अध्यायः 097
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरम्प्रति सेन्द्रबृहस्पतिसंवादानुवादं
भूमिदानप्रशंसनम् ॥ 1 ॥
युधिष्ठिर उवाच ।
इदं देयमिदं देयमितीयं श्रुतिचोदनात् ।
बहुदेयाश्च राजानः किंस्विद्देयमनुत्तमम् ॥
भीष्म उवाच ।
अति दानानि सर्वाणि पृथिवीदानमुच्यते ।
अचला ह्यक्षया भूमिर्दोग्ध्री कामानिहोत्तमान् ॥
दोग्ध्री वासांसि रत्नानि पशून्व्रीहियवांस्तथा ।
भूमिदः सर्वभूतेषु शाश्वतीरेधते समाः ॥
यावद्भूमेरायुरिह तावद्भूमिद एधते ।
न भूमिदानादस्तीह परं किञ्चिद्युधिष्ठिर ॥
अप्यल्पं प्रददुः सर्वे पृथिव्या इति नः श्रुतम् ।
भूमिमेव ददुः सर्वे भूमिं ते भुञ्जते जनाः ॥
स्वकर्मैवोपजीवन्ति नरा इह परत्र च ।
भूमिः पतिं महादेवी दातारं कुरुते प्रियम् ॥
य एतां दक्षिणां दद्यादक्षयां राजसत्तम ।
पुनर्नरत्वं सम्प्राप्य भवेत्स पृथिवीपतिः ॥
यथा दानं तथा भोग इति धर्मेषु निश्चयः ।
सङ्ग्रामे वा तनुं जह्याद्दद्याच्च पृथिवीमिमांम् ॥
इत्येतत्क्षत्रबन्धूनां वदन्ति परमाशिषः ।
पुनाति दत्ता पृथिवी दातारमिति शुश्रुम ॥
अपि पापसमाचारं ब्रह्मघ्नमपि चानृतम् ।
सैव पापं प्लावयति सैव पापात्प्रमोचयेत् ॥
अपि पापकृतां राज्ञां प्रतिगृह्णन्ति साधवः ।
पृथिवीं नान्यदिच्छन्ति पावनं जगती यतः ॥
नामास्याः प्रियदत्तेति गुह्यं देव्याः सनातनम् ।
दानं वाऽप्यथवाऽदानं नामास्याः प्रथमप्रियम् ॥
य एतां विदुषे दद्यात्पृथिवीं पृथिवीपतिः ।
पृथिव्यामेतदिष्टं स राजा राज्यमितो व्रजेत् ॥
पुनश्चासौ जनिं प्राप्य राजवत्स्यान्न संशयः ।
तस्मात्प्राप्यैव पृथिवीं दद्याद्विप्राय पार्थिवः ॥
नाभूमिपतिना भूमिरधिष्ठेया कथञ्चन ।
न च वस्त्रेणि वा गूहेदन्तर्धानेन वा चरेत् ॥
ये चान्ये भूमिमिच्छेयुः कुर्युरेवं न संशयः ।
यः साधोर्भूमिमादत्ते न भूमिं विन्दते तु सः ॥
भूमिं दत्त्वा तु साधुभ्यो विन्दते भूमिमुत्तमाम् ।
प्रेत्य चेह च धर्मात्मा सम्प्राप्नोति महद्यशः ॥
`एकाहारकरीं दत्त्वा षष्ठिसाहस्रमूर्ध्वगः ।
तावत्या हरणे पृथ्व्या नरकं द्विगुणोत्तरम् ॥'
यस्य विप्रास्तु शंसन्ति साधोर्भूमिं सदैव हि ।
न तस्य शत्रवो राजन्प्रशंसन्ति वसुन्धराम् ॥
यत्किञ्चित्पुरुषः पापं कुरुते वृत्तिकर्शितः ।
अपि गोचर्ममात्रेण भूमिदानेन पूयते ॥
येऽपि सङ्गीर्णाकर्माणो राजानो रौद्रकर्मिणः ।
तेभ्यः पवित्रमाख्येयं भूमिदानमनुत्तमम् ॥
अल्पान्तरमिदं शश्वत्पुराणा मेनिरे जनाः ।
यो यजेताश्वमेधेन दद्याद्वा साधवे महीम् ॥
अपि चेत्सुकृतं कृत्वा शङ्केरन्नपि पण्डिताः ।
अशंक्यमेकमेवैतद्भूमिदानमनुत्तमम् ॥
सुवर्णं रजतं वस्त्रं मणिमुक्तावसूनि च ।
सर्वमेतन्महाप्राज्ञो ददाति वसुधां ददत् ॥
तपो यज्ञः श्रुतं शीलमलोभः सत्यसन्धता ।
गुरुदैवतपूजा च एता वर्तन्ति भूमिदम् ॥
भर्तुनिःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः ।
ब्रह्मलोकगताः सिद्धा नातिक्रामन्ति भूमिदम् ॥
यथा जनित्री स्वं पुत्रं क्षीरेण भरते सदा ।
अनुगृह्णाति दातारं तथा सर्वरसैर्मही ॥
मृत्युर्वैकिंकरो दण्डस्तापो वह्नेः सुदारुणः ।
घोराश्च वारुणाः पाशा नोपसर्पन्ति भूमिदम् ॥
पितॄंश्च पितृलोकस्थान्देवलोके च देवताः ।
सन्तर्पयति शान्तात्मा यो ददाति वसुन्धराम् ॥
कृशाय म्रियमाणाय वृत्तिग्लानाय सीदते ।
भूमिं वृत्तिकरीं दत्त्वा सत्री भवति मानवः ॥
यथा धावति गौर्वत्सं स्रवन्ती वत्सला पयः ।
एवमेव महाभाग भूमिर्भरति भूमिदम् ॥
हलकृष्टां महीं दत्त्वा सबीजां सफलामपि ।
सोदकं वाऽपि शरणं तथा भवति कामदः ॥
ब्राह्मणं वृत्तसम्पन्नमाहिताग्निं शुचिव्रतम् ।
नरः प्रतिग्राह्य महीं न याति यमसादनम् ॥
यथा चन्द्रमसो वृद्धिरहन्यहनि जायते ।
तथा भूमिकृतं दानं सस्येसस्ये विवर्धते ॥
अत्र गाथा भूमिगीताः कीर्तयन्ति पुराविदः ।
याः श्रुत्वा जामदग्न्येन दत्ता भूः काश्यपाय वै ॥
मामेवादत्त मां दत्त मां दत्त्वा मामवाप्स्यथ ।
अस्मिँल्लोके परे चैव तद्दत्तं जायते पुनः ॥
य इमां व्याहृतिं वेद ब्राह्मणो वेदसम्मिताम् ।
श्राद्धस्य हूयमानस्य ब्रह्मभूयं स गच्छति ॥
कृत्यानामभिशप्तानामरिष्टशमनं महत् ।
प्रायश्चित्तं महीं दत्त्वा पुनात्युभयतो दश ॥
पुनाति य इदं वेद वेदवादं तथैव च ।
प्रकृतिः सर्वभूतानां भूमिर्वै शाश्वती मता ॥
अभिषिच्यैव नृपतिं श्रावयेदिममागमम् ।
यथा श्रुत्वा महीं दद्यान्नादद्यात्साधुतश्च तां ॥
सोऽयं कृत्स्नो ब्राह्मणार्थो राजार्थश्चाप्यसंशयः ।
राजा हि धर्मकुशलः प्रथमं भूतिलक्षणम् ॥
अथ येषामधर्मज्ञो राजा भवति नास्तिकः ।
न ते सुखं प्रबुध्यन्ति न सुखं प्रस्वपन्ति च ॥
सदा भवन्ति चोद्विग्नास्तस्य दुश्चरितैर्नराः ।
योगक्षेमा हि बहवो राष्ट्रं नास्याविशन्ति तत् ॥
अथ येषां पुनः प्राज्ञो राजा भवति धार्मिकः ।
सुखं ते प्रतिबुध्यन्ते सुसुखं प्रस्वपन्ति च ॥
तस्य राज्ञः शुभे राज्ये कर्मभिर्निर्वृता नराः ।
योगक्षेमेण वृष्ट्या च विवर्धन्ते स्वकर्मभिः ॥
स कुलीनः स पुरुषः स बन्धुः स च पुण्यकृत् ।
स दाता स च विक्रान्तो यो ददाति वसुन्धरां ॥
आदित्या इव दीप्यन्ते तेजसा भुवि मानवाः ।
ददन्ति वसुधां स्फीतां ये वेदविदुषि द्विजे ॥
यथा सस्यानि रोहन्ति प्रकीर्णानि महीतले ।
तथा कामाः प्ररोहन्ति भूमिदानसमार्जिताः ॥
आदित्यो वरुणो विष्णुर्ब्रह्मा सोमो हुताशनः ।
शूलिपाणिश्च भगवान्प्रतिनन्दन्ति भूमिदम् ॥
भूमौ जायन्ति पुरुषा भूमौ निष्ठां व्रजन्ति च ।
चतुर्विधो हि लोकोऽयं योऽयं भूमिगुणात्मकः ॥
एषा माता पिता चैव जगतः पृथिवीपते ।
नानया सदृशं भूतं किञ्चिदस्ति जनाधिप ॥
अत्राप्युदाहरन्तीममितिहासं पुरातनम् ।
बृहस्पतेश्च संवादमिन्द्रस्य च युधिष्ठिर ॥
इष्ट्वा क्रतुशतेनाथ महता दक्षिणावता ।
मघवा वाग्विदांश्रेष्ठं पप्रच्छेदं बृहस्पतिम् ॥
भगवन्केन दानेन स्वर्गतः सुखमेधते ।
यदक्षयमहार्यं च तद्ब्रूहि वदतांवर ॥
भीष्म उवाच ।
इत्युक्तृः स सुरेन्द्रेण ततो देवपुलोहितः ।
बृहस्पतिर्बृहत्तेजाः प्रत्युवाच शतक्रतुम् ॥
सुवर्णदानं गोदानं भूमिदानं च वृत्रहन् ।
`विद्यादानं च कन्यानां दानं पापहरं परम् ।'
दददेतान्महाप्राज्ञः सर्वपापैः प्रमुच्यते ॥
न भूमिदानाद्देवेन्द्र परं किञ्चिदिति प्रभो ।
विशिष्टमिति मन्येऽहं यता प्राहुर्मनीषिणः ॥
`ब्राह्मणार्थे गवार्थे वा राष्ट्रघातेऽथ स्वामिनः ।
कुलस्त्रीणां परिभवे मृतास्ते भूमिपैः समाः' ॥
ये शूरा निहता युद्धे स्वर्याता रणगृद्धिनः ।
सर्वे ते विबुधश्रेष्ठ नातिक्रामन्ति भूमिदम् ॥
भर्तुर्निःश्रेयसे युक्तास्त्यक्तात्मानो रणे हताः ।
ब्राह्मलोकगता युक्ता नातिक्रामन्ति भूमिदम् ॥
पञ्च पूर्वा हि पुरुषाः षडन्ये वसुधां गताः ।
एकादश ददद्भूमिं परित्रातीह मानवः ॥
रत्नोपकीर्णां वसुधां यो ददाति पुरंदर ।
स मुक्तः सर्वकलुषैः स्वर्गलोके महीयते ॥
महीं स्फीतां ददद्राजन्सर्वकामगुणान्विताम् ।
राजाधिराजो भवति तद्धि दानमनुत्तमम् ॥
सर्वकामसमायुक्तां काश्यपीं यः प्रयच्छति ।
सर्वभूतानि मन्यन्ते मां ददातीति वासव ॥
सर्वकामदुघां धेनुं सर्वकामगुणान्विताम् ।
ददाति यः सहस्राक्ष स्वर्गं याति स मानवः ॥
मधुसर्पिःप्रवाहिण्यः पयोदधिवहास्तथा ।
सरितस्तपर्यन्तीह सुरेन्द्र वसुधाप्रदम् ॥
भूमिप्रदानान्नृपतिर्मुच्यते सर्वकिल्बिषात् ।
न हि भूमिप्रदानेन दानमन्यद्विशिष्यते ॥
ददाति यः समुन्द्रान्तां पृथिवीं शस्त्रनिर्जिताम् ।
तं जनाः कथयन्तीह यावद्धरति गौरियम् ॥
पुण्यामृद्धिरसां भूमिं यो ददाति पुरंदर ।
न तस्य लोकाः क्षीयन्ते भूमिदानगुणान्विताः ॥
सर्वदा पार्थिवेनेह सततं भूतिमिच्छता ।
भूर्देया विधिवच्छक्र पात्रे सुखमभीप्सुनां ॥
अपि कृत्वा नरः पापं भूमिं दत्त्वा द्विजातये ।
समुत्सृजति तत्पापं जीर्णां त्वचमिवोरगः ॥
सागरान्सरितः शैलान्काननानि च सर्वशः ।
सर्वमेतन्नरः शक्र ददाति वसुधां ददत् ॥
तटाकान्युदपानानि स्रोतांसि च सरांसि च ।
स्नेहान्सर्वरसांश्चैव ददाति वसुधां ददत् ॥
ओषधीर्वीर्यसम्पन्नानगान्पुष्पफलान्वितान् ।
काननोपलशैलांश्च ददाति वसुधां ददत् ॥
अग्निष्टोमप्रभृतिभिरिष्ट्वा च स्वाप्तदक्षिणैः ।
न तत्फलमवाप्नोति भूमिदानाद्यदश्नुते ॥
दाता दशानुगृह्णाति दश हन्ति तथा क्षिपन् ।
पूर्वदत्तां हरन्भूमिं नरकायोपगच्छति ॥
न ददाति प्रतिश्रुत्य दत्त्वाऽपि च हरेत्तु यः ।
स बद्धो वारुणैः पाशैस्तप्यते मृत्युसासनात् ॥
आहिताग्निं सदायज्ञं कृशवृत्तिं प्रियातिथिम् ।
ये भरन्ति द्विजश्रेष्ठं नोपसर्पन्ति ते यमम् ॥
ब्राह्मणेष्वनृणीभूतः पार्थिवः स्यात्पुरंदर ।
इतरेषां तु वर्णानां तारयेत्कृशदुर्बलान् ॥
नाच्छिन्द्यात्स्पर्शितां भूमिं परेण त्रिदशाधिप ।
ब्राह्मणस्य सुरश्रेष्ठ कृशवृत्तेः कदाचन ॥
यथाश्रु पतितं तेषां दीनानामथ सीदताम् ।
ब्राह्मणानां हृते क्षेत्रे हन्यात्त्रिपुरुषं कुलम् ॥
भूमिपालं च्युतं राष्ट्राद्यस्तु संस्थापयेत्पुनः ।
तस्य वासः सहस्राक्ष नाकपृष्ठे महीयते ॥
`सुनिर्मितां सुविक्रीतां सुभृतां स्थापयेन्नृप ।'
इक्षुभिः सन्ततां भूमिं यवगोधूमसालिनीम् ॥
गोश्ववाहनपूर्णां वा यो ददाति वसुन्धराम् ।
विमुक्तः सर्वपापेभ्यः स्वर्गलोके महीयते ॥'
निधिगर्भां ददद्भूमिं सर्वरत्नपरिच्छदाम् ।
अक्षयाँल्लभते लोकान्भूमिसत्रं हि तस्य तत ॥
विधूय कलुषं सर्वं विरजाः सम्मतः सताम् ।
लोके महीयते सद्भिर्यो ददाति वसुन्धराम् ॥
यथाऽप्सु पतितः शक्र तैलबिन्दुर्विसर्पति ।
तथा भूमिकृतं दानं सस्येसस्ये विवर्धते ॥
ये रणाग्रे महीपालाः शूराः समितिशोभनाः ।
वध्यन्तेऽभिमुखाः शक्र ब्रह्मलोकं व्रजन्ति ते ॥
नृत्तगीतपरा नार्यो दिव्यमाल्यविभूषिताः ।
उपतिष्ठन्ति देवेन्द्र यथा भूमिप्रदं दिवि ॥
मोदते च सुखं स्वर्गे देवगन्धर्वपूजितः ।
यो ददाति महीं सम्यग्विधिनेह द्विजातये ॥
शतमप्सरसश्चैव दिव्यमाल्यविभूषिताः ।
उपतिष्ठन्ति देवेन्द्र ब्रह्मलोके धराप्रदम् ॥
उपतिष्ठन्ति पुण्यानि सदा भूमिप्रदं नरम् ।
शङ्खं भद्रासनं छत्रं वराश्वा वरवाहनम् ॥
भूमिप्रदानात्पुष्पाणि हिरण्यनिचयास्तथा ।
आज्ञा सदाऽप्रतिहता जयशब्दा वसूनि च ॥
भूमिदानस्य पुण्यानि फलं स्वर्गः पुरन्दर ।
हिरण्यपुष्पाश्चौषध्यः कुशकाञ्चनशाद्वलाः ॥
अमृतप्रसवां भूमिं प्राप्नोति पुरुषो ददत् ॥
नास्ति भूमिसमं दानं नास्ति मातृसमो गुरुः ।
नास्ति सत्यसमो धर्मो नास्ति दानसमो निधिः ॥
भीष्म उवाच ।
एतदाङ्गिरसाच्छ्रुत्वा वासवो वसुधामिमाम् ।
वसुरत्नसमाकीर्णां ददावाङ्गिरसे तदा ॥
य इदं श्रावयेच्छ्राद्धे भूमिदानस्य संस्तवम् ।
न तस्य रक्षसां भागो नासुराणां भवत्युत ॥
अक्षयं च भवेद्दत्तं पितृभ्यस्तन्न संशयः ।
तस्माच्छ्राद्धेष्विदं विद्वान्भुञ्जतः श्रावयेद्द्विजान् ॥
इत्येतत्सर्वदानानां श्रेष्ठमुक्तं तवानघ ।
मया भरतशार्दूल किं भूयः श्रोतुमिच्छसि ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि सप्तनवतितमोऽध्यायः ॥ 97 ॥
7-97-6 प्रियं स्वपतिम् ॥ 7-97-12 प्रियेण प्रियाय वा दत्तेति
योगात्तस्या दानमादानं वा कुर्वन् प्रियदत्ताया अस्याः प्रियो भवतीत्यर्थः ।
दानं वाप्यथ वा ज्ञानं नामास्याः परमप्रियम् इति ट.ध.पाठः ॥ 7-97-19
शंसन्त्यमुकदत्ते गृहे तिष्ठाम इति कथयन्ति ॥ 7-97-23
अर्पितदानान्तरवद्भूमिदाने पुण्योत्पत्तौ शङ्कैव नास्तीत्यर्थः ॥ 7-97-25 एता
एतानि । सुपो डादेशः । वर्तन्त्यनुसरन्ति । नातिक्रामन्ति भूमिदमिति थ.ध.पाठः ॥ 7-97-28 वैकिंकरः विपरीतं कुत्सितं च करोतीति विकिंकरः कालस्तत्सम्बन्धी
कालमृत्युरित्यर्थः ॥ 7-97-30 सत्री सत्रकृत् ॥ 7-97-31 उदीर्णं इति पाठे महत् ।
शरणं गृहम् ॥ 7-97-36 ततश्च जनने पुनरिति थ.पाठ.॥ 7-97-37 ब्रह्मभूयं
बृहत्त्वं फलमिति यावत् । गच्छति प्राप्नोति । ब्राह्मणो ब्रह्मसंश्रित इति
ट.ध.पाठः ॥ 7-97-38 कृत्यानां मन्त्रमयीनां मारणार्थशक्तीनां सम्बन्धि यदरिष्टं
तच्छमनम् ॥ 7-97-39 इदं भूमिदानं यो वेद । वादं भूमिवाक्यं यो वेद । सोऽपि पुनाति
दशपुरुषानिति शेषः ॥ 7-97-41 भूतिलक्षणं ऐश्वर्यसूचकम् ॥ 7-97-76 क्षिपन्
हरन् ॥ 7-97-80 स्पर्शितां दत्ताम् ॥ 7-97-92 वराश्वा वरवारणा इति थ.पाठः ॥
श्रीः