अध्यायः 094

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति ब्राह्मणप्रशंसनपूर्वकं तदाराधनविधानम् ॥ 1 ॥

युधिष्ठिर उवाच ।

यानीमानि बहिर्वेद्यां दानानि परिचक्षते ।
तेभ्यो विशिष्टं किं दानं मतं ते कुरुपुङ्गव ॥
कौतूहलं हि परमं तत्र मे विद्यते प्रभो ।
दातारं दत्तमन्वेति यद्दानं तत्प्रचक्ष्व मे ॥
भीष्म उवाच ।
अभयं सर्वभूतेभ्यो व्यसने चाप्यनुग्रहः ।
यच्चाभिलषितं दद्यात्तृषितायाभियाचते ॥
भरणे पुत्रदाराणां तद्दानं श्रेष्ठमुच्यते ।
दत्तं दातारमन्वेति तद्दानं भरतर्षभ ॥
हिरण्यदानं गोदानं पृथिवीदानमेव च ।
एतानि वै पवित्राणि तारयन्त्यपि दुष्कृतात् ॥
एतानि पुरुषव्याघ्र साधुभ्यो देहि नित्यदा ।
दानानि हि नरं पापान्मोक्षयन्ति न संशयः ॥
यद्यदिष्टतमं लोके यच्चास्य दयितं गृहे ।
तत्तद्गुणवते देयं तदेवाक्षयमिच्छता ॥
प्रियाणि लभते नित्यं प्रियदः प्रियकृत्तथा ।
प्रियो भवति भूतानामिह चैव परत्र च ॥
याचमानमभीमानादनासक्तमकिञ्चनम् ।
यो नार्चति यथाशक्ति स नृशंसो युधिष्ठिर ॥
अमित्रमपि चेद्दीनं शरणैषिणमागतम् ।
व्यसने योऽनुगृह्णाति स वै पुरुषसत्तमः ॥
कृशाय कृतविद्याय वृत्तिक्षीणाय सीदते ।
अपहन्यात्क्षुधां यस्तु न तेन पुरुषः समः ॥
क्रियानियमितान्साधुन्पुत्रदारैश्च कर्शितान् ।
अयाचमानान्कौन्तेय सर्वोपायैर्निमन्त्रयेत् ॥
आशिषं ये न देवेषु न च मर्त्येषु कुर्वते ।
अर्हन्तो नित्यसत्वस्था यथालब्धोपजीविनः ॥
आशीविषसमेभ्यश्च तेभ्यो रक्षस्व भारत ।
तान्युक्तैरुपजिज्ञास्य भोगैर्निर्वप रक्ष च ॥
कृतैरावसथैर्नित्यं सप्रेष्यैः सपरिच्छदैः ।
निमन्त्रयेथाः कौरव्य सर्वभूतसुखावहैः ॥
यदि ते प्रतिगृह्णीयुः श्रद्धापूतं युधिष्ठिर ।
कार्यमित्येव मन्वाना धार्मिकाः पुण्यकर्मिणः ॥
विद्यास्नाता व्रतस्नाता धर्ममाश्रित्य जीविनः ।
गूढस्वाध्यायतपसो ब्राह्म्णाः संशितव्रताः ॥
तेषु शुद्धेषु दान्तेषु स्वदारनिरतेषु च ।
यत्करिष्यसि कल्याणं तत्ते लोके युधाम्पते ॥
यथाऽग्निहोत्रं सुहुतं सायम्प्रातर्द्विजातिना ।
तथा भवति दत्तं वै विद्वद्भ्यो यत्कृतात्मना ॥
एष ते विततो यज्ञः श्रद्धापूतः सदक्षिणः ।
विशिष्टः सर्वयज्ञेभ्यो ददतस्तात वर्तताम् ॥
निवापो दानसदृशः सदृशेषु युधिष्ठिर ।
निवेदयन्पूजयन्वै तेष्वानृण्यं निगच्छति ॥
य एवं नैव कुप्यन्ते न लुभ्यन्ति तृणेष्वपि ।
त एव नः पूज्यतमा ये चापि प्रियवादिनः ॥
ये नो न बहुमन्यन्ते न प्रवर्तन्ति याचने ।
पुत्रवत्परिपाल्यास्ते नमस्तेभ्यस्तथाऽभयम् ॥
ऋत्विक्पुरोहिताचार्या मृदुधर्मपरा हि ये ।
क्षात्रेणापि हि संसृष्टं तेजः शाम्यति तेष्वपि ॥
ईश्वरो बलवानस्मि राजाऽस्मीति युधिष्ठिर ।
ब्राह्मणान्मास्म पर्यासीर्वासोभिरशनेन च ॥
यच्छोभार्थं बलार्तं वा वित्तमस्ति तवानघ ।
तेन ते ब्राह्मणाः पूज्याः स्वधर्ममनुतिष्ठता ॥
नमस्कार्यास्तथा विप्रा वर्तमाना यथातथम् ।
यथासुखं यथोत्साहं ललन्तु त्वयि पुत्रवत् ॥
को ह्यक्षयप्रसादानां सुहृदामल्पतोषिणाम् ।
वृत्तिमर्हत्युपक्षेप्तुं त्वदन्यः कुरुसत्तम ॥
यथाऽपत्याश्रयो धर्मः स्त्रीणां लोके सनातनः ।
सदैव सा गतिर्नान्या तथाऽस्माकं द्विजातयः ॥
यदि नो ब्राह्मणास्तात संत्यजेयुरपूजिताः ।
पश्यन्तो दारुणं कर्म सततं क्षत्रिये स्थितम् ॥
अवेदानामकीर्तीनामलोकानामयज्विनाम् ।
कोनु स्याज्जीवितेनार्थस्तद्धिनो ब्राह्मणाश्रयम् ॥
अत्र ते वर्तयिष्यामि यथा धर्मं सनातनम् । राजन्यो ब्राह्मणान्राजन्पुरा परिचचार ह ।
वैश्यो राजन्यमित्येव शूद्रो वैश्यमिति श्रुतिः ॥
दूराच्छूद्रेणोपचर्यो ब्राह्मणोऽग्निरिव ज्वलन् ।
संस्पर्शपरिचर्यसल्तु वैश्येन क्षत्रियेण च ॥
मृदुभावान्सत्यशीलान्सत्यधर्मानुपालकान् ।
आशीविषानिव क्रुद्धांस्तानुपाचरत द्विजान् ॥
अपरेषां परेषां च परेभ्यश्चापि ये परे । क्षत्रियाणां प्रतपतां तेजसा च बलेन च ।
ब्राह्मणेष्वेव शाम्यन्ति तेजांसि च तपांसि च ॥
न मे पिता प्रियतरो न त्वं तात तथा प्रियः ।
न मे पितुः पिता राजन्न चात्मा न च जीवितम् ॥
त्वत्तश्च मे प्रियतरः पृथिव्यां नास्ति कश्चन ।
त्वत्तोऽपि मे प्रियतरा ब्राह्मणा भरतर्षभ ॥
ब्रवीमि सत्यमेतच्च यथाऽहं पाण्डुनन्दन ।
तेन सत्येन गच्छेयं लोकान्यत्र स शान्तनुः ॥
पश्येयं च सतां लोकाञ्छुचीन्ब्रह्मपुरस्कृतान् ।
तत्र मे तात गन्तव्यमह्नाय च चिराय च ॥
सोहमेतादृशान्लोकान्दृष्ट्वा भरतसत्तम ।
यन्मे कृतं ब्राह्मणेषु न तप्ये तेन पार्थिव ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि चतुर्नवतितमोऽध्यायः ॥ 94 ॥

7-94-9 अभीमानादतिसमर्थोऽयमित्यभिमानं स्वमनस्येव कृत्वा याचमानम् । याचमानावमानाच्च आशावन्तमकिञ्चनमिति थ.ध.पाठः ॥ 7-94-11 कृशायेत्यादिचतुर्थी षष्ठ्यर्थ । कृशाय ह्रीमते तातेति ट.थ.ध.पाठः ॥ 7-94-12 क्रियानियमितान् स्वधर्मयन्त्रितान् । ह्रिया तु नियतानिति थ.ध.पाठ ॥ 7-94-16 धर्मार्थमेव धर्मं कुर्वन्ति नतु फलान्तरार्थमिति भावः ॥ 7-94-20 ददतः दातुस्तव वर्ततां सर्वदास्तु ॥ 7-94-21 निवापः पितृतर्पणम् । दानसदृशः इत्यत्र दानं महादानम् ॥ 7-94-26 ते त्वया ॥ 7-94-27 ललन्तु रमन्ताम् ॥ 7-94-28 उपक्षेप्तं समर्पितुम् ॥ 7-94-31 अवेदानामिति । तर्हि ब्राह्मणैरस्मत्त्यागे तत एव अवेदादीनामस्माकं जीवितेन कोर्थः । तत् जीवितं ॥ 7-94-35 क्षत्रियाणां प्रभावं च तेजांसि च तपांसि च । ब्राह्मणेष्वेव मन्यन्ते श्रीरयुर्बलमेव चेति ट.थ.ध.पाठः ॥

श्रीः