अध्यायः 093

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति तटाकादिप्रतिष्ठाया वृक्षाद्यारोपणस्य च फलनिरूपणम् ॥ 1 ॥

युधिष्ठिर उवाच ।

आरामाणां तटाकानां यत्फलं कुरुपुङ्गव ।
तदहं श्रोतुमिच्छामि त्वत्तोऽद्य भरतर्षभ ॥
भीष्म उवाच ।
सुप्रदर्शा बलवती चित्रा धातुविभूषिता ।
उपेता सर्वभूतैश्च श्रेष्ठा भूमिरिहोच्यते ॥
तस्याः क्षेत्रविशेषाश्च तटाकानां च बन्धनम् ।
औदकानि च सर्वाणि प्रवक्ष्याम्यनुपूर्वशः ॥
तटाकानां च वक्ष्यामि कृतानां चापि ये गुणाः ।
त्रिषु लोकेषु सर्वत्र पूजनीयस्तटाकवान् ॥
अथवा मित्रसदनं मैत्रं मित्रविवर्धनम् ।
कीर्तिसंजननं श्रेष्ठं तटाकानां निवेशनम् ॥
धर्मस्यार्थस्य कामस्य फलमाहुर्मनीषिणः ।
तटाकसुकृतं देशे क्षेत्रमेकं महाश्रयम् ॥
चतुर्विधानां भूतानां तटाकमुपलक्षयेत् ।
तटाकानि च सर्वाणि दिशन्ति श्रियमुत्तमाम् ॥
देवा मनुष्यगन्धर्वाः पितरोरगराक्षसाः ।
स्थावराणि च भूतानि संश्रयन्ति जलाशयम् ॥
तस्मात्तांस्ते प्रवक्ष्यामि तटाके ये गुणाः स्मृताः ।
या च तत्र फलावाप्तिर्ऋषिभिः समुदाहृताः ॥
वर्षाकाले तटाके तु सलिलं यस्य तिष्ठति ।
अग्निहोत्रफलं तस्य फलमाहुर्मनीषिणः ॥
शरत्काले तु सलिलं तटाके यस्य तिष्ठति ।
गोसहस्रस्य स प्रेत्य लभते फलमुत्तमम् ॥
हेमन्तकाले सलिलं तटाके यस्य तिष्ठति ।
स वै बहुसुवर्णस्य यज्ञस्य लभते फलम् ॥
यस्य वै शैशिरे काले तटाके सलिलं भवेत् ।
तस्याग्निष्टोमयज्ञस्य फलमाहुर्मनीषिणः ॥
तटाकं सुकृतं यस्य वसन्ते तु महाश्रयम् ।
अतिरात्रस्य यज्ञस्य फलं स समुपाश्नुते ॥
निदाघकाले पानीयं तटाके यस्य तिष्ठति ।
वाजिमेधफलं तस्य फलं वै मुनयो विदुः ॥
स कुलं तारयेत्सर्वं यस्य खाते जलाशये ।
गावः पिबन्ति सलिलं साधवश्च नराः सदा ॥
तटाके यस्य गावस्तु पिबन्ति तृषिता जलम् ।
मृगपक्षिमनुष्याश्च सोऽश्वमेधफलं लभेत ॥
यत्पिबन्ति जलं तत्र स्नायन्ते विश्रमन्ति च ।
तटाके यस्य तत्सर्वं प्रेत्यानन्त्याय कल्पते ॥
दुर्लभं सलिलं तात विशेषेण परत्र वै ।
पानीयस्य प्रदानेन प्रीतिर्भवति शाश्वती ॥
तिलान्ददत पानीयं दीपान्ददत जागृत ।
ज्ञातिभिः सह मोदध्वमेतत्प्रेत्य सुदुर्लभम् ॥
सर्वदानैर्गुरुतरं सर्वदानैर्विशिष्यते ।
पानीयं नरशार्दूल तस्माद्दातव्यमेव हि ॥
एवमेतत्तटाकस्य कीर्तितं फलमुत्तमम् ।
अत ऊर्ध्वं प्रवक्ष्यामि वृक्षाणामवरोपणम् ॥
स्थावराणां च भूतानां जातयः षट् प्रकीर्तिताः ।
वृक्षगुल्मलतावल्ल्यस्त्वक्सारास्तृणजातयः ॥
एता जात्यस्तु वृक्षाणां तेषां रोपे गुणास्त्विमे ।
कीर्तिश्च मानुषे लोके प्रेत्य चैव फलं शुभम् ॥
लभते नाम लोके च पितृभिश्च महीयते ।
देवलोके गतस्यापि नाम तस्य न नश्यति ॥
अतीतानागते चोभे पितृवंशं च भारत ।
तारयेद्वृक्षरोपी च तस्माद्वृक्षांश्च रोपयेत् ॥
तस्य पुत्रा भवन्त्येते पादपा नात्र संशयः ।
परलोकगतः स्वर्गं लोकांश्चाप्नोति सोऽव्ययान् ॥
पुष्णैः सुरगणान्वृक्षाः फलैश्चापि तथा पितॄन् ।
धायया चातिथिं तात पूजयन्ति महीरुहः ॥
किन्नरोरगरक्षांसि देवगन्धर्वमानवाः ।
तथा ऋषिगणाश्चैव संश्रयन्ति महीरुहान् ॥
पुष्पिताः फलवन्तश्च तर्पयन्तीह मानवान् ।
वृक्षदं पुत्रवद्वृक्षास्तारयन्ति परत्र तु ॥
तस्मात्तटाके सद्वृक्षा रोप्याः श्रेयोर्थिना सदा ।
पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः ॥
तटाककृद्वृक्षरोपी इष्टयज्ञश्च यो द्विजः ।
एते स्वर्गे महीयन्ते ये चान्ये सत्यवादिनः ॥
तस्मात्तटाकं कुर्वीत आरामांश्चैव रोपयेत् ।
यजेच्च विविधैर्यज्ञैः सत्यं च सततं वदेत् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि त्रिनवतितमोऽध्यायः ॥ 93 ॥

7-93-2 बलवती बहुसस्योत्पादिका ॥ 7-93-4 औदकानि खातानि तटाकानि ॥ 7-93-4 तटाकवान् तटाककृत् ॥ 7-93-5 मित्राणां सदनमिवोपकारकं सस्योत्पादनादिना । मैत्रं मित्रस्य सूर्यस्येदं प्रीतिकरम् । मित्राणां देवानां विवर्धनं पोषकम् ॥

श्रीः