अध्यायः 065

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति गङ्गामहिमप्रतिपादकसिद्धसिलवृत्तिसंवादानुवादः ॥ 1 ॥

वैशम्पायन उवाच ।

बृहस्पतिसमं बुद्ध्या क्षमया ब्रह्मणः समम् ।
पराक्रमे शक्रसममादित्यसमतेजसम् ॥
गाङ्गेयमर्जुनेनाजौ निहतं भूरितेजसम् ।
भ्रातृभिः सहितोऽन्यैश्च पर्यपृच्छद्युधिष्ठिरः ॥
शयानं वीरशयने कालाकाङ्क्षिणमच्युतम् ।
आजग्मुर्भरतश्रेष्ठं द्रष्टुकामा महर्षयः ॥
अत्रिर्वसिष्ठोऽथ भृगुः पुलस्त्यः पुलहः क्रतुः ।
अङ्गिरा गौतमोऽगस्त्यः सुमतिः सुयतात्मवान् ॥
विश्वामित्रः स्थूलगिराः संवर्तः प्रमतिर्दमः ।
बृहस्पत्युशनोव्यासश्च्यवनः फाश्यपो ध्रुवः ॥
दुर्वासा जमदग्निश्च मार्कण्डेयोऽथ गालवः ।
भरद्वाजोऽथ रैभ्यश्चक यवक्रीतस्त्रितस्तथा ॥
स्थूलाक्षः शबलाक्षश्च कण्वो मेधातिथिः कृशः ।
नारदः पर्वतश्चैव सुधन्वाऽथैकतो द्विजः ॥
नितंभूर्भुवनो धौम्यः शतानन्दोऽकृतव्रणः । जामदग्र्यस्तथा रामः कचश्चेत्येवमादयः ।
समागता महात्मानो भीष्मं द्रष्टुं महर्षयः ॥
तेषां महात्मनां पूजामागतानां युधिष्ठिरः ।
भ्रातृभिः सहितश्चक्रे यतावदनुपूर्वशः ॥
ते पूजिताः सुखासीनाः कथाश्रक्रुर्महर्षयः ।
भीष्माश्रिताः सुमधुराः सर्वेन्द्रियमनोहराः ॥
भीष्मस्तेषां कथाः श्रुत्वा ऋषीणां भावितात्मनाम् ।
मेने दिविष्ठमात्मानं तुष्ट्या परमया युतः ॥
ततस्ते भीष्ममामन्त्र्य पाण्डवांश्च महर्षयः ।
अन्तर्धानं गताः सर्वे सर्वेषामेव पश्यताम् ॥
तानृषीन्सुमहाभागानन्तर्धानगतानपि ।
पाण्डवास्तुष्टुवुः सर्वे प्रणेमुश्च मुहुर्मुहुः ॥
प्रसन्नमनसः सर्वे गाङ्गेयं कुरुसत्तमम् ।
उपतस्थुर्यथोद्यन्तमादित्यं मन्त्रकोविदाः ॥
प्रभावं तपसस्तेषामृषीणां वीक्ष्य पाण्डवाः ।
प्रकाशन्तो दिशः सर्वा विस्मयं परमं ययुः ॥
महाभाग्यं परं तेषामृषीणामनुचिन्त्य ते ।
पाण्डवाः सह भीष्मेण कथाश्चक्रुस्तदाश्रयाः ॥
कथान्ते शिरसा पादौ स्पृष्ट्वा भीष्मस्य पाण्डवः ।
धर्म्यं धर्मसुतः प्रश्नं पर्यपृच्छद्युधिष्ठिरः ॥
के देशाः के जनपदा आश्रमाः के च पर्वताः ।
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यः पितामह ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
शिलोच्छवृत्तेः संवादं सिद्धस्य च युधिष्ठिर ॥
इमां कश्चित्परिक्रम्य पृथिवीं शैलभूषणाम् ।
असकृद्द्विपदां श्रेष्ठः श्रेष्ठस्य गृहमेधिनः ॥
शिलवृत्तेर्गृहं प्राप्तः स तेन विधिनाऽर्चितः ।
उवास रजनीं तत्र सुमुखः सुखभागृषिः ॥
शिलवृत्तिस्तु यत्कृत्यं प्रातस्तत्कृतवाञ्शुचिः ।
कृतकृत्यमुपातिष्ठत्सिद्धं तमतिथिं तदा ॥
तौ समेत्य महात्मानौ सुखासीनौ कथाः शुभाः ।
चक्रतुर्वेदसम्बद्धास्तच्छेषकृतलक्षणाः ॥
शिलवृत्तिः कथान्ते तु सिद्धमामन्त्र्य यत्नतः ।
प्रश्नं पप्रच्छ मेधावी यन्मां त्वं परिपृच्छसि ॥
शिलवृत्तिरुवाच ।
केदेशाः के जनपदाः केऽऽश्रमाः के च पर्वताः ।
प्रकृष्टाः पुण्यतः काश्च ज्ञेया नद्यस्तदुच्यताम् ॥
सिद्ध उवाच ।
ते देशास्ते जनपदास्तेऽऽश्रमास्ते च पर्वताः ।
येषां भागीरथी गङ्गा मध्येनैति रारिद्वरा ॥
तपसा ब्रह्मचर्येण यज्ञैस्त्यागेन वा पुनः ।
गतिं तां न लभेज्जन्तुर्गङ्गां संसेव्य यां लभेत् ॥
स्पष्टानि येषां गाङ्गेयैस्तोयैर्गात्राणि देहिनाम् ।
न्यस्तानि न पुनस्तेषां त्यागः स्वर्गाद्विधीयते ॥
सर्वाणि येषां गाङ्गेयैस्तोयैः कार्याणि देहिनाम् ।
गां त्यक्त्वा मानवा विप्र दिवि तिष्ठन्ति ते जनाः ॥
पूर्वे वयसि कर्माणि कृत्वा पापानि ये नराः ।
पश्चाद्गङ्गां निषेवन्ते तेऽपि यान्त्युत्तमां गतिम् ॥
`युक्ताश्च पातकैस्त्यक्त्वा देहं शुद्धा भवन्ति ते । मुच्यन्ते देहसंत्यागाद्गङ्गायमुनसङ्गमे ॥'
स्नातानां शुचिभिस्तोयैर्गाङ्गेयैः प्रयतात्मनाम् ।
व्युष्टिर्भवति या पुंसां न सा क्रतुशतैरपि ॥
यावदस्थि मनुष्यस्य गङ्गातोयेषु तिष्ठति ।
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
अपहत्य तमस्तीव्रं यथा भात्युदये रविः ।
तथाऽपहत्य पाप्मानं भाति गङ्गाजलोक्षितः ॥
विसोमा इव शर्वर्यो विपुष्पास्तरवो यथा ।
तद्वद्देशा दिशश्चैव हीना गङ्गाजलैः शिवैः ॥
वर्णाश्रमा यथा सर्वे धर्मज्ञानविवर्जिताः ।
क्रतवश्च यथाऽसोमास्तथा गङ्गां विना जगत् ॥
यथा हीनं नभोऽर्केण भूः शैलैः खं च वायुना ।
तथा देशा दिशश्चैव गङ्गाहीना न संशयः ॥
त्रिषु लोकेषु ये केचित्प्राणिनः सर्व एव ते ।
तर्प्यमाणाः परां तृप्तिं यान्ति गङ्गाजलैः शुभैः ॥
`अन्ये च देवा मुनयः प्रेतानि पितृभिः सह । तर्पितास्तृप्तिमायान्ति त्रिषु लोकेषु सर्वशः ॥'
यस्तु सूर्येण निष्टप्तं गाङ्गेयं पिबते जलम् ।
गवां निर्हरनिर्मुक्ताद्यावकात्तद्विशिष्यते ॥
इन्द्रव्रतसहस्रं तु यश्चोरत्कायशोधनम् ।
पिवेद्यश्चापि गङ्गाम्यः समौ स्यातां न वा समौ ॥
तिष्ठेद्युगसहस्रं तु पदेनैकेन यः पुमान् ।
मासमेकं तु गङ्गायां समौ स्यातां न वा सभौ ॥
लम्बतेऽवाक्शिरा यस्तु युगानामयुतं पुमान् ।
तिष्ठेद्यथेष्टं यश्चापि गङ्गायां स विशिष्यते ॥
अग्नौ प्रास्तं प्रधूयेत यथा तूलं द्विजोत्तम ।
तथा गङ्गावगाढस्य सर्वपापं प्रधूयते ॥
भूतानामिह सर्वेषां दुःखोपहतचेतसाम् ।
गतिमन्वेषमाणानां न गङ्गासदृशी गतिः ॥
भवन्ति निर्विषाः सर्पा यथा तार्क्ष्यस्य दर्शनात् ।
गङ्गाया दर्शनातद्वत्सर्वपापैः प्रमुच्यते ॥
अप्रतिष्ठाश्च ये केचिदधर्मशरणाश्च ये । येषां प्रतिष्ठा गङ्गेह शरणं शर्म वर्म च ।
प्रकृष्टैरशुभैर्ग्रस्ताननेकैः पुरुषाधमान् ।
पततो नरके गङ्गा संश्रितान्प्रेत्य तारयेत् ॥
ते संविभक्ता मुनिभिर्नूनं देवैः सवासवैः ।
येऽभिगच्छन्ति सततं गङ्गां मतिमतांवर ॥
विनयाचारहीनाश्च अशिवाश्च नराधमाः ।
ते भवन्ति शिवा विप्र ये वै गङ्गामुपाश्रिताः ॥
यथा सुराणामभृतं पितॄणां च यथा स्वधा ।
सुधा यथा च नागानां तथा गङ्गाजलं नृणाम् ॥
उपासते यथा बाला मातरं क्षुधयाऽर्दिताः ।
श्रेयस्कामास्तथा गङ्गामुपासन्तीह देहिनः ॥
स्वायंभुवं यथा स्थानं सर्वेषां श्रेष्ठमुच्यते ।
स्थानानां सरितां श्रेष्ठा गङ्गा तद्वदिहोच्यते ॥
`उपजीव्या यथा धेनुर्लोकानां ब्राह्ममेव वा ।
हविषां तु यथा सोमस्तरणेषु तथा त्वियम् ॥
यथोपजीविनां धेनुर्देवादीनां परा स्मृता ।
तथोपजीविनां गङ्गा सर्वप्राणभृतामिह ॥
देवाः सोमार्कसंस्थानि यता सत्रादिभिर्मखैः ।
अमृतान्युपजीवन्ति तथा गङ्गाजलं नराः ॥
जाह्नवीपुलिनोत्थाभिः सिकताभिः समुक्षितम् ।
आत्मानं मन्यते लोको दिविष्ठमिव शोभितम् ॥
जाह्नवीतीरसम्भूतां मृदं मूर्ध्ना बिभर्ति यः ।
बिभर्ति रूपं सोऽर्कस्य तमोनाशाय निर्मलम् ॥
गङ्गोर्मिभिरथो दिग्धः पुरुषं पवनो यदा ।
स्पृश्यते सोऽस्य पाप्मानं सद्य एवापकर्षति ॥
व्यसनैरभितप्तस्य नरस्य विनशिष्यतः ।
गङ्गादर्शनजा प्रीतिर्व्यसनान्यपकर्षति ॥
हंसारावैः कोकरवै रवैरन्यैश्च पक्षिणाम् ।
पस्पर्ध गङ्गा गन्धर्वान्पुलिनैश्च शिलोच्चयान् ॥
हंसादिभिः सुबहुभिर्विविधैः पक्षिभिर्वृताम् ।
गङ्गां गोकुलसम्बादां दृष्ट्वा स्वर्गोऽपि विस्मृतः ॥
न सा प्रीतिर्दिविष्ठस्य सर्वकामानुपाश्नतः ।
सम्भवेद्या परा प्रीतिर्गङ्गायाः पुलिने नृणाम् ॥
वाङ्मन कर्मजैर्ग्रस्तः पापैरपि पुमानिह ।
वीक्ष्य गङ्गां भवेन्मूतो अत्र मे नास्ति संशयः ॥
सप्तावरान्सप्त परान्पितॄंस्तेभ्यश्च ये परे ।
पुमांस्तारयते गङ्गां वीक्ष्य स्पृष्ट्वाऽवगाह्य च ॥
श्रुताभिलषिता पीता स्पृष्टा दृष्टाऽवगाहिता ।
गङ्गा तारयते नॄणामुभौ वंशौ विशेषतः ॥
`तत्तीरगानां तपसा श्राद्धपारायणादिभिः ।
गङ्गाद्वारप्रभृतिभिस्तत्तीर्थैर्न परं नृणाम् ॥
सायं प्रातः स्मरेद्गङ्गां नित्यं स्नाने तु कीर्तयेत् । तर्पणे पितृपूजासु मरणे चापि संस्मरेत् ॥'
दर्शनात्स्पर्शनात्पानात्तथा गङ्गेति कीर्तनात् ।
पुनात्युपुण्यान्पुरुषाञ्शतशोऽथ सहस्रशः ॥
य इच्छेत्सफलं जन्म जीवितं श्रुतमेव च ।
स पितॄंस्तर्पयेद्गङ्गामभिगम्य सुरांस्तथा ॥
न श्रुतैर्न च वित्तेन कर्मणा न च तत्फलम् ।
प्राप्नुयात्पुरुषोऽत्यन्तं गङ्गां प्राप्य यदाप्नुयात् ॥
जात्यन्धैरिह तुल्यास्ते मृतैः पङ्गुभिरेव च ।
समर्था ये न पश्यन्ति गङ्गां पुण्यजलां शिवाम् ॥
भूतभव्यभविष्यज्ञैर्महर्षिभिरुपस्थिताम् ।
देवैः सेन्द्रैश्च को गङ्गां नोपसेवेत मानवः ॥
वानप्रस्थैर्गृहस्थैश्च यतिभिर्ब्रह्मचारिभिः ।
विद्यावद्भिः श्रितां गङ्गां पुमान्को नाम नाश्रयेत् ॥
उत्कामद्बिश्च यः प्राणैः प्रयतः शिष्टसम्मतः ।
चिन्तयेन्मनसा गङ्गां स गतिं परमांलभेत् ॥
न भयेभ्यो भयं तस्य न पापेभ्यो न राजतः ।
आदेहपतनाद्गङ्गामुपास्ते यः पुमानिह ॥
गगनाद्गां पतन्तीं वै महापुण्यां महेश्वरः ।
दधार शिरसा गङ्गां तामेव दिवि सेवते ॥
अलङ्कृतास्त्रयो लोकाः पथिभिर्विमलैस्त्रिभिः । यस्तु तस्या जलं सेवेत्क्रतकृत्यः पुमान्भवेत् ।
दिवि ज्योतिर्यथाऽऽदित्यः पितॄणां चैव चन्द्रमाः ।
देवेश यथा नृणां गङ्गा च सरितां तथा ॥
मात्रा पित्रा सुतैर्दारैर्विमुक्तस्य धनेन वा ।
न भवेद्धि तथा दुःखं यथा गङ्गा वियोगजम् ॥
नारण्यैर्नेष्टविषयैर्न सुतैर्न धनागमैः ।
तथा प्रसादो भवति गङ्गां वीक्ष्य यथा भवेत् ॥
पूर्णमिन्दुं यथा दृष्ट्वा नृणां दृष्टिः प्रसीदति ।
तथा त्रिपथगां दृष्ट्वा नृणां दृष्टिः प्रसीदति ॥
तद्भावस्तद्गतमनास्तन्निष्ठस्तत्परायणः ।
गङ्गांयोऽनुगतो भक्त्यास तस्याः प्रियतां व्रजेत् ॥
भूस्थैः खस्थैर्दिविष्ठैश्च भूतैरुच्चावचैरपि ।
गङ्गा विगाह्या सततमेतत्कार्यतमं सताम् ॥
विश्वलोकेषु पुण्यत्वाद्गङ्गायाः प्रथितं यशः । `दुर्मृताननपत्यांश्च सा मृताननयद्दिवम् ।'
यत्पुत्रान्सगरस्येतो भस्माख्याननयद्दिवम् ॥
वाय्वीरिताभिः सुमनोहराभि- र्द्रुताभिरत्यर्थसमुत्थिताभिः ।
गङ्गोर्मिभिर्भानुमतीभिरिद्धाः सहस्ररश्मिप्रतिमा भवन्ति ॥
पयस्विनीं घृतिनीमत्युदारां समृद्धिनीं वेगिनीं दुर्विगाह्याम् ।
गङ्गां गत्वा यैः शरीरं विसृष्टं गता धीरस्ते विबुधैः समत्वम् ॥
अन्धाञ्चडान्द्रव्यहीनांश्च गङ्गा यशस्विनी बृहती विश्वरूपा ।
देवैः सेन्द्रैर्मुनिभिर्मानवैश्च निषेविता सर्वकामैर्युनक्ति ॥
ऊर्जस्वतीं मधुमतीं महापुण्यां त्रिवर्त्मगाम् ।
त्रिलोकगोप्त्रीं ये गङ्गां संश्रितास्ते दिवं गताः ॥
यो वत्स्यति द्रक्ष्यति वाऽपि मर्त्य- स्मस्मै प्रयच्छन्ति सुखानि देवाः ।
तद्भाविताः स्पर्शनदर्शनेन इष्टां गतिं तस्य सुरा दिशन्ति ॥
दक्षां पृश्निं बृहतीं विप्रकृष्टां शिवामृद्धां भागिनीं सुप्रसन्नाम् ।
विभावरीं सर्वभूतप्रतिष्ठां गङ्गां गता ये त्रिदिवं गतास्ते ॥
ख्यातिर्यस्याः खं दिवं गां च नित्या- मूर्ध्वं दिशो विदिशश्चावतस्थे ।
तस्या जलं सेव्य सरिद्वराया मर्त्याः सर्वे कुतकृत्या भवन्ति ॥
इयं गङ्गेति नियतं प्रतिष्ठा गुहस्य स्क्मस्य च गर्भयोषा ।
प्रातस्त्रिवर्गा घृतवहा विपाप्मा गङ्गाऽवतीर्णा वियतो विश्वतोया ॥
`नारायणादक्षयात्पूर्वजाता विष्णोः पादाच्छिंशुमाराद्ध्रुवाच्च ।
सोमात्सूर्यान्मेरुरूपाच्च विष्णोः समागता शिवमूर्ध्नो हिमाद्रिम् । सत्यावती द्रव्यपरस्य वर्या दिवो भुवश्चापि वीक्ष्यानुरूपा ॥'
सुताऽवनीध्रस्य हरस्य भार्या दिवो भुवश्चापि कृतानुरूपा ।
भव्या पृथिव्यां भागिनी चापि राज- न्गङ्गा लोकानां पृण्यदा वै त्रयाणाम् ॥
मधुस्रवा घृतधारा घृतार्चि- र्महोर्मिभिः शोभिता ब्राह्मणैश्च ।
दिवश्च्युता शिरसाऽऽप्ता शिवेन गङ्गाऽवनीध्रात्त्रिदिवस्य माता ॥
योनिर्वरिष्ठा विरजा वितन्वी शय्याऽचिरा वारिवहा यशोदा ।
विश्वावती चाकृतिरिष्टसिद्धा गङ्गोक्षितानां भुवनस्य पन्थाः ॥
क्षान्त्या मह्या गोपने धारणे च दीप्त्य, कृशानोस्तपनस्य चैव ।
तुल्या गङ्गा सम्मता ब्राह्मणानां गृहस्य ब्रह्मण्यतया च नित्यम् ॥
ऋषिष्टुतां विष्णुपदीं पुराणां सुपुण्यतोयां मनसाऽपि लोके ।
सर्वात्मना जाह्नवीं ये प्रवन्ना स्ते ब्रह्मणः सदनं सम्प्रयाताः ॥
लोकानिमान्नयति या जननीव पुत्रा- न्सर्वात्मना सर्वगुणोपपन्ना ।
तत्स्थानकं ब्राह्ममभीप्समानै- र्गङ्गा सदैवात्मवशैरुपास्या ॥
`न तैर्जुष्टां स्पृशतीं विश्वतोया- मिरावज्ञां रवेतीं भूधराणाम् ।'
उसां पृष्टां मिषतीं विश्वभोज्या- मिरावतीं धारिणीं भूधराणाम् । शिष्टाश्रयाममृतां ब्रह्मकान्तां गंङ्गां श्रयेदात्मवान्सिद्धिकामः ॥
प्रसाद्य देवान्सविभून्समस्ता- न्भगीरथस्तपसोग्रेण गङ्गाम् ।
गामानयत्तामभिगम्य शश्व- त्पुंसां भयं नेह चामुत्र विद्यात् ॥
उदाहृतः सर्वथा ते गुणानां मयैकदेशः प्रसमीक्ष्य बृद्ध्या ।
शक्तिर्न से काचिदिहास्ति वक्तुं गुणान्सर्वान्परिमातुं तथैव ॥
मेरोः समुद्रस्य च सर्वयत्नैः सङ्ख्योपलानामुदकस्य वाऽपि ।
शक्यं वक्तुं नेह गङ्गाजलानां गुणाख्यानं परिमातुं तथैव ॥
तस्मादेतान्परया श्रद्धयोक्ता- न्गुणान्सर्वाञ्जाह्नवीयान्सदैव ।
भवेद्वाचा मनसा कर्मणा च भक्त्या युक्तः श्रद्धया श्रद्दधानः ॥
लोकानिमांस्त्रीन्यशसा वितत्य सिद्धिं प्राप्य महतीं तां दुरापाम् ।
गङ्गाकृतानचिरेणैव लोका- न्यथेष्टमिष्टान्विहरिष्यसि त्वम् ॥
तव मम च गुणैर्महानुभावा जुषतु भतिं सततं स्वधर्मयुक्तैः ।
अभिमतजनवत्सला हि गङ्गा जगति युनक्ति सुखैश्च भक्तिमन्तम् ॥
भीष्म उवाच ।
इति परममतिर्गुणानशेषा- ञ्शिलरतये त्रिपथानुयोगरूपान् ।
बहुविधमनुशास्य तथ्यरूपा- न्गगनतलं द्युतिमान्विवेश सिद्धः ॥
शिलवृत्तिस्तु सिद्धस्य वाक्यैः सम्बोधितस्तदा ।
गङ्गामुपास्य विधिवत्सिद्धिं प्राप सुदुर्लभाम् ॥
तथा त्वमपि कौन्तेय भक्त्या परमया युतः ।
गङ्गामभ्येहि सततं प्राप्स्यसे सिद्धिमुत्तमाम् ॥
वैशम्पायन उवाच ।
श्रुत्वेतिहासं भीष्मोक्तं गङ्गायाः स्तवसंयुतम् ।
युधिष्ठिरः परां प्रीतिमगच्छद्धातृभिः सह ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पञ्चषष्टितमोऽध्यायः ॥ 65 ॥

7-65-2 यदाऽपृच्छत्तदैवाजग्मुरिति द्वितीयेन यत्तदोरध्याहारेण न्वयः ॥ 7-65-16 महाभाग्यं योगैश्वर्यं खेचरत्वान्तर्धानशक्त्यादिसिद्धिमत्त्वम् ॥ 7-65-18 देशाः भूमिभागाः । जनपदाः महाजननिवासस्थानानि । आश्रमाः ऋषिस्थानानि ॥ 7-65-26 ते देशा इति प्रकृष्टाः पुण्यत इत्यनुषङ्गः ॥ 7-65-28 गात्राण्यस्थीनि । न्यस्तानि गङ्गायाम् । त्यक्तानि यानि वै तेषां त्यागात्स्वर्गो विधीयते इति ध. पाठः ॥ 7-65-32 व्युष्टिः पुण्यवृद्धिः ॥ 7-65-33 यावदस्थि मनुष्याणामिति थ.ध. पाठः ॥ 7-65-40 गवां निर्हार आहारनिर्गमनामार्गस्ततो निर्मुक्तं यावकं यवविकारस्तस्मात् । गां यवानादयित्वा तच्छकृदन्तर्गतान् यवान् पक्त्वा भुञ्जानो यावकव्रतीत्युच्यते ॥ 7-65-41 इन्दुव्रतं चान्द्रायणम् ॥ 7-65-44 धूयते दूरे जायते भस्मीभूयापि न शिव्यते इत्यर्थः ॥ 7-65-63 कामान् भोगान् ॥ 7-65-81 उपस्थितां नित्यं सेविताम् ॥ इष्टं यागादि तत्प्राप्यैरिष्टविषयैः स्वर्ग्यैः ॥ 7-65-83 इद्धाः निर्दोषत्वेन दीप्ताः ॥ 7-65-87 पयोघृते यागीये हविषी समृद्धिर्यागफलं तद्वतीम् । यागादिजं पुण्यं तत्फलं स्वर्गादि च गङ्गाप्राप्त्यैव लभ्यत इत्यर्थः ॥ 7-65-89 ऊर्क अन्नपश्वादिः तत्प्रदामित्यर्थः । मधु कर्मफलं ब्रह्म वा तत्प्रदां मधुमतीम् ॥ 7-65-90 योगं गामिति शेषः । तथा गङ्गया भाविताः महत्त्वं गताः देवाः । स्पर्शनदर्शनेन गङ्गाया एव ॥ 7-65-91 दक्षां तारणसमर्थाम् । पृश्निं विष्णुमातरम् । बृहतीं वाचम् । वाग्वै बृहतीतिश्रुतेः । भागिनीं भनानामैश्वर्यादीनां षण्णां समूहो भागं तद्वतीम् । विभावरीं प्रकाशिकाम् ॥ 7-65-93 गङ्गां दृष्ट्वा इयं गङ्गेति अन्यान् गङ्गां दर्शयतः पुरुषस्य नियतं नियमेन गङ्गैव प्रतिष्ठा संसारावसानहेतुर्भवति । गुहस्य कार्तिकेयस्य रुक्मस्य स्वर्णस्य च गर्भयोषा गर्भधारिणी स्त्री । वियतः सकाशात्प्रातरवतीर्णा त्रिवर्गा धर्प्रार्थकामदा । धृतवहा जलवाहिनी । विश्वतोया विश्वप्रियतोया ॥ 7-65-95 अवनीध्रस्य मेरोः हिमवतो वा पर्वतस्य । कृतं अनुरूपं अलङ्कारो यया सा कृतानुरूपा ॥ 7-65-96 मधुस्रवा धर्मद्रवा । घृतधारा तेजोधारा घृतार्चिः आज्यस्येव अर्चिर्वा यस्याः । सा अवनीध्रात् पृथिवीं प्राप्तेति शेषः ॥ 7-65-97 वरिष्ठा योनिः परमकारणम् । वि जा निर्मला । वितन्वी विशेषेण तन्वी सूक्ष्मा । शय्या दीर्घनिद्रा तल्पः । मरणं जाह्नवीतट इति वचनात् । अचिरा शीघ्रा । विश्वावती विश्वं अवन्ती पालयन्ती । नुमभाव आर्षः । इष्टसिद्धा इष्टाःक सिद्धा यस्याः सा, सिद्धानामिष्टा इति वा । अक्षेतानां स्नातानाम् । भुवनस्य स्वर्गस्य । पुष्पाविला परिवाहा यशोदेति ध. पाठः ॥ 7-65-98 क्षान्त्यादित्रये मह्या तुल्येति सम्बन्धः । गुहस्य कुमारस्य सम्मता । ब्रह्मण्यतया ब्राह्मणजात्यनुग्राहकतयः ॥ 7-65-99 मनसापि प्रपन्नाः किमुत साक्षात् ॥ 7-65-101 उस्रं धेनुममृतदुघामिति यावत् । मिषतीं पश्यन्तीं सर्वज्ञामित्यर्थः । हरावतीमन्नवतीम् । ब्रह्मणोपि कान्तो चेतोहराम् ॥ 7-65-102 सविभून् सेक्षरान् । गां पृथ्वीम् ॥ 7-65-103 मदुक्तान् गङ्गागुणान् ज्ञात्वा वागादिमिः स्तोत्रध्यानस्नानादिषु श्रद्ददानो भवेदिती सम्बन्धः । गङ्गाकृतान् गङ्गासेवनप्राप्तान् । इष्टान् सङ्कल्पसिद्धान् । 7-65-107 महानुभावा गङ्गा मतिं जुषतु प्रीणातु । गङ्गादर्शनादिना मतिः प्रसीदत्वित्यर्थः । अभिमतः श्रद्धालुः ॥

श्रीः