अध्यायः 082

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणादीनां दायविभजनविधिनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।

सर्वशास्त्रविधानज्ञ राजधर्मविदुत्तम ।
अतीव संशयच्छेत्ता भवान्वै प्रथितः क्षितौ ॥
कश्चित्तु संशयो मेऽस्ति तन्मे ब्रूहि पितामह ।
`अस्यामापदि कष्टायामन्यं पृच्छाम कं वयम्' ॥
जातेऽस्मिन्संशये राजन्नान्यं पृच्छेम कञ्चन ॥
यथा नरेण कर्तव्यं धर्ममार्गानुवर्तिना ।
एतत्सर्वं महाबाहो भवान्व्याख्यातुमर्हति ॥
चतस्रो विहिता भार्या ब्राह्मणस्य पितामह ।
ब्राह्मणी क्षत्रिया वैश्या शूद्रा च रतिमिच्छतः ॥
तत्र जातेषु पुत्रेषु सर्वासां कुरुसत्तम ।
आनुपूर्व्येण कस्तेषां पित्र्यं दायाद्यमर्हति ॥
केन वा किं ततो हार्यं पितृवित्तात्पितामह ।
एतदिच्छामि कथितं विभागस्तेषु कः स्मृतः ॥
भीष्म उवाच ।
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः ।
एतेषु विहितो धर्मो ब्राह्मणस्य युधिष्ठिर ॥
वैषम्यादथवा लोभात्कामाद्वाऽपि परन्तप ।
ब्राह्मणस्य भवेच्छूद्रा न तु दृष्टा न तु स्मृता ॥
शूद्रां शयनमारोप्य ब्राह्मणि यात्यधोगतिम् ।
प्रायश्चित्तीयते चापि विधिदृष्टेन कर्मणा ॥
तत्र जातेष्वपत्येषु द्विगुणं स्वाद्युधिष्ठिर ।
अतस्ते नियमं वित्ते सम्प्रवक्ष्यामि भारत ॥
लक्षण्यं गोवृषो यानं यत्प्रधानतमं भवेत् ।
ब्राह्मण्यास्तद्धरेत्पुत्र एकांशं वै पितुर्धनात् ॥
एषं तु दशधा कार्यं ब्राह्मणस्वं युधिष्ठिर ।
तत्र तेनैव हर्तव्याश्चत्वारोंशाः पितुर्धनात् ॥
त्रियायास्तु यः पुत्रो ब्राह्मणः सोप्यसंशयः ।
स तु मातुर्विशेषेण त्रीनंशान्हर्तुमर्हति ॥
वर्णे तृतीये जातस्तु वैश्यायां ब्राह्मणादपि ।
द्विरंशस्तेन हर्तव्यो ब्राह्मणस्वाद्युधिष्ठिर ॥
शूद्रायां ब्राह्मणाज्जातो नित्यादेयधनः स्मृतः ।
अल्पं चापि प्रदातव्यं शूद्रापुत्राय भारत ॥
दशधा प्रविभक्तस्य धनस्यैव भवेत्क्रमः ।
सवर्णासु तु जातानां समान्भागान्प्रकल्पयेत् ॥
अब्राह्मणं तु मन्यन्ते शूद्रापुत्रमनैपुणात् ।
त्रिषु वर्णेषु जातो हि ब्राह्मणाद्ब्राह्मणो भवेत् ॥
स्मृताश्च वर्णाश्चत्वारः पञ्चमो नाधिगम्यते ।
हरेच्च दशमं भागं शूद्रापुत्रः पितुर्धनात् ॥
तत्तु दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ।
अवश्यं हि धनं देयं शूद्रापुत्राय भारत ॥
आनृशंस्यं परो धर्म इति तस्मै प्रदीयते ।
यत्रतत्र समुत्पन्नं गुणायैवोपपद्यते ॥
यद्यप्येष सुपुत्रः स्यादपुत्रो यदि वा भवेत् ।
नाधिकं दशमाद्दद्याच्छूद्रापुत्राय भारत ॥
`स्मृत एकश्चतुर्भागः कन्याभागस्तु धर्मतः । अभ्रातृका समग्राहा चार्धास्येत्यपरे विदुः ॥'
त्रैवार्विकाद्यदा भक्तादधिकं स्याद्द्विजस्य तु ।
यजेत तेन द्रव्येण न वृथा साधयेद्धनम् ॥
त्रिसहस्रपरो दायः स्त्रियै देयो धनस्य वै ।
भर्त्रा तच्च धनं दत्तं यथार्हं भोक्तुमर्हति ॥
स्त्रीणां तु पतिदायाद्यमुपभोगफलं स्मृतम् ।
नापहारं स्त्रियः कुर्युः पितृवित्तात्कथञ्चन ॥
स्त्रियास्तु यद्भवेद्वित्तं पित्रा दत्तं युधिष्ठिर ।
ब्राह्मण्यास्तद्धरेत्कन्या यथा पुत्रस्तथाऽस्य सा ॥
सा हि पुत्रसमा राजन्विहिता कुरुनन्दन । एवमेव समुद्दिष्टो धर्मो वै भरतर्षभ ।
एवं धर्ममनुस्मृत्य न वृथा साधयेद्धनम् ॥
युधिष्ठिर उवाच ।
शूद्रायां ब्राह्मणाज्जातो यद्यदेयधनः स्मृतः ।
केन प्रतिविशेषेण दशमोऽप्यस्य दीयते ॥
ब्राह्मण्यां ब्राह्मणाज्जातो ब्राह्मणः स्यान्न संशयः ।
क्षत्रियायां तथैव स्याद्वैश्यायामपि चैव हि ॥
कस्मात्तु विषमं भागं भजेरन्नृपसत्तम ।
यदा सर्वे त्रयो वर्णास्त्वयोक्ता ब्राह्मणा इति ॥
भीष्म उवाच ।
दारा इत्युच्यते लोके नाम्नैकेन परन्तप ।
प्रोक्तेनि चैव नाम्नाऽयं विशेषः सुमहान्भवेत् ॥
तिस्रः कृत्वा पुरो भार्याः पश्चाद्विन्देत ब्राह्मणीम् । सा ज्येष्ठा सा च पूज्या स्यात्सा च ताभ्यो गरीयसी
स्नानं प्रसाधनं भर्तुर्दन्तधावनमुञ्जनम् ।
हव्यं कव्यं च यच्चान्यद्धर्मयुक्तं गृहे भवेत् ॥
न तस्यां जातु तिष्ठन्त्यामन्या तत्कर्तुमर्हति ।
ब्राह्मणीत्वेव कुर्याद्वा ब्राह्मणस्य युधिष्ठिर ॥
अन्नं पानं च माल्यं च वासांस्याभरणानि च ।
ब्राह्मण्यैतानि देयानि भर्तुः सा हि गरीयसी ॥
मनुनाऽभिहितं शास्त्रं यच्चापि कुरुनन्दन ।
तत्राप्येष महाराज दृष्टो धर्मः सनातनः ॥
अथ चेदन्यथा कुर्याद्यदि कामाद्युधिष्ठिर ।
यथा ब्राह्मणचाण्डालः पूर्वदृष्टस्तथैव सः ॥
ब्राह्मण्याः सदृशः पुत्रः क्षत्रियायाश्च यो भवेत् ।
राजन्विशेषो यस्त्वत्र वर्णयोरुभयोरपि ॥
न तु जात्या समा लोके ब्राह्मण्याः क्षत्रिया भवेत् ।
ब्राह्मण्याः प्रथमः पुत्रो भूयान्स्याद्राजसत्तम ॥
भूयोभूयोपि संहार्यः पितृवित्ताद्युधिष्ठिर ।
यथा न सदृशी जातु ब्राह्मण्याः क्षत्रिया भवेत् ॥
क्षत्रियायास्तथा वैश्या न जातु सदृशी भवेत् ।
श्रीश्च राज्यं च कोशश्च क्षत्रियाणां युधिष्ठिर ॥
विहितं दृश्यते राजन्सागरान्तां च मेदिनीम् । क्षत्रियो हि स्वधर्मेण श्रियं प्राप्नोति भूयसीम् ।
राजा दण्डधरो राजन्रक्षा नान्यत्र क्षत्रियात् ॥
ब्राह्मणा हि महाभाग देवानामपि देवताः ।
तेषु राजा प्रवर्तेत पूजया विधिपूर्वकम् ॥
प्रणीतमृषिभिर्ज्ञात्वा धर्मं शाश्वतमव्ययम् ।
लुप्यमानं स्वधर्मेण क्षत्रियो रक्षति प्रजाः ॥
दस्युभिर्ह्रियमाणं च धनं दारांश्च सर्वशः ।
सर्वेषामेव वर्णानां त्राता भवति पार्थिवः ॥
भूयान्स्यात्क्षत्रियापुत्रो वैश्यापुत्रान्न संशयः ।
भूयस्तेनापि हर्तव्यं पितृवित्ताद्युधिष्ठिर ॥
युधिष्ठिर उवाच ।
उक्तं ते विधिवद्राजन्ब्राह्मणस्य पितामह ।
इतरेषां तु वर्णानां कथं वै नियमो भवेत् ॥
भीष्म उवाच ।
क्षत्रियस्यापि भार्ये द्वे विहिते कुरुनन्दन ।
तृतीया च भवेच्छूद्रा न तु दृष्टा न तु स्मूता ॥
एष एव क्रमो हि स्यात्क्षत्रियाणां युधिष्ठिर ।
अष्टधा तु भवेत्कार्यं क्षत्रियस्वं जनाधिप ॥
क्षत्रियाया हरेत्पुत्रश्चतुरोंशान्पितुर्धनात् ।
युद्धावहारिकं यच्च पितुः स्वात्स हरेत्तु तत् ॥
वैश्यापुत्रस्तु भागांस्त्रीञ्शूद्रापुत्रस्तथाष्टमम् । एकैव हि भवेद्भार्या वैश्यस्य कुरुनन्दन ।
द्वितीया तु भवेच्छूद्रा न तु दृष्टा न तु स्मृता ॥ वैश्यस्य वर्तमानस्य वैश्यायां भरतर्षभ ।
शूद्रायां चापि कौन्तेय तयोर्विनियमः स्मृतः ॥ पञ्चधा तु भवेत्कार्यं वैश्यस्वं भरतर्षभ ।
तयोरपत्ये वक्ष्यामि विभागं च जनाधिप ॥ वैश्यापुत्रेण हर्तव्याश्चत्वारोंशाः पितुर्धनात् ।
पञ्चमस्तु स्मृतोः भागः शूद्रापुत्राय भारत ॥ सोपि दत्तं हरेत्पित्रा नादत्तं हर्तुमर्हति ।
त्रिमिर्वर्णैः सदा जातः शूद्रो देयधनो भवेत् ॥
शूद्रस्य स्यात्सवर्णैव भार्या नान्या कथञ्चन ।
समभागाश्च पुत्राः स्युर्यदि पुत्रशतं भवेत् ॥
जातानां समवर्णायाः पुत्राणामविशेषतः ।
सर्वेषामेव वर्णानां समभागो धनात्स्मृतः ॥
ज्येष्ठस्य भागो ज्येष्ठः स्यादेकांशो यः प्रधानतः ।
एष दायविधिः पार्थ पूर्वमुक्तः स्वयंभुवा ॥
समवर्णासु जातानां विशेषोऽस्त्यपरो नृप ।
विवाहवैशिष्ट्यकृतः पूर्वपूर्वो विशिष्यते ॥
हरेज्ज्येष्ठः प्रधानांशमेकभार्यासुतेष्वपि ।
मध्यमो मध्यमं चैव कनीयांस्तु कनीयसम् ॥
एवं जातिषु सर्वासु सवर्णः श्रेष्ठतां गतः ।
महर्षिरपि चैतद्वै मारीचः काश्यपोऽब्रवीत् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्व्यशीतितमोऽध्यायः ॥ । 82 ॥

7-82-3 एवमृत्विगात्मस्त्रीशुद्धिमुक्त्वा धनशुद्ध्यर्थं दायविभागं प्रस्तौति ॥ 7-82-4 रतिमिच्छत एव विहिता नतु धर्मम् ॥ 7-82-6 किं कियत्प्रमाणम् ॥ 7-82-9 प्रायश्चित्तमात्मन इच्छति प्रायश्चित्तीयते ॥ 7-82-10 द्विगुणं प्रायश्चित्तम् ॥ 7-82-11 एकांशं मुख्यांशम् ॥ 7-82-12 तेनैव ब्राह्मणीपुत्रेणैव ॥ 7-82-20 समुत्पन्नं आनृशंस्यम् ॥ 7-82-23 वृथा यज्ञादिप्रयोजनंविना न साधयेत् ॥ 7-82-24 स्त्रियोऽधिको दायो न देय इत्यर्थः । तच्चतुर्धा धनं दत्तं नादत्तंभोक्तुमर्हतीति थ.ध. पाठः ॥ 7-82-25 कुर्युः पुत्रा इति शेषः । पतिवित्तात्कथं चनेति झ.पाठः । पतिवितात्पत्या दत्ताद्वित्तात् ॥ 7-82-27 धर्मो विभागप्रकारः । वृथा अन्यायेन ॥ 7-82-31 आद्रियन्ते त्रिधर्गार्तिमिरिति दारपदप्रवृत्तिनिमित्तमादरः । यतश्च भर्षा आदरस्तासु वर्णक्रमेण यथायोग्यं तारतम्यक्रमेण क्रियत इति तात्पुत्राणां भागवैषम्यं चास्तीत्यभिप्रायः ॥ 7-82-40 भूयोभूयोपि अधिकमधिकम् ॥ 7-82-47 उक्तं दायविभागादि ॥ 7-82-50 युद्धेऽवहियते तद्रथगजायुधकवचादिकं युद्धावहारिकम् ॥ 7-82-53 सवर्णाज्येष्ठतां गतेति थ.ध.पाठः ॥

श्रीः