अध्यायः 084
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरम्प्रत्यौरसादिपुत्रनिरूपणम् ॥ 1 ॥
युधिष्ठिर उवाच ।
ब्रूहि तात कुरुश्रेष्ठ वर्णानां त्वं पृथक् पृथक् ।
कीदृश्यां कीदृशाश्चापि पुत्राः कस्य च के च ते ॥
विप्रवादाः सुबहवः श्रूयन्ते पुत्रकारिणाम् ।
अत्र नो मुह्यतां राजन्संशयं छेत्तुमर्हसि ॥
भीष्म उवाच ।
`आत्मा पुत्रस्तु विज्ञेयः प्रथमो बहुधा परे ॥
स्वे क्षेत्रे संस्कृते यस्तु पुत्रमुत्पादयेत्स्वयम् ।
तमौरसं विजानीयात्पुत्रं प्रथमकल्पितम् ॥
अग्निं प्रजापतिं चेष्ट्वा वराय प्रतिपादिता ।
पुत्रिका स्याद्दुहितरि सङ्कल्पे वाऽपि वा सुतः ॥
तल्पे जातः प्रमीतस्य क्लीबस्य पतितस्य वा ।
स्वधर्मेण नियुक्तो यः स पुत्रः क्षेत्रजः स्मृतः ॥
माता पिता च दद्यातां यमद्भिः पुत्रमापदि ।
सदृशप्रीतिसंयुक्तो विज्ञेयो दत्रिमः सुतः ॥
सदृशं तु प्रकुर्याद्यं गुणदोषविचक्षणम् ।
पुत्रं पुत्रगुणैर्युक्तं विज्ञेयः स तु कृत्रिमः ॥
उत्पद्यते यस्य गूढं न च ज्ञायेत कस्यचित् ।
स भवेद्गूढजो नाम तस्य स्याद्यस्य तल्पतः ॥
मातापितृभ्यामुत्सृष्टस्तयोरन्यतरेण वा ।
यं पुत्रं प्रतिगृह्णीयादपविद्धः स उच्यते ॥
पितृवेश्मनि कन्या तु यं पुत्रं जनयेद्रहः ।
तं कानीनं वदन्नाम्ना वोढुः कन्यासमुद्भवे ॥
या गर्भिणी संस्क्रियते ज्ञाताऽज्ञातापि वा सती ।
वोढुः स गर्भो भवति सहोढ इति उच्यते ॥
क्रीणीयाद्यस्त्वपर्यार्थं मातापित्रोर्यमन्तिकात् ।
स क्रीतकः सुतस्तस्य सदृशोऽसदृशोपि वा ॥
या पत्या वा परित्यक्ता विधवा वा स्वकेच्छया ।
उत्पादयति पुनर्भूत्वा स पौनर्भव उच्यते ॥
सा चेदक्षतयोनिः स्याद्गतप्रत्याङ्गताऽपि वा ।
पौनर्भवेन भर्त्रा सा पुनसंस्कारमर्हति ॥
मातापितृहनो यः स्यात्त्यक्तो वा स्यादकारणम् ।
आत्मानं स्पर्शयेद्यस्तु स्वयंदत्तस्तु स स्मृतः ॥
यं ब्राह्मणस्तु शूद्रायां कामादुत्पादयेत्सुतम् ।
स पावयन्नेव शवस्तस्मात्पारशवः स्मृतः ॥
दास्यां वा दासदास्यां वा यः शूद्रस्य सुतो भवेत् ।
सोऽनुज्ञातो हरेदंशमिति धर्मो व्यवस्थितः ॥
क्षेत्रजादीन्सुतानेतानेकादश यथोदितान् ।
पुत्रप्रतिनिधीनाहुः क्रियालोपान्मनीषिणः ॥
प्रातॄणामेकजातानामेकश्चेत्पुत्रवान्भवेत् ।
सर्वांस्तांस्तेन पुत्रेण पुत्रिणो मनुरब्रवीत् ॥
सर्वासामेकपत्नीनामेका चेत्पुत्रिणी भवेत् ।
सर्वास्तास्तेन पुत्रेण प्राह पुत्रवतीर्मनुः ॥
आत्मा पुत्रश्च विज्ञेयस्तस्यानन्तरजश्च यः ।
निरुक्तजश्च विज्ञेयः सुतः प्रसृतजस्तथा ॥
पतितस्य तु भार्याया भर्त्रा सुसमवेतया ।
तथा दत्तकृतौ पुत्रावध्यूढश्च तथाऽपरः ॥
षडपध्वंसजाश्चापि कानीनापसदास्तथा ।
इत्येते वै समाख्यातास्तान्विजानीहि भारत ॥
युधिष्ठिर उवाच ।
षडपध्वंसजाः के स्युः के वाऽप्यपसदास्तथा ।
एतत्सर्वं यथातत्त्वं व्याख्यातुं मे त्वमर्हसि ॥
भीष्म उवाच ।
त्रिषु वर्णेषु ये पुत्रा ब्राह्मणस्य युधिष्ठिर ।
वर्णयोश्च द्वयोः स्यातां यौ राजन्यस्य भारत ॥
एको द्विवर्ण एवाथ तथाऽत्रैवोपलक्षितः ।
षडपध्वंसजास्ते हि तथैवापसदाञ्शृणु ॥
चाण्डालो व्रात्यवर्णौ तु ब्राह्मण्यां क्षत्रियासु च ।
वैश्यायां चैव शूद्रस्य लक्ष्यास्तेऽपसदास्त्रयः ॥
मागधो वामकश्चैव द्वौ वैश्यस्योपलक्षितौ ।
ब्राह्मण्यां क्षत्रियायां च क्षत्रियस्यैक एव तु ॥
ब्राह्मण्यां लक्ष्यते सूत इत्येतेऽपसदाः स्मृताः ।
पुत्रा ह्येते न शक्यन्ते मिथ्या कर्तुं नराधिप ॥
युधिष्ठिर उवाच ।
क्षेत्रजं केचिदेवाहुः सुतं केचित्तु शुक्रजम् ।
तुल्यावेतौ सुतौ कस्य तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
रेतजो वा भवेत्पुत्रः पुत्रो वा क्षत्रेजो भवेत् ।
अध्यूढः समयं भित्त्वेत्येतदेव निबोध मे ॥
युधिष्ठिर उवाच ।
रेतजं विद्म वै पुत्रं क्षत्रेजस्यागमः कथम् ।
अध्यूढं विद्म वै पुत्रं भित्त्वा तु समयं कथम् ॥
भीष्म उवाच ।
आत्मजं पुत्रमुत्पाद्य यस्त्यजेत्कारणान्तरे ।
न तत्र कारणं रेतः स क्षेत्रस्वामिनो भवेत् ॥
पुत्रकामो हि पुत्रार्थे यां वृणीते विशाम्पते ।
तत्र क्षेत्रं प्रमाणं स्यान्न वै तत्रात्मजः सुतः ॥
अन्यत्र क्षेत्रजः पुत्रो लक्ष्यते भरतर्षभ ।
न ह्यात्मा शक्यते हन्तुं दृष्टान्तोपगतो ह्यसौ ॥
क्वचिच्च कुतकः पुत्रः सङ्ग्रहादेव लक्ष्यते ।
न तत्र रेतः क्षेत्रं वा प्रमाणं स्याद्युधिष्ठिर ॥
युधिष्ठिर उवाच ।
कीदृशः कृतकः पुत्रः सङ्ग्रहादेव लक्ष्यते ।
शुक्रं क्षेत्रं प्रमाणं वा यत्र लक्ष्यं न भारत ॥
भीष्म उवाच ।
मातापितृभ्यां यस्त्यक्तः पथि यस्तं प्रकल्पयेत् ।
न चास्य मातापितरौ ज्ञायेतां स हि कृत्रिमः ॥
अस्वामिकस्य स्वामित्वं यस्मिन्सम्प्रतिलक्ष्यते ।
यो वर्णः पोषयेत्तं च तद्वर्णस्तस्य जायते ॥
युधिष्ठिर उवाच ।
कथमस्य प्रयोक्तव्यः संस्कारः कस्य वा कथम् ।
देया कन्या कथं चेति तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
आत्मवत्तस्य कुर्वीत संस्कारं स्वामिवत्तथा ।
त्यक्तो मातापितृभ्यां यः सवर्णं प्रतिपद्यते ॥
तद्गोत्रबन्धुजं तस्य कुर्यात्संस्कारमच्युत ।
अथ देया तु कन्या स्यात्तद्वर्णस्य युधिष्ठिर ॥
संस्कर्तुं वर्णगोत्रं च मातृवर्णविनिश्चये ।
कानीनाध्यूढजौ वाऽपि विज्ञेयौ पुत्रकिल्बिषौ ॥
कानीनाध्यूढजौ वाऽपि विज्ञेयौ पुत्रकिल्बिषौ ॥
तावपि स्वाविव सुतौ संस्कार्याविति निश्चयः ।
क्षेत्रजो वाऽप्यपसदो येऽध्यूढास्तेषु चाप्युत ॥
आत्मवद्वै प्रयुञ्जीरन्संस्कारान्ब्राह्मणादयः ।
`स्वं जन्मे मातृगोत्रेण संस्कारं ब्राह्मणादयः ॥'
धर्मशास्त्रेषु वर्णानां निश्चयोऽयं पदृश्यते ।
एतत्ते सर्वमाख्यातं किं भूयः श्रोतुमिच्छसि ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुरशीतितमोऽध्यायः ॥ 84 ॥
7-84-2 विप्रवादाः विविधाः प्रवादः पूर्वोक्ता एव ॥ 7-84-6
तल्पे कलत्रे ॥ 7-84-22 अनन्तरजः औरसः निरुक्तजः स्वक्षेत्रेऽन्यो
रेतःसेकार्थमुक्तस्तज्जः । प्रसृतोऽनिरुक्तोऽपि यो लौल्यात्परक्षेत्रे रेतः
सिञ्चति तज्जः प्रसृतजः ॥ 7-84-23 तथा पतितात्स्वभार्यायामेव जातः । भार्यायाः
तृतीयार्थे षष्ठी । दत्तः पञ्चमः । कृतः क्रीतः स्वयमुपायगम्यो वा षष्ठः । अध्यूढः
यस्य माता गर्भवत्येव ऊढा तादृशः सप्तमः ॥ 7-84-24 षडपध्वंसजा वक्ष्यमाणाः ।
कानीनः कन्यायां विवाहात् प्रागुत्पन्नश्चतुर्दशः । अपसदा वक्ष्यमाणाः षट् । एते
विंशतिः । तान्सर्वान् पुत्रानिति विजानीहि ॥ 7-84-34 कारणान्तरे लोकापवादादिभये
सति ॥ 7-84-35 यां गर्भवती कन्यां वृणीते तत्र स पुत्रो वोदुरेव क्षेत्रजो नतु
सेक्तुरात्मज ॥
श्रीः