प्रतिज्ञामकरोद्धीमान्दीप्ततेजा विशाम्पते ॥
तामेवौघवतीं राजन्स पावकसुतोऽब्रवीत् ।
अतिथेः प्रतिकूलं ते न कर्तव्यं कथञ्चन ॥
येनयेन च तुष्येत नित्यमेव त्वयाऽतिथिः ।
अप्यात्मनः प्रदानेन न ते कार्या विचारणा ॥
एतद्व्रतं मम सदा हृदि सम्परिवर्तते ।
गृहस्थानां च सुश्रोणि नातिथेर्विद्यते परम् ॥
प्रमाणं यदि वामोरु वचस्ते मम शोभने ।
इदं वचनमव्यग्रा हृदि त्वं धारयेः सदा ॥
निष्क्रान्ते मयि कल्याणि तथा सन्निहितेऽनघे ।
नातिथिस्तेऽवमन्तव्यः प्रमाणं यद्यहं तव ॥
तमब्रवीदोघवती तथा मूर्ध्नि कृताञ्जलिः ।
न मे त्वद्वचनात्किञ्चिन्न कर्तव्यं कथञ्चन ॥
जिगीषमाणस्तु गृहे तदा मृत्युः सुदर्शनम् ।
पृष्ठतोऽन्वगमद्राजन्रन्ध्रान्वेषी तदा सदा ॥
इध्मार्थं तु गते तस्मिन्नग्रिपुत्रे सुदर्शने ।
अतिधिर्ब्राह्मणः श्रीमांस्तामाहौघवतीं तदा ॥
आतिथ्यं कृतमिच्छामि त्वयाऽद्य वरवर्णिनि ।
प्रमाणं यदि धर्मस्ते गृहस्थाश्रमसम्मतः ॥
इत्युक्ता तेन विप्रेणि राजपुत्री यशस्विनी ।
विधिना प्रतिजग्राह वेदोक्तेन विशांपते ॥
आसनं चैव पाद्यं च तस्मै दत्त्वा द्विजातये ।
प्रोवाचौघवती विप्रं केनार्थः किं ददामि ते ॥
तामब्रवीत्ततो विप्रो राजपुत्रीं सुदर्शनाम् ।
त्वया ममार्थः कल्याणि निर्विशङ्कैतदाचर ॥
यदि प्रमाणं धर्मस्ते गृहस्थाश्रमसम्मतः ।
प्रदानेनात्मनो राज्ञि कर्तुमर्हसि मे प्रियम् ॥
स तया छन्द्यमानोऽन्यैरीप्सितैर्नृपकन्यया ।
नान्यमात्मप्रदानात्स तस्या वव्रे परं द्विजः ॥
सा तु राजसुता स्मृत्वा भर्तुर्वचनमादितः ।
तथेति लज्जमाना सा तमुवाच द्विजर्षभम् ॥
ततो विहस्य विप्रर्षिः सा चैवोपविवेश ह ।
संस्मृत्य भर्तुर्वचनं गृहस्थाश्रमकाङ्क्षिणः ॥
अथेध्मान्समुपादाय स पावकिरुपागमत् ।
मृत्युना रौद्रभावेन नित्यं बन्धुरिवान्वितः ॥
ततस्त्वाश्रममागम्य स पावकसुतस्तदा ।
तां व्याजहारौघवतीं क्वासि यातेति चासकृत् ॥
तस्मै प्रतिवचः सा तु भर्त्रे न प्रददौ तदा ।
कराभ्यां तेन विप्रेण स्पृष्टा भर्तृव्रता सती ॥
उच्छिष्टाऽस्मीति मन्वाना लज्जिता भर्तुरेव च ।
तूष्णींभूताऽभवत्साध्वी विप्रकोपाच्च शङ्किता ॥
अथ तां किन्विति पुनः प्रोवाच स सुदर्शनः ।
क्व सा साध्वी क्व सायाता गरीय किमतो मम ॥
पतिव्रता सत्यशीला नित्यं चैवार्जवे रता ।
कथं न प्रत्युदेत्यद्य स्मयमाना यथापुरम् ॥
उटजस्थस्तु तं विप्रः प्रत्युवाच सुदर्शनम् ।
अतिथिं विद्धि सम्प्राप्तं ब्राह्मणं पावके च माम् ॥
अनया छन्द्यमानोऽहं भार्यया तव सत्तम ।
तैस्तैरतिथिसत्कारैर्ब्रह्मन्नेषा वृता मया ॥
आत्मप्रदानविधिना मामर्चति शुभानना ।
अनूरूपं यदत्रान्यत्तद्भवान्कर्तुमर्हति ॥
कूटमुद्गरहस्तस्तु मृत्युस्तं वै समन्वगात् ।
हीनप्रतिज्ञमत्रैवं वधिष्यामीति चिन्तयन् ॥
सुदर्शनस्तु मनसा कर्मणा चक्षुषा गिरा ।
त्यक्तेर्ष्यस्त्यक्तमन्युश्च स्मयमानोऽब्रवीदिदम् ॥
सुरतं तेऽस्तु विप्राग्र्य प्रीतिर्हि परमा मम ।
गृहस्थस्य हि धर्मोऽग्र्यः सम्प्राप्तातिथिपूजनम् ॥
अतिथिः पूजितो यस्य गृहस्थस्य तु गच्छति ।
नान्यस्तस्मात्परो धर्म इति प्राहुर्मनीषिणः ॥
प्राणाश्च मम दाराश्च यच्चान्यद्विद्यते वसु ।
अतिथिभ्यो मया देयमिति मे व्रतमाहितम् ॥
निःसन्दिग्धं यथा वाक्यमेतन्मे समुदाहृतम् ।
तेनाहं विप्र सत्येन स्वयमात्मानमालभे ॥
पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ।
बुद्धिरात्मा मनः कालो दिशश्चैव गुणा दश ॥
नित्यमेव हि पश्यन्ति देहिनां देहसंश्रिताः ।
सुकृतं दुष्कृतं चापि कर्म कर्मवतांवर ॥
यथैषा नानृता वाणी मयाऽद्य समुदीरिता ।
तेन सत्येन मां देवाः पालयन्तु दहन्तु वा ॥
ततो नादः समभवद्दिक्षु सर्वासु भारत ।
असकृत्सत्यमित्येवं नैतन्मिथ्येति सर्वतः ॥
उटजात्तु ततस्तस्मान्निश्चक्राम स वै द्विजः ।
वपुषा द्यां च भूमिं च व्याप्य वायुरिवोद्यतः ॥
स्वरेण विप्रः शैक्षेण त्रींल्लोकाननुनादयन् ।
उवाच चैनं धर्मज्ञं पूर्वमामन्त्र्य नामतः ॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासार्थं तवानघ ।
प्राप्तः सत्यं च ते ज्ञात्वा प्रीतिर्मे परमा त्वयि ॥
विजितश्च त्वया मृत्युर्योऽयं त्वामनुगच्छति ।
रन्ध्रान्वेषी तव सदा त्वया धृत्या वशीकृतः ॥
न चास्ति शक्तिस्त्रैलोक्ये कस्य चित्पुरुषोत्तम ।
पतिव्रतामिमां साध्वीं तवोद्वीक्षितुमप्युत ॥
रक्षिता त्वद्गुणैरेषा पातिव्रत्यगुणैस्तथा ।
अधृष्या यदियं ब्रूयात्तथा तन्नान्यथा भवेत् ॥
एषा हि तपसा स्वेन संयुक्ता ब्रह्मवादिनी ।
पावनार्थं च लोकस्य सरिच्छ्रेष्ठा भविष्यति ॥
अर्धेनौघवती नाम त्वामर्धेनानुयास्यति । शरीरेण महाभागा योगो ह्यस्या वशे स्थितः ।
अनया सह लोकांश्च गन्ताऽसि तपसार्जितान् ॥
यत्र नावृत्तिमभ्येति शाश्वतांस्ताननुत्तमान् ।
अनेन चैव देहेन लोकांस्त्वमभिपत्स्यसे ॥
निर्जितश्च त्वया मृत्युरैश्वर्यं च तवोत्तमम् । पञ्चभूतान्यतिक्रान्तः स्ववीर्याच्च मनोजवः ।
गृहस्थधर्मेणानेन कामक्रोधौ च ते जितौ ॥ स्नेहो रागश्च तन्द्री च मोहो द्रोहश्च केवलः ।
तव शुश्रूषया राजन्राजपुत्र्या च निर्जिताः ॥
भीष्म उवाच ।
शुक्लानां तु सहस्रेण वाजिनां रथमुत्तमम् ।
युक्तं प्रगृह्य भगवान्वासवोप्याजगाम तम् ॥
मृत्युरात्मा च लोकाश्च जिता भूतानि पञ्च च । बुद्धिः कालो मदो मोहः कामक्रोधौ तथैव च
तस्माद्गृहाश्रमस्थस्य नान्यद्दैवतमस्ति वै ।
ऋतेऽतिथिं नरव्याघ्र मनसैतद्विचारय ॥
अतिथिः पूजितो यद्धि ध्यायते मनसा शुभम् ।
न तत्क्रतुशतेनापि तुल्यमाहुर्मनीपिण ॥
सुदत्तं सुकृतं वाऽपि कम्पयेदप्यनर्चितः ॥
पात्रं त्वतिथिमासाद्य शीलाढ्यं यो न पूजयेत् ।
स दत्त्वा तुष्कृतं तस्मै पुण्यमादाय गच्छति ॥
एतत्ते कथितं पुत्र मयाऽऽख्यानमनुत्तमम् ।
यथा हि विजितो मृत्युर्गृहस्थेन पुराऽभवत् ॥
धन्यं यशस्यमायुष्यमिदमाख्यानमुत्तमम् ।
बुभूषताऽभिमन्तव्यं सर्वदुश्चरितापहम् ॥
इदं यः कथयेद्विद्वानहन्यहनि भारत ।
सुदर्शनस्य चरितं पुण्याँल्लोकानवाप्नुयात् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्वितीयोऽध्यायः ॥ 2 ॥

7-2-15 दुर्गतो दरिद्रः ॥ 7-2-21 चकमे कामयामास ॥ 7-2-38 असवर्णः अक्षत्रियः । दित्सां दातुमिच्छाम् ॥ 7-2-39 प्रणश्यत नादृश्यत ॥ 7-2-43 दर्शयामासेति शेषः । 7-2-45 कल्यं प्रातः ॥ 7-2-49 अहतं नवं वासो यस्यास्ताम् ॥ 7-2-50 वसोर्धारां सन्ततां घृतधाराम् ॥ 7-2-53 दृशाभ्यां दृग्भ्यां सहितं सदृशं वक्रं तस्मिन् पूर्णेन्दोरुपमा सादृश्यं यस्य पूर्णेन्दुसदृशोपमः ॥ 7-2-57 गृहस्थश्च गृहस्थ एव ॥ 7-2-59 आत्मनः शरीरस्य ॥ 7-2-62 प्रमाणं हितज्ञापकम् ॥ 7-2-63 किञ्चिन्न कर्तव्यमिति न अपितु कर्तव्यमेव ॥ 7-2-64 पृष्ठतस्तस्याप्रत्यक्षं गृहेऽन्वगमत् ॥ 7-2-65 ब्राह्मणस्तद्रूपी मृत्युः ॥ 7-2-69 एतद्रतप्रदानम् ॥ 7-2-70 राज्ञि राजकन्ये ॥ 7-2-71 छन्द्यमानः प्रलोभ्यमानः ॥ 7-2-77 विप्रकाराच्च शङ्कितेति थ. पाठ ॥ 7-2-82 अनुरूपं स्त्रीदूषणानुगुणं दण्डम् ॥ 7-2-83 कूटमुद्गरो लोहदण्डः । हीनप्रतिज्ञं त्यक्तातिथिव्रतम् ॥ 7-2-89 गुणाः इन्द्रियाणि तदभिमानिन्यो देवता इत्यर्थः ॥ 7-2-94 शैक्षेण उदात्तादिधर्मवता ॥ 7-2-100 अर्धेन ओघवती नाम नदी भविष्यतीति शेषः । योगो हीति योगसिद्धेयमतः शरीरद्वयं करिष्यतीत्यर्थः ॥ 7-2-103 राजन्निति ऋषिराजत्वात् राजजामानृत्वाद्वा संबोधनम् ॥ 7-2-105 बुद्धिरित्यादावपि जितेत्याद्यनुषङ्गः ॥ 7-2-111 बुभूषता मिच्छता ॥

श्रीः