अध्यायः 099

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रत्यश्विन्यादिनक्षत्रयोगेऽन्नदानफलप्रतिपादकनारददेवकीसंवादानुवादः ॥ 1 ॥

युधिष्ठिर उवाच ।

श्रुतं मे भवतो वाक्यमन्नदानस्य यो विधिः ।
नक्षत्रयोगस्येदानीं दानकल्पं ब्रवीहि मे ॥
भीष्म उवाच ।
अत्राप्युदाहरन्तीममितिहासं पुरानम् ।
देवक्याश्चैव संवादं समर्षेर्नारदस्य च ॥
द्वारकामनुसम्प्राप्तं नारदं देवदर्शनम् ।
पप्रच्छेदं वचः प्रश्नं देवकी धर्मदर्शिनी ॥
तस्याः सम्पृच्छमानाया देवर्षिर्नारदस्ततः ।
आचष्ट विधइवत्सर्वं तच्छृणुष्व विशाम्पते ॥
नारद उवाच ।
कृत्तिकासु महाभागे पायसेन ससर्पिषा ।
सन्तर्प्य ब्राह्मणान्साधूँल्लोकानाप्नोत्यनुत्तमान् ॥
रोहिण्यां प्रसृतैर्मार्गैर्मांसैरन्नेन सर्पिषा ।
पयोऽन्नपानं दातव्यमनृणार्थं द्विजातये ॥
दोग्ध्रीं दत्त्वा सवत्सां तु नक्षत्रे सोमदैवते ।
गच्छन्ति मानुपाल्लोकात्स्वर्गलोकमनुत्तमम् ॥
आर्द्रायां कृसरं दत्त्वा तिलभिश्रमुपोषितः ।
नरस्तरति दुर्गाणि क्षुरधारांश्च पर्वतान् ॥
पूपान्पुनर्वसौ दत्त्वा तथैवान्नानि शोभने ।
यशस्वी रूपसम्पन्नो बह्वन्नो जायते कुले ॥
पुण्येण कनकं दत्त्वा कृतं वाऽकृतमेव च ।
अनालोकेषु लोकेषु सोमवत्स विराजते ॥
आश्लेषायां तु यो रूप्यमृषभं वा प्रयच्छति ।
स सर्पभयनिर्मुक्तः सम्भवानधितिष्ठति ॥
मघासु तिलपूर्णानि वर्धमानानि मानवः ।
प्रदाय पुत्रपशुमानिह प्रेत्य च मोदते ॥
फल्गुनीपूर्वसमये ब्राह्मणानामुपोषितः ।
भक्ष्यान्फाणितसंयुक्तान्दत्त्वा सौभाग्यमृच्छति ॥
घृतक्षीरसमायुक्तं विधिवत्षष्टिकौदनम् ।
उत्तराविषये दत्त्वा स्वर्गलोके महीयते ॥
यद्यत्प्रदीयते दानमुत्तराविषये नरैः ।
महाफलमनन्तं तद्भवतीति विनिश्चयः ॥
हस्ते हस्तिरथं दत्त्वा चतुर्युक्तमुपोषितः ।
प्राप्नोति परमाँल्लोकान्पुण्यकामसमन्वितान् ॥
चित्रायां वृषभं दत्त्वा पुण्यगन्धांश्च भारत ।
चरन्त्यप्सरसां लोके रमन्ते नन्दने तथा ॥
स्वात्यामथ धनं दत्त्वा यदिष्टतममात्मनः ।i प्राप्नोति लोकान्स शुभानिह चैव महद्यशः ॥
विशाखायामनड्वाहं धेनुं दत्त्वा च दुग्धदाम् । सप्रासङ्गं च शकटं सधान्यं वस्त्रसंयुतम् ।
पितॄन्देवांश्च प्रीणाति प्रेत्य चानन्त्यमश्नुते ।
न च दुर्गाण्यवाप्नोति स्वर्गलोकं च गच्छति ॥
दत्त्वा यथोक्तं विप्रेभ्यो वृत्तिमिष्टां स विन्दति ।
नरकादींश्च संक्लेशान्नाप्नोतीति विनिश्चयः ॥
अनुराधासु प्रावरं वरान्नं समुपोषितः ।
दत्त्वा युगशतं चापि नरः स्वर्गे महीयते ॥
कालशाकं तु विप्रेभ्यो दत्त्वा मर्त्यः समूलकम् ।
ज्येष्ठायामृद्धिमिष्टां वै गतिमिष्टां स गच्छति ॥
मूले मूलफलं दत्त्वा ब्राह्मणेभ्यः समाहितः । पितॄन्प्रीणयते चापि गतिमिष्टां च गच्छति ।
अथ पूर्वास्वषाढासु दधिपात्राण्युपोषितः ।
कुलवृत्तोपसम्पन्ने ब्राह्मणे वेदपारगे ॥
प्रदाय जायते प्रेत्य कुले सुबहुगोधने ।
उदमन्थं ससर्पिष्कं प्रभूतमधुफाणितम् ॥
दत्त्वोत्तरास्वषाढासु सर्वकामानवाप्नुयात् । दुग्धं त्वभिजिते योगे दत्त्वा मधुघृतप्लुतम् ।
धर्मनित्यो मनीषिभ्यः स्वर्गलोके महीयते ॥
श्रवणे कम्बलं दत्त्वा वस्त्रान्तरितमेव वा ।
श्वेतेन याति यानेन स्वर्गलोकानसंवृतान् ॥
गोप्रयुक्तं धनिष्ठासु यानं दत्त्वा समाहितः ।
वस्त्रराशिधनं सद्यः प्रेत्य राज्यं प्रपद्यते ॥
गन्धाञ्शतभिषग्योगे दत्त्वा सागरुचन्दनान् । प्राप्नोत्यप्सरसां सङ्घान्प्रेत्य गन्धांश्च शाश्वतान्
पूर्वप्रोष्ठपदायोगे राजमाषान्प्रदाय तु ।
सर्वभक्षफलोपेतः स वै प्रेत्य सुखी भवेत् ॥
औरभ्रमुत्तरायोगे यस्तु मांसं प्रयच्छति ।
स पितॄन्प्रीणयति वै प्रेत्य चानन्त्यमश्नुते ॥
कांस्योपदोहनां धेनु रेवत्यां यः प्रयच्छति ।
सा प्रेत्य कामानादाय दातारमुपतिष्ठति ॥
रथमश्वसमायुक्तं दत्त्वाऽश्विन्यां नरोत्तमः ।
हस्त्यश्वरथसम्पन्ने वर्चस्वी जायते कुले ॥
भरणीषु द्विजातिभ्यस्तिलधेनुं प्रदाय वै ।
गाः सुप्रभूताः प्राप्नोति नरः प्रेत्य यशस्तथा ॥
भीष्म उवाच ।
इत्येष लक्षणोद्देशः प्रोक्तो नक्षत्रयोगतः ।
देवक्या नारदेनेह सा स्नुषाभ्योऽब्रवीदिदम् ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकोनशततमोऽध्यायः ॥ 99 ॥

7-99-6 मार्गैर्मृगसम्बन्धिभिः ॥ 7-99-7 सौम्यनक्षत्रे मृगशिरसि ॥ 7-99-9 पूपान् पिष्टमयान् घृतपाचितपिण्डान् ॥ 7-99-10 अनालोकेष आलोकान्तरवर्जितेषु स्वयंप्रकाशेष्वित्यर्थः ॥ 7-99-13 फाणितं गोरसविकारः ॥ 7-99-19 प्रासङ्गो धान्यादिपिधानयोग्यं चतुरश्रम् ॥ 7-99-23 उदमन्धं उदकुम्भयुक्तं सक्तुविकारम् ॥ 7-99-31 पूर्वप्रोष्टपदायोगे छागमांसमिति थ.पाठः ॥ 7-99-32 उरभ्रः पशुविशेष अजो वा ॥

श्रीः