अध्यायः 078

अथ दानधर्मपर्व ॥ 1 ॥

देवशर्मणा स्वशिष्यं विपुलम्प्रति तद्द्वष्टानां मिथुनानां षट्पुरुषाणां च क्रमेणाहोरात्रऋत्वभिमानिदवतात्वकथनम् ॥ 1 ॥ तथा स्वस्मिन्स्वदाररक्षणाय योगेन तच्छरीरप्रवेशानिवेदनस्य दुर्गतिहेतुत्वकथनम् ॥ 2 ॥ तथा तत्कृतस्वदाररक्षमपरितोषेण तद्दुरितदूरीकरणपूर्वकं तेन स्वभार्यया च सह स्वर्गे सुखविहरणम् ॥ 3 ॥

भीष्म उवाच ।

तमागतमभिप्रेक्ष्य शिष्यं वाक्यमथाब्रवीत् ।
देवशर्मा महातेजा यत्तच्छृणु जनाधिप ॥
देवशर्मोवाच ।
किं त्वया मिथुनं दृष्टं तस्मिञ्शिष्य महावने ।
ते त्वां जानन्ति निपुणा आत्मा च रुचिरेव च ॥
विपुल उवाच ।
ब्रह्मर्षे मिथुनं किन्तत्के च षट्पुरुषा विभो ।
ये मां जानन्ति तत्त्वेन यन्मां त्वं परिपृच्छसि ॥
देवशर्मोवाच ।
यद्वै तन्मिथुनं ब्रह्मिन्नहोरात्रं हि विद्धि तत् ।
चक्रवत्परिवर्तेत तत्ते जानाति दुष्कृतम् ॥
ये च ते पुरुषा विप्र अक्षैर्दीव्यन्ति हृष्टवत् ।
ऋतूंस्तानभिजानीहि ते ते जानन्ति दुष्कृतम् ॥
न मां कश्चिद्विजानीत इति कृत्वा न विश्वसेत् ।
नरो रहसि पापात्मा पापकं कर्म वै द्विज ॥
कुर्वाणं हि नरं कर्म पापं रहसि सर्वदा ।
पश्यन्ति ऋतवश्चापि तथा दिननिशेऽप्युत ॥
तथैव हि भवेयुस्ते लोकाः पापकृतो यथा ।
कृत्वाऽनाचक्षतः कर्म मम तच्च यथा कृतम् ॥
ते त्वां हर्षस्मितं दृष्ट्वा गुरोः कर्मानिवेदकम् ।
स्मारयन्तस्तथा प्राहुस्ते यथा श्रउतवान्भवान् ॥
अहोरात्रं विजानाति ऋतवश्चापि नित्यशः ।
पुरुषे पापकं कर्म शुभं वाऽशुभकर्मिणः ॥
तत्त्वया मम यत्कर्म व्यभिचाराद्भयात्मकम् ।
नाख्यातमिति जानन्तस्ते त्वामाहुस्तथा द्विज ॥
तेनैव हि भवेयुस्ते लोकाः पापकृतो यथा ।
कृत्वा नाचक्षतः कर्म मम यच्च त्वया कृतम् ॥
तथाऽशक्याश्च दुर्वृत्ता रक्षितुं प्रमदा द्विज ।
न च त्वं कृतवान्किंचिदागः प्रीतोस्मि तेन ते ॥
`मनोदोषविहीनानां न दोषः स्यात्तथा तव ।
अन्यथाऽऽलिङ्ग्यते कान्ता स्नेहेन दुहिताऽन्यथा ॥
यतेश्च कामुकानां च योषिद्रूपेऽन्यथा मतिः ।
अशिक्षयैव मनसः प्रायो लोकस्तु वञ्च्यते ॥
लालेत्युद्विजते लोको वक्त्रासव इति स्पहा ।
अबन्धायोग्यमनसामिति मन्त्रात्मदैवकम् ॥
न रागस्नेहलोभान्धं कर्मिणां तन्महाफलम् ।
निष्कषायो विशुद्धस्त्वं रुच्यावेशान्न दूषितः ॥
यदि त्वहं त्वां दुर्वृत्तमद्राक्षं द्विजसत्तम ।
शपेयं त्वामहं क्रोधान्न मेऽत्रास्ति विचारणा ॥
सञ्जन्ति पुरुषे नार्यः पुंसां सोऽर्थश्च पुष्कलः ।
अन्यथा रक्षतः शापोऽभविष्यत्ते मतिश्च मे ॥
रक्षिता च त्वया पुत्र मम चापि निवेदिता ।
अहं ते प्रीतिमांस्तात स्वस्थः स्वर्गं गमिष्यसि ॥
इत्युक्त्वा विपुलं प्रीतो देवशर्मा महानृषिः ।
मुमोद स्वर्गमास्थाय सहभार्यः सशिष्यकः ॥
इदमाख्यातवांश्चापि ममाख्यानं महामुनिः ।
मार्कण्डेयः पुरा राजन्गङ्गाकूले कथान्तरे ॥
तस्माद्ब्रवीमि पार्थ त्वां स्त्रियो रक्ष्याः सदैव च ।
उभयं दृश्यते तासु सततं साध्वसाधु च ॥
स्त्रियः साध्व्यो महाभागाः सम्मता लोकमातरः ।
धारयन्ति महीं राजन्निमां सवनकाननाम् ॥
असाध्व्यश्चापि दुर्वृत्ताः कुलघ्नाः पापनिश्चयाः ।
विज्ञेया लक्षणैर्दुष्टैः स्वगात्रसहजैर्नृप ॥
एवमेतासु रक्षा वै शक्या कर्तुं महात्मभिः ।
अन्यथा राजशार्दूल न शक्या रक्षितुं स्त्रियः ॥
एता हि मनुजव्याघ्र तीक्ष्णास्तीक्ष्णपराक्रमाः ।
नासामस्ति प्रियो नाम मैथुने सङ्गमेति यः ॥
एताः कृत्याश्च कष्टाश्च कृतघ्ना भरतर्षभ ।
न चैकस्मिन्नमन्त्येताः पुरुषे पाण्डुनन्दन ॥
नासु स्नेहो नरैः कार्यस्तथैवेर्ष्या जनेश्वर । खेदमास्थाय भुञ्जीत धर्ममास्थाय चैव ह ।
`अनृताविह पर्वादिदोषवर्जं नराधिप ॥'
विहन्येतान्यथा कुर्वन्नरः कौरवनन्दन ।
सर्वथा राजशार्दूल युक्तः सर्वत्र युज्यते ॥
तेनैकेन तु रक्षा वै विपुलेन कृता स्त्रियाः ।
नान्यः शक्तस्त्रिलोकेऽस्मिन्रक्षितुं नृप योषितः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि अष्टसप्ततितमोऽध्यायः ॥ 78 ॥

7-78-9 हर्षस्मितं हर्षेण गर्वितम् ॥ 7-78-12 तेनैव अनाख्यानेनैव ॥ 7-78-16 लाला वदनात्स्वतो गलज्जलधारा ॥ 7-78-25 सहजैः पीणिपादरेखादिभिः ॥ 7-78-28 कृत्याः प्राणग्राहिदेवतारूपाः ॥ 7-78-29 खेदमास्तायाऽप्रीत्या विष्टिगृहीतवत् भुञ्जीत नतु प्रीत्या । धर्मं ऋतुकालानुरोधम् ॥

श्रीः