अध्यायः 091

अथ दानधर्मपर्व ॥ 1 ॥

च्यवनेन कुशिकम्प्रति स्वकुले जनिष्यत ऋचीकस्यानुभावेन तद्भार्याश्वश्र्वो कुशिकपौत्रस्य गाधेः पुत्रीपत्र्योः क्रमेण पौत्रपुत्रभावेन परशुरामविश्वामित्रयोर्जन्मकथनम् ॥ 1 ॥

च्यवन उवाच ।

अवश्यं कथनीयं मे तवैतन्नरपुङ्गव ।
यदर्थं त्वाहमुच्छेत्तुं सम्प्राप्तो मनुजाधिप ॥
भूगूणां क्षत्रिया याज्या नित्यमेतज्जनाधिप ।
ते च भेदं गमिष्यन्ति दैवयुक्तेन हेतुना ॥
क्षत्रियाश्च भृगून्सर्वान्वधिष्यन्ति नराधिप ।
आगर्भादनुकृन्तन्तो दैतदण्डनिपीडिताः ॥
तत उत्पत्स्यतेऽस्माकं कुले गोत्रविवर्धनः ।
और्वो नाम महातेजा ज्वलितार्कसमद्युतिः ॥
स त्रैलोक्यविनाशाय कोपाग्निं जनयिष्यति । महीं सपर्वतवनां यः करिष्यति भस्मसात् ।
कञ्चित्कालं तु वह्निं च स एव शमयिष्यति । समुद्रे वडवावक्त्रे प्रक्षिप्य मुनिसत्तमः ।
पुत्रं तस्य महाराज ऋचीकं भृगुनन्दनम् ।
साक्षात्कृत्स्नो धनुर्वेदः समुपस्थास्यतेऽनघ ॥
क्षत्रियाणामभावाय दैवयुक्तेनु हेतुना ।
स तु तं प्रतिगृह्यैव पुत्रे संक्रामयिष्यति ॥
जमदग्नौ महाभागे तपसा भावितात्मनि ।
स चापि भृगुशार्दूलस्तं वेदं धारयिष्यति ॥
कुलात्तु तव धर्मात्मन्कन्यां सोऽधिगमिष्यति ।
उद्भावनार्थं भवतो वंशस्य भरतर्षभ ॥
`क्षत्रहन्ता भवेद्धिंस्र इति दैवं सनातनम् । नारायणमुपास्यास्य वरात्तं पुत्रमृच्छति ॥'
गाधेर्दुहितरं प्राप्यि पौत्रीं तव महातपाः ।
ब्राह्मणं क्षत्रधर्माणं पुत्रमुत्पादयिष्यति ॥
क्षत्रियं विप्रधर्माणं बृहस्पतिमिवौजसा । विश्वामित्रं तव कुले गाधेः पुत्रं सुधार्मिकम् ।
तपसा महता युक्तं प्रदास्यति महाद्युते ॥
स्त्रियौ तु कारणं तत्र परिवर्ते भविष्यतः ।
पितामहनियोगाद्वै नान्यथैतद्भविष्यति ॥
तृतीये पुरुषे तुभ्यं ब्राह्मणत्वमुपैष्यति ।
भविता त्वं च सम्बन्धी भृगूणां भावितात्मनाम् ॥
भीष्म उवाच ।
कुशिकस्तु मुनेर्वाक्यं च्यवनस्य महात्मनः । श्रुत्वा हृष्टोऽभवद्राजा वाक्यं चेदमुवाच ह ।
एवमस्त्विति धर्मात्मा तदा भरतसत्तम ॥
च्यवनस्तु महातेजाः पुनरेव नराधिपम् ।
वरार्थं चोदयामास तमुवाच स पार्थिवः ॥
बाढमेवं ग्रहीष्यामि कामांस्त्वत्तो महामुने ।
ब्रह्मभूतं कुलं मेऽस्तु धर्मे चास्य मनो भवेत् ॥
एवमुक्तस्तथेत्येवं प्रत्युक्त्वा च्यवनो मुनिः ।
अभ्यनुज्ञाय नृपतिं तीर्थयात्रां ययौ तदा ॥
एतत्ते कथितं सर्वमशेषेण मया नृप ।
भृगूणां कुशिकानां च अभिसम्बन्धकारणम् ॥
यथोक्तमृषिणा चापि तदा तदभवन्नृप ।
जन्म रामस्य च मुनेर्विश्वामित्रस्य चैव हि ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकनवतितमोऽध्यायः ॥ 91 ॥

7-91-15 तुभ्यं तव । ब्राह्मणत्वं कर्तृ ॥

श्रीः