अध्यायः 085

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति महद्दर्शनसहवासयोर्गवां च प्रभावबोधनाय च्यवनोपाख्यानकथनारम्भः ॥ 1 ॥ गङ्गायमुना सङ्गमेऽन्तर्जले निमज्य तपस्यतश्च्यवनस्य दाशैर्जालेन जलचरैः सह कूलप्रापणम् ॥ 2 ॥ दाशैः प्रार्थितेन तेन तान्प्रति मत्स्यै सह स्वस्य प्राणजालान्यतरस्मान्मोचनचोदना ॥ 3 ॥

युधिष्ठिर उवाच ।

दर्शने कीदृशः स्नेहः संवासे च पितामह ।
महाभाग्यं गवां चैव तन्मे व्याख्यातुमर्हसि ॥
भीष्म उवाच ।
हन्त ते कथयिष्यामि पुरावृत्तं महाद्युते ।
नहुषस्य च संवादं महर्षेश्च्यवनस्य च ॥
पुरा महर्षिश्च्यवनो भार्गवो भरतर्षभ ।
उदवासकृतारम्भो बभूव स महाव्रतः ॥
निहत्य मानं क्रोधं च प्रहर्षं शोकमेव च ।
वर्षाणि द्वादश मुनिर्जलवासे धृतव्रतः ॥
आदधत्सर्वभूतेषु विस्रम्यं परमं शुभम् ।
जलेचरेषु सर्वेषु शीतरश्मिरिव प्रभुः ॥
स्थाणुभूतः शुचिर्भूत्वा दैवतेभ्यः प्रणम्य च ।
गङ्गायमुनयोर्मध्ये जलं सम्प्रविवेश ह ॥
गङ्गायमुनयोर्वेगं सुभीमं भीमनिःस्वनम् ।
प्रतिजग्राह शिरसा वातवेगसमं जवे ॥
गङ्गा च यमुना चैव सरितश्च सरांसि च ।
प्रदक्षिणमृषिं चक्रुर्न चैनं पर्यपीडयन् ॥
अन्तर्जलेषु सुष्वाप काष्ठभूतो महामुनिः ।
ततश्चोर्ध्वस्थितो धीमानभवद्भरतर्षभ ॥
जलौकसां ससत्वानां बभूव प्रियदर्शनः । उपाजिघ्नन्त च तदा मत्स्यास्तं हृष्टमानसाः ।
तत्र तस्यासतः कालः समतीतोऽभवन्महान् ॥
ततः कदाचित्समये कस्मिंश्चिन्मत्स्यजीविनः ।
तं देशं समुपाजग्मुर्जालहस्ता महाद्युते ॥
निषादा बहवस्तत्र मत्स्योद्धरणनिश्चयाः । व्यायता बलिनः शूराः सलिलेष्वनुवर्तिनः ।
अभ्याययुश्च तं देशं निश्चिता जालकर्म्णि ॥
जालं ते योजयामासुर्नवसूत्रकृतं दृढम् ।
मत्स्योद्धरणमाकर्षस्तदा भरतसत्तम ॥
ततस्ते बहुभिर्योगैः कैवर्ता मत्स्यकाङ्क्षिणः ।
गङ्गायमुनयोर्वारि जालेनावकिरन्ति ते ॥
जालं सुविततं तेषां नवसूत्रकृतं तथा ।
विस्तारायामसम्पन्नं यत्तत्र सलिले क्षमम् ॥
ततस्ते सुमहच्चैव बलवच्च सुवर्तितम् ।
अवतीर्य ततः सर्वे जालं चकृषिरे तदा ॥
अभीतरूपाः संहृष्टा अन्योन्यवशवर्तिनः ।
बबन्धुस्तत्र मत्स्यांश्च तथाऽन्याञ्जलचारिणः ॥
तथा मत्स्यैः परिवृतं च्यवनं भृगुनन्दनम् ।
आकर्षयन्महाराज जालेनाथ यदृच्छया ॥
नदीशैवलदिग्धाङ्गं हरिश्मश्रुजटाधरम् । लग्नैः शङ्खनखैर्गात्रे क्रोडैश्चित्रैरिवार्पितम् ।
तं जालेनोद्धृतं दृष्ट्वा ते तदा वेदपारगम् ।
सर्वे प्राञ्जलयो दाशाः शिरोभिः प्रापतन्भुवि ॥
परिखेदपरित्रासाज्जालस्याकर्षणेन च ।
मत्स्या बभूवुर्व्यापन्नाः स्थलसंस्पर्शनेन च ॥
स मुनिस्तत्तदा दृष्ट्वा मत्स्यानां कदनं कृतम् ।
बभूव कृपयाविष्टो निःश्वसंश्च पुनःपनः ॥
निषादा ऊचुः ।
अज्ञानाद्यत्कृतं पापं प्रसादं तत्र नः कुरु ।
करवाम प्रिय किं ते तन्नो ब्रूहि महामुने ॥
इत्युक्तो मत्स्यमध्यस्थश्च्यवनो वाक्यमब्रवीत् ।
यो मेऽद्य परमः कामस्तं शृणुध्वं मसाहिताः ॥
प्राणोत्सर्गं विसर्गं वा मत्स्यैर्यास्याम्यहं सह ।
संवासान्नोत्सहे त्यक्तुं सलिलेऽध्युपितानहम् ॥
इत्युक्तास्ते निषादास्तु सुभृशं भयकम्पिताः ।
सर्वे विवर्णवदना नहुषाय न्यवेदयन् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि पश्चाशीतितमोऽध्यायः ॥ 85 ॥

7-85-1 परपीडादर्शने परैः सह संवासे च कीदृशः स्नेह आतृशंस्यं च कर्तव्यम् । गवां माहात्म्यं च ब्रूहीति प्रश्नदूयम् ॥ 7-85-8 सरितश्च तथानुगा इति ट.थ.ध.पाठः ॥ 7-85-9 ऊर्ध्वस्थितः उपविष्टः ॥ 7-85-10 आसतः आसीनस्य ॥ 7-85-19 शङ्खानां जलजन्तुविशेषाणां नखानि तैः ॥

श्रीः