अध्यायः 090

अथ दानधर्मपर्व ॥ 1 ॥

च्यवनेन कुशिकम्प्रति स्वस्य तद्गृहे निवासादेः कारणकथनम् ॥ 1 ॥ तथा तस्य ब्राह्मण्यप्राप्तीच्छावगमेन तत्पौत्रादेस्तल्लाभवरदानम् ॥ 2 ॥

च्यवन उवाच ।

वरश्च गृह्यतां मत्तो यश्च ते संशयो हृदि ।
तं प्रब्रूदि नरश्रेष्ठ सर्वं सम्पादयामि ते ॥
कुशिक उवाच ।
यदि प्रीतोसि भगवंस्ततो मे वद भार्गव ।
कारणं श्रोतुसिच्छमि मद्गृहे वासकारितम् ॥
शयनं चैकपार्श्वेन दिवसानेकविंशतिम् ।
न किञ्चिदुक्त्वा गमनं बहिश्च मुनिपुङ्गवः ॥
अन्तर्धानमकस्माच्च पुनरेव च दर्शनम् ।
पुनश्च शयनं विप्र दिवसानेकविंशतिम् ॥
तैलाभ्यक्तस्य गमनं भोजनं च गृहे मम ।
समुपानीय विविधं यद्दग्धं जातवेदसा ॥
निर्याणां च रथेनाशु सहसा यत्कृतं त्वया ।
धनानां च विसर्गश्च वनस्यापि च दर्शनम् ॥
प्रासादानां बहूनां च काञ्चनानां महामुने ।
मणिविद्रुमपादानां पर्यङ्काणां च दर्शनम् ॥
पुनश्चादर्शनं तस्य श्रोतुमिच्छामि कारणम् ।
अतीव ह्यत्र मुह्यामि चिन्तयानो भृगूद्वह ॥
न चैवात्राधिगच्छामि सर्वस्यास्य विनिश्चयम् ।
एतदिच्छामि कार्त्स्न्येन सत्यं श्रोतुं तपोधन ॥
च्यवन उवाच ।
शृणु सर्वमशेषेणि यदिदं येन हेतुना ।
न हि शक्यमनाख्यातुमेवं पृष्टेन पार्थिव ॥
पितामहस्य वदतः पुरा देवसमागमे । श्रुतवानस्मि यद्राजंस्तन्मे निगदतः शृणु ।
ब्रह्मक्षत्रविरोधेन भविता कुलसङ्करः ।
पौत्रस्ते भविता राजंस्तेजोवीर्यसमन्वितः ॥
ततः स्वकुलरक्षार्थमहं त्वां समुपागतः ।
चिकीर्षन्कुशिकोच्छेदं संदिधक्षुः कुलं तव ॥
ततोऽहमागम्य पुरे त्वामवोचं महीपते ।
नियमं कञ्चिदारप्सये शुश्रूषा क्रियतामिति ॥
न च ते दुष्कृतं किञ्चिदहमासादयं गृहे ।
तेन जीवसि राजर्षे न भवेथास्त्वमन्यथा ॥
एवं बुद्धिं समास्थाय दिवसानेकविंशतिम् ।
सुप्तोस्मि यदि मां कश्चिद्बोधयेदिति पार्थिव ॥
यदा त्वया सभार्येण संसुप्तो न प्रबोधितः ।
अहं तदैव ते प्रीतो मनसा राजसत्तम ॥
उत्थाय चास्मि निष्क्रान्तो यदि मां त्वं महीपते ।
पृच्छेः क्व यास्यसीत्येवं शपेयं त्वामिति प्रभो ॥
अन्तर्हितः पुनश्चास्मि पुनरेव च ते गृहे ।
योगमास्थाय संसुप्तो दिवसानेकविंशतिम् ॥
क्षुधितौ मामसूयेथां श्रमाद्वेति नराधिप ।
एतां बुद्धिं समास्थाय कर्शितौ वां क्षुधा मया ॥
न च तेऽभूत्सुसूक्ष्मोपि मन्युर्मनसि पार्थिव ।
सभार्यस्य नरश्रेष्ठ तेन ते प्रीतिमानहम् ॥
भोजनं च समानाय्य यत्तदादीपितं मया ।
क्रुध्येथा यदि मात्सर्यादिति तन्मर्षितं च मे ॥
ततोऽहं रथमारुह्य त्वामवोचं नराधिप ।
सभार्यो मां वहस्वेति तच्च त्वं कृतवांस्तथा ॥
अविशङ्को नरपते प्रीतोऽहं चापि तेन ह ।
धनोत्सर्गेऽपि च कृते न त्वां क्रोधोप्यधर्षयत् ॥
ततः प्रीतेन ते राजन्पुनरेतत्कृतं तव ।
सभार्यस्य वनं भूयस्तद्विद्धि मनुजाधिप ॥
प्रीत्यर्थं तव चैतन्मे स्वर्गसंदर्शनं कृतम् ।
यत्ते वनेऽस्मिन्नृपते दृष्टं दिव्यं सुदर्शनम् ॥
स्वर्गोद्देशस्त्वया राजन्सशरीरेण पार्थिव ।
मुहूर्तमनुभूतोऽसौ सभार्येण नृपोत्तम ॥
निदर्शनार्थं तपसो धर्मस्य च नराधिप ।
तत्र नासीत्स्पृहा राजंस्तच्चापि विदितं मया ॥
ब्राह्मण्यं काङ्क्षसे हि त्वं तपश्च पृथिवीपते ।
अवमत्य नरेन्द्रत्वं देवेन्द्रत्वं च पार्थिव ॥
एवमेतद्यथातत्वं ब्राह्मण्यं तात दुर्लभम् ।
ब्राह्मण्ये सति चर्षित्वमृषित्वे च तपस्विता ॥
भविष्यत्येष ते कामः कुशिकात्कौशिको द्विजः ॥
तृतीयं पुरुषं प्राप्य ब्राह्मणत्वं गमिष्यति ।
वंशस्ते पार्थिवश्रेष्ठ भृगूणामेव तेजसा ॥
पौत्रस्ते भविता विप्रस्तपस्वी पावकद्युतिः । `जमदग्नौ महाभाग तपसा भावितात्मनि ॥'
यः स देवमनुष्याणआं भयमुत्पादयिष्यति ।
त्रयाणामेव लोकानां सत्यमेतद्ब्रवीमि ते ॥
वरं गृहाण राजर्षे यस्ते मनसि वर्तते ।
तीर्थयात्रां गमिष्यामि पुरा कालोऽतिवर्तते ॥
कुशिक उवाच ।
एष एव वरो मेऽद्य यत्त्वं प्रीतो महामुने ।
भवत्वेतद्यथार्थत्वं भवेत्पौत्रो ममानघ ॥
ब्राह्मण्यं मे कुलस्यास्तु भगवन्नेष मे वरः ।
पुनश्चाख्यातुमिच्छामि भगवन्विस्तरेण वै ॥
कथमेष्यति विप्रत्वं कुलं मे भृगुनन्दन ।
कश्चासौ भविता बन्धुर्मम कश्चापि सम्मतः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि नवतितमोऽध्यायः ॥ 90 ॥

श्रीः