अध्यायः 070

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणमाहात्म्यकथनम् ॥ 1 ॥

भीष्म उवाच ।

जन्मनैव महाभागो ब्राह्मणो नाम जायते ।
नमस्यः सर्वभूतानामतिथिः प्रश्रिताग्रभुक् ॥
सर्वेषां सुहृदस्तात ब्राह्मणाः सुमनोमुकाः । `सर्वानेते हनिष्यन्ति ब्राह्मणा जातमन्यवः ।'
गीर्भिर्मङ्गलयुक्ताभिरनुध्यायन्ति पूजिताः ॥
सर्वान्नो द्विषतस्तात ब्राह्मणा जातमन्यवः ।
गीर्भिर्दारुणयुक्ताभिर्हन्युश्चैते ह्यपूजिताः ॥
अत्र गाथाः पुरा गीताः कीर्तयन्ति पुराविदः ।
सृष्ट्वा द्विजातीन्धाता हि यथापूर्वं समादधत् ॥
न वोऽन्यदिह कर्तव्यं किञ्चिदूर्ध्वायनं विधि ।
गुप्तो गोपायते ब्रह्मा श्रेयो वस्तेन शोभनम् ॥
स्वमेव कुर्वतां कर्म श्रीर्वो ब्राह्मी भविष्यति ।
प्रमाणं सर्वभूतानां प्रग्रहाश्च भविष्यथ ॥
न शौद्रं कर्म कर्तव्यं ब्राह्मणेन विपश्चिता ।
शौद्रं हि कुर्वतः कर्म ब्राह्मी श्रीरुपरुध्यते ॥
श्रीश्च बुद्धिश्च तेजश्च विभूतिश्च प्रतापिनी ।
स्वाध्यायेनैव महात्म्यं विपुलं प्रतिपत्स्यथ ॥
हुत्वा चाहवनीयस्थं महाभाग्ये प्रतिष्ठिताः । अग्रभोज्याः प्रसूतीनां श्रिया ब्राह्मयाऽनुकल्पिताः
श्रद्धया परया युक्ता ह्यनभिद्रोहलब्धया ।
दमस्वाध्यायनिरताः सर्वान्कामानवाप्स्यथ ॥
यच्चैव मानुषे लोके यच्च देवेषु किञ्चन ।
सर्वं वस्तपसा साध्यं ज्ञानेन नियमेन च ॥
`युष्मत्संमाननां प्रीतिं पावनैः क्षत्रिया भृशम् ।' अमुत्रेह समायान्ति वैश्यशूद्राधिकास्तथा ॥
अरक्षिताश्च युष्माभिर्विरुद्धा यान्ति विप्रवम् । युष्मत्तेजोधृता लोकास्तद्रक्ष्यथ जगत्त्रयम् ॥'
इत्येवं ब्रह्मगीतास्ते समाख्याता मयाऽनघ ।
विप्रानुकम्पार्थमिदं तेन प्रोक्तं हि धीमता ॥
भूयस्तेषां बलं मन्ये यथा राज्ञस्तपस्विनः ।
दुरासदाश्च चण्डाश्च तपसा क्षिप्रकारिणः ॥
सन्त्येषां सिम्हसत्वाश्च व्याघ्रसत्वास्तथाऽपरे ।
वराहमृगसत्वाश्च गजसत्वास्तथाऽपरे ॥
सर्पस्पर्शसमाः केचित्तथाऽन्ये मकरस्पृशः ।
विभाष्य घातिनः केचित्तथा चक्षुर्हणोऽपरे ॥
सन्ति चाशीविषसमाः सन्ति मन्दास्तथाऽपरे ।
विविधानीह वृत्तानि ब्राह्मणानां युधिष्ठिर ॥
मेकला द्राविडा लाटाः पौण्ड्राः कान्वशिरास्तथा ।
शौण्डिका दरदा दार्वाश्चोराः शबरबर्बराः ॥
किराता यवनाश्चैव तास्ताः क्षत्रियजातयः ।
वृषत्वमनुप्राप्ता ब्राह्मणानामदर्शनात् ॥
ब्राह्मणानां परिभवादसुराः सलिलेशयाः ।
ब्राह्मणानां प्रसादाच्च देवाः स्वर्गनिवासिनः ॥
अशक्यं स्प्रष्टुमाकाशमचाल्यो हिमवान्गिरिः ।
अवार्या सेतुना गङ्गा दुर्जया ब्राह्ममा भुवि ॥
न ब्राह्मणविरोधेन शक्या शास्तुं वसुन्धरा ।
ब्राह्मणा हि महात्मानो देवानामपि देवताः ॥
तान्पूजयस्व सततं दानेन परिचर्यया ।
यदीच्छसि महीं भोक्तमिमां सागरमेखलाम् ॥
प्रतिग्रहेण तेजो हि विप्राणा शाम्यतेऽनघ ।
प्रतिग्रहं ये नेच्छेयुस्तेऽपि रक्ष्यास्त्वया नृप ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्ततितमोऽध्यायः ॥ 70 ॥

7-70-1 जन्मनैव संस्काराद्यभावेऽपि ब्राह्मणो नमस्य एव । प्रश्रितं पक्वमन्नं तत्स्वाग्रे भोक्तुमर्हः प्रश्रिताग्रभुक् ॥ 7-70-2 सुमनसां देवानां मुखमिव भूताः सुमनोमुखाः ॥ 7-70-3 नोऽस्माकं द्विषतः शत्रून् । तैरपूजिता ब्राह्मणा हन्युरिति सम्बन्धः ॥ 7-70-4 समादधत् समाधिं नियमं कृतवान् ॥ 7-70-5 ब्रह्मा ब्राह्मणः । वः शोभनं श्रेयस्तेनैव ॥ 7-70-6 प्रग्रहाः दमनक्षभा रज्ज्व इव ॥ 7-70-7 शौद्रं कर्म सेवा ॥ 7-70-8 श्रीश्चेत्यादेः श्रियमित्यादिरर्थः ॥ 7-70-9 आहृवनीयस्थं देवतागणं प्रसूतीनां शिशुभ्योऽप्यग्रे भोज्यं येषां ते । ब्राह्म्या श्रिया विद्ययाऽनुकल्पिताः पात्रीभूताः ॥ 7-70-15 चण्डत्वादिदोषवन्तोपि पूज्या एवेत्यर्थः ॥ 7-70-17 कार्पासमृदवः केचिदिति थ. पाठः ॥ 7-70-20 अदर्शनात् अननुग्रहात् ॥

श्रीः