अध्यायः 083

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति सङ्करजातीनां शीलविभागादिनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।

अर्थाश्रयाद्वा कामाद्वा वर्णानां चाप्यनिश्चयात् ।
अज्ञानाद्वापि वर्णानां जायते वर्णसङ्करः ॥
तेषामेतेन विधिना जातानां वर्णसङ्करे ।
को धर्मः कानि कर्माणि तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
चातुर्वर्ण्यस्य कर्माणि चातुर्वर्ण्यं च केवलम् ।
असृजत्स हि यज्ञार्थे पूर्वमेव प्रजापतिः ॥
भार्याश्चतस्नो विप्रस्य द्वयोरात्मा प्रजायते ।
आनुपूर्व्याद्द्वयोर्हीनौ मातृजात्यौ प्रसूयतः ॥
परं शवाद्ब्राह्मणस्यैव पुत्रः शूद्रापुत्रं पारशवं तमाहुः ।
शुश्रूषकः स्वस्य कुलस्य स स्या- त्स्वचारित्रं नित्यमथो न जह्यात् ॥
सर्वानुपायानथ सम्प्रधार्य समुद्धरेत्स्वस्य कुलस्य तन्त्रम् ।
ज्येष्ठो यवीयानपि यो द्विजस्य शुश्रूषया दानपरायणः स्यात् ॥
तिस्रः क्षत्रियसम्बन्धाद्द्वयोरात्माऽस्य जायते ।
हीनवर्णास्तृतीयायां शूद्रा उग्रा इति स्मृतिः ॥
द्वे चापि भार्ये वैश्यस्य द्वयोरात्माऽस्व जायते ।
शूद्रा शूद्रस्य चाप्येका शूद्रमेव प्रजायते ॥
अतोऽविशिष्टस्त्वधमो गुरुदारप्रधर्षकः ।
ब्राह्यं वर्णं जनयति चातुर्वर्ण्यविगर्हितम् ॥
अयाज्यं क्षत्रियो व्रात्यंक सूतं स्तोत्रक्रियापरम् ।
वैश्यो वैदेहकं चापि मौद्गल्यमपवर्जितम् ॥
शूद्रश्चण्डालमत्युग्रं वध्यघ्नं बाह्यवासिनम् । ब्राह्मण्यां सम्प्रजायन्त इत्येते कुलपांसनाः ।
एते मतिमतांश्रेष्ठ वर्णसङ्करजाः प्रभो ॥
बन्दी तु जायते वैश्यान्मागधो वाक्यजीवनः ।
शूद्रान्निषादो मत्स्यघ्नः क्षत्रियायां व्यतिक्रमात् ॥
शूद्रादायोगवश्चापि वैश्यायां ग्राम्यधर्मिणः ।
ब्राह्मणैरप्रतिग्राह्यस्तक्षा स्वधनजीवनः ॥
एतेऽपि सदृशान्वर्णाञ्जनयन्ति स्वयोनिषु ।
मातृजात्या प्रसूयन्ते ह्यवरा हीनयोनिषु ॥
यथा चतुर्षु वर्णेषु द्वयोरात्माऽस्य जायते ।
आनन्तर्यात्प्रजायन्ते यथा बाह्या प्रधानतः ॥
ते चापि सदृशं वर्णं जनयन्ति स्वयोनिषु ।
परस्परस्य दारेषु जनयन्ति विगर्हितान् ॥
यथा शूद्रोऽपि ब्राह्मण्यां जन्तुं बाह्यं प्रसूयते ।
एवं बाह्यतराद्बाह्यश्चातुर्वर्ण्यात्प्रजायते ॥
प्रतिलोमं तु वर्धन्ते बाह्योद्बाह्यतरात्पुनः ।
हीनाद्धीनाः प्रसूयन्ते वर्णाः पञ्चदशैव तु ॥
अगम्यागमनाच्चैव जायते वर्णसङ्करः । बाह्यानामनुजायन्ते सैरन्ध्र्यां मागधेषु च ।
प्रसाधनोपचारज्ञमदासं दासजीवनम् ॥
क्षत्रा ह्यायोगवं सूते वागुराबन्धजीवनम् ।
मैरेयकं च वैदेहः सम्प्रसूतेऽथ माधुकम् ॥
निषादो मद्गुरं सूते दासं नावोपजीविनम् । मृतपं चापि चाण्डालः श्वपाकमिति विश्रुतम्
चतुरो मागधी सूते क्रूरान्मायोपजीविनः ।
मांसं स्वादुकरं क्षौद्रं सौगन्धमिति विश्रुतम् ॥
वैदेहकाच्च पापिष्ठा क्रूरं मायोपजीविनम् ।
निषादान्मद्रनाभं च खरयानप्रयायिनम् ॥
चण्डालात्पुल्कसं चापि खराश्वगजभोजिनम् ।
भृतचैलप्रतिच्छन्नं भिन्नभाजनभोजिनम् ॥
आयोगवीषु जायन्ते हीनवर्णास्तु ते त्रयः ।
क्षुद्रो वैदेहकादन्धो बहिर्ग्रामप्रतिश्रयः ॥
कारावरो निषाद्यां तु चर्मकारः प्रसूयते ।
चाण्डालात्पाण्डुसौपाकस्त्वक्सारव्यवहारवान् ॥
आहिण्कों निषादेन वैदेह्यां सम्प्रसूयते ।
चण्डालेन तु सौपाकश्चण्डालसमवृत्तिमान् ॥
निषादी चापि चण्डालात्पुत्रमन्तेवसायिनम् ।
श्मशानगोचरं सूते बाह्यैरपि बहिष्कृतम् ॥
इत्येते सङ्करे जाताः पितृमातृव्यतिक्रमात् ।
प्रच्छन्नान्वा प्रकाशा वा वेदितव्याः स्वकर्मभिः ॥
चतुर्णामेव वर्णानां धर्मो नान्यस्य विद्यते ।
वर्णानां धर्महीनेषु सङ्ख्या नास्तीह कस्यचित् ॥
यदृच्छयोपसम्पन्नैर्यज्ञसाधुबहिष्कृतैः ।
बाह्या बाह्यैश्च जायन्ते यथावृत्ति यथाश्रयम् ॥
चतुष्पथश्मशानानि शैलांश्चान्यान्वनस्पतीन् । कार्ष्णायसमलङ्कारं परिगृह्य च नित्यशः ।
वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः ॥
युञ्जन्तो वाऽप्यलङ्कारांस्तथोपकरणानि च ।
गोब्राह्मणाय साहय्यं कुर्वाणा वै न संशयः ॥
आनृशंस्यमनुक्रोशः सत्यवाक्यं तथा क्षमा । स्वशरीरैरपि त्राणं बाह्यानां सिद्धिकारणम् ।
भवन्ति मनुजव्याघ्र तत्र मे नास्ति संशयः ॥
यथोपदेशं परिकीर्तितासु नरः प्रजायेत विचार्य बुद्धिमान् ।
निहीनयोनिर्हि सुतोऽवसादये- त्तितीर्षमाणं हि यथोपलो जले ॥
अविद्वांसमलं लोके विद्वांसमपि वा पुनः ।
नयन्ति ह्यपथं नार्यः कामक्रोधवशानुगम् ॥
स्वभावश्चैव नारीणां नराणामिह दूषणम् ।
अत्यर्थं न प्रसज्जन्ते प्रमदासु विपश्चितः ॥
युधिष्ठिर उवाच ।
वर्णापेतमविज्ञाय नरं कलुषयोनिजम् ।
आर्यरूपमिवानार्यं कथं विद्यामहे वयम् ॥
भीष्म उवाच ।
योनिसङ्कलुषे जातं नानाभावसमन्वितम् ।
कर्मभिः सज्जनाचीर्णैर्विज्ञेयाः शुद्धयोनिकाः ॥
अनार्यत्वमनाचारः क्रूरत्वं निष्क्रियात्मता ।
पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् ॥
पित्र्यं वा भजते शीलं मातृजं वा तथोभयम् ।
न कथञ्च सङ्कीर्णः प्रवृतिं स्वां नियच्छति ॥
यथैव सदृसो रूपे मातावित्रोर्हि जायते ।
व्याघ्रबिन्दोस्तथा योनिं पुरुषः स्वां नियच्छति ॥
कुले स्रोतसि संच्छन्ने यस्य स्याद्योनिसङ्करः ।
संश्रयत्येव तच्छीलं नरोऽल्पमथवा बहु ॥
आर्यरूपसमाचारं चरन्तं कृतके पथि ।
सवर्णमन्यवर्णं वा स्वशीलं सास्ति निश्चये ॥
नानावृत्तेषु भूतेषु नानाक्रमरतेषु च ।
जन्मवृत्तसमं लोके सुश्लिष्टं न विरज्यते ॥
शरीरमिह सत्वेन न तस्य परिकृष्यते ।
ज्येष्ठमध्यावरं सत्वं तुल्यसत्वं प्रमोदते ॥
ज्यायांसमपि शीलेन विहीनं नैव पूजयेत् ।
अपि शूद्रं च धर्मज्ञं सद्वृत्तमभिपूजयेत् ॥
आत्मानमाख्याति हि कर्मभिर्नरः सुशीलचारित्रकुलैः शुभाशुभैः ।
प्रनष्टमप्यात्मकुलं तथा नरः पुनः प्रकाशं कुरुते स्वकर्मतः ॥
योनिष्वेतासु सर्वासु सङ्कीर्णास्वितरासु च ।
यत्रात्मानं न जनयेद्बुधस्तां परिवर्जयेत् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्र्यशीतितमोऽध्यायः ॥ 83 ॥

7-83-2 एतेन उक्तेन । विधिना प्रकारेण ॥ 7-83-3 शूद्राणां सेवाद्वारा यज्ञार्थत्वं नतु साक्षात् ॥ 7-83-4 मातृजात्यौ वैश्यायां वैश्योऽम्बष्ठो नाम । शूद्रायां शूद्रो निषादो नाम पारशवाख्यो भवति ॥ 7-83-5 शवस्थानतुल्याच्छूद्रात्परमुत्कृष्टम् । परोंशभाग्ब्राह्मणस्यैव पुत्र इति थ.ध.पाठः ॥ 7-83-6 तन्त्रमुपकरणम् । वयसा ज्येष्ठोऽपि पारशवो द्विजस्य त्रिवर्णजस्य यवीयान् कनीयानेवेति सम्बन्धः ॥ 7-83-9 अतः स्वपितुरविशिष्ठो नाधिकः सन्नधमः शूद्रो गुरूणां ब्राह्मणादीनां दारप्रधर्षकश्चेत् बाह्यं चाण्डालादिम् ॥ 7-83-10 विप्रायां क्षत्रियो बाह्यं सूतं स्तोमक्रियापरमिति झ.पाठः ॥ 7-83-11 वध्यानां चोरादीनां शिरश्छेदादिकार्यकारिणं वद्यघ्नम् ॥ 7-83-30 चातुर्वर्ण्यस्यैव धर्माः *****न्ने दिहिताः इतरेषां इतरेषां तु जातिभेदानां धर्मनियम इयता च नास्ति ॥ 7-83-35 निहीन*** रेतःसेक न कुर्यादिति भावः ॥ 7-83-38 कलुषयोनिजं सङ्करयोनिजम् ॥ 7-83-39 नानाभावैरार्येभ्यः पृथग्भूताभिश्चेष्टाभिः समन्वितं नरं सङ्करयोनिजं जानीयात् ॥ 7-83-41 प्रकृतिं योनिम् । नियच्छति गूहितुं न शक्नोतीत्यर्थः ॥ 7-83-42 यथा तिर्यक्स्थारादिकं बीजगुणं न त्यजत्येवं मनुष्योऽपीत्यर्थः ॥ 7-83-43 सञ्चन्ने सुगुप्तेऽपि यस्य जन्मनीति शेषः । सः तच्छीलं सङ्करकर्तुः स्वभावम् ॥ 7-83-46 तस्य सङ्करजस्य शरीरं सत्वेन शास्त्रीयबुद्ध्या न परिकृष्यते न नीचमार्गादपकृष्यते । बीजगुणस्य प्राबल्यात् ॥

श्रीः