अध्यायः 101
अथ दानधर्मपर्व ॥ 1 ॥
भीष्मेण युधिष्ठिरम्प्रति जलतिलभूम्यन्नगोदानादिफलकथनम् । 1 ॥
युधिष्ठिर उवाच ।
दह्यमानाय विप्राय यः प्रयच्छत्युपानहौ ।
यत्फलं तस्य भवति तन्मे ब्रूहि पितामह ॥
भीष्म उवाच ।
उपानहौ प्रयच्छेद्यो ब्राह्मणेभ्यः समाहितः ।
मर्दते कण्टकान्सर्वान्विषमान्निस्तरत्यपि ॥
स शत्रूणामुपरि च सन्तिष्ठति युधिष्ठिर ।
यानं चाश्वतरीयुक्तं तस्य शुभ्रं विशाम्पते ॥
उपतिष्ठति कौन्तेय रौप्यकाञ्चनभूषितम् ।
शकटं दम्यसंयुक्तं दत्तं भवति चैव हि ॥
युधिष्ठिर उवाच ।
यत्फलं तिलदाने च भूमिदाने च कीर्तितम् ।
गोदाने चान्नदाने च भूयस्तद्ब्रूहि कौरव ॥
भीष्म उवाच ।
शृणुष्व मम कौन्तैय तिलदानस्य यत्फलम् ।
निशम्य च यथान्यायं प्रयच्छ कुरुसत्तम ॥
पितॄणां प्रथमं भोज्यं तिलाः सृष्टाः स्वयंभुवा ।
तिलदानेन वै तस्मात्पितृपक्षः प्रमोदते ॥
माघमासे तिलान्यस्तु ब्राह्मणेभ्यः प्रयच्छति ।
सर्वसत्वसमाकीर्णं नरकं स न पश्यति ॥
सर्वसत्रैश्च यजते यस्तिलैर्यजते पितॄन् ।
न चाकामेन दातव्यं तिलैः श्राद्धं कदाचन ॥
महर्षेः कश्यपस्यैते गात्रेभ्यः प्रसृतास्तिलाः ।
ततो दिव्यं गता भावं प्रदानेषु तिलाः प्रभो
पौष्टिका रूपदाश्चैव तथा पापविनाशनाः ।
तस्मात्सर्वप्रदानेभ्यस्तिलदानं विशिष्यते ॥
आपस्तम्बश्च मेधावी शङ्खश्च लिखितस्तथा ।
महर्षिर्गौतमश्चापि तिलदानैर्दिवं गताः ॥
तिलहोमरता विप्राः सर्वे संयतमैथुनाः ।
समा गव्येन हविषा प्रवृत्तिषु च संस्थिताः ॥
सर्वेषामिति दानानां तिलदानं विशिष्यते ।
अक्षयं सर्वदानानां तिलदानमिहोच्यते ॥
उच्छिन्ने तु पुरा हव्ये कुशिकर्षिः परन्तपः ।
तिलैरग्नित्रयं हुत्वा प्राप्तवान्गतिमुत्तमाम् ॥
इति प्रोक्तं कुरुश्रेष्ठ तिलदानमनुत्तमम् ।
विधानं येन विधिना तिलानामिह शस्यते ॥
अत ऊर्ध्वं निबोधेदं देवानां यष्टुमिच्छताम् ।
समागमे महाराज ब्रह्मणा वै स्वयंभुवा ॥
देवाः समेत्य ब्रह्माणं भूमिभागे यियश्रवः ।
शुभं देशमयाचन्त यजेम इति पार्थिव ॥
देवा ऊचुः ।
भगवंस्त्वं प्रभुर्भूमेः सर्वस्य त्रिदिवस्य च ।
यजेम हि महाभाग यज्ञं भवदनुज्ञया ॥
नाननुज्ञातभूमिर्हि यज्ञस्य फलमश्नुते ।
त्वं हि सर्वस्य जगतः स्थावरस्य चरस्य च ।
प्रभुर्भवसि तस्मात्त्वं समनुज्ञातुमर्हसि ॥
ब्रह्मोवाच ।
ददानि मेदिनीभागं भवद्भ्योऽहं सुरर्षभाः ।
यस्मिन्देशे करिष्यध्वं यज्ञान्काश्यपनन्दनाः ॥
दैवा ऊचुः ।
भगवन्कृतकामाः स्म यक्ष्महे स्वाप्तदक्षिणैः ।
इमं तु देशं मुनयः पर्युपासन्ति नित्यदा ॥
ततोऽगस्त्यश्च कण्वश्च भृगुरत्रिर्वृषाकपिः ।
असितो देवलश्चैव देवयज्ञमुपागमन् ॥
ततो देवा महात्मान ईजिरे यज्ञमच्युतम् ।
तथा समापयामासुर्यथाकालं सुरर्षभाः ॥
त इष्टयज्ञास्त्रिदशा हिमवत्यचलोत्तमे ।
षष्ठमंशं क्रतोस्तस्य भूमिदानं प्रचक्रिरे ।
प्रादेशमात्रं भूमेस्तु यो दद्यादनुपस्कृतम् ।
न सीदति स कृच्छ्रेषु न च दुर्गाण्यवाप्नुते ॥
शीतवातातपसहां यागभूमिं सुसंस्कृताम् ।
प्रदाय सुरलोकस्थः पुण्यान्तेऽपि न चाल्यते ॥
मुदितो वसति प्राज्ञः शक्रेण सह पार्थिव ।
पतिश्रयप्रदानाच्च सोऽपि स्वर्गे महीयते ॥
अध्यापककुले जातः श्रोत्रियो नियतेन्द्रियः ।
गृहे यस्य वसेत्तुष्टः प्रधानं लोकमश्नुते ॥
तथा गवार्थे शरणं शीतवर्षसहं दृढम् ।
आसप्तमं तारयति कुलं भरतसत्तम ॥
क्षेत्रभूमिं ददल्लोके शुभां श्रियमवाप्नुयात् ।
रत्नभूमिं प्रदद्यात्तु कुलवंशं प्रवर्धयेत् ॥
न चोषरां न निर्दग्धां महीं दद्यात्कथञ्चन ।
न श्मशानपरीतां च न च पापनिषेविताम् ॥
पारक्ये भूमिदेशे तु पितॄणां निर्वपेत्तु यः ।
तद्भूमिं वाऽपि पितृभिः श्राद्धकर्म विहन्यते ॥
तस्मात्क्रीत्वा महीं दद्यात्स्वल्पामपि विचक्षणः ।
पिण्डः पितृभ्यो दत्तो वै तस्यां भवति शाश्वतः ॥
अटवी पर्वताश्चैव नद्यस्तीर्थानि यानि च ।
सर्वाण्यस्वामिकान्याद्दुर्न हि तत्र परिग्रहः ॥
इत्येतद्भूमिदानस्य फलमुक्तं विशाम्पते ।
अतः परं तु गोदानं कीर्तयिष्यामि तेऽनघ ॥
गावोऽधिकास्तपस्विभ्यो यस्मात्सर्वेभ्य एव च ।
तस्मान्महेश्वरो देवस्तपस्ताभिः सहास्थितः ॥
ब्राह्मे लोके वसन्त्येताः सोमेन सह भारत ।
यां तां ब्रह्मर्षयः सिद्धाः प्रार्थयन्ति परां गतिम् ॥
पयसा हविषा दध्ना शकृता चाथ चर्मणा ।
अस्थिभिश्चोपकुर्वन्ति शृङ्गैर्वालैश्च भारत ॥
नासां शीतातपौ स्यातां सदैताः कर्म कुर्वते ।
न वर्षविषयं वाऽपि दुःखमासां भवत्युत ॥
ब्राह्मणैः सहिता यान्ति तस्मात्पारमकं पदम् ।
एकं गोब्राह्मणं तस्मात्प्रवदन्ति मनीषिणः ॥
रन्तिदेवस्य यज्ञे ताः पशुत्वेनोपकल्पिताः ।
अतश्चर्मण्वती राजन्गोचर्मभ्यः प्रवर्तिता ।
पशुत्वाच्च विनिर्मुक्ताः प्रदानायोपकल्पिताः ॥
ता इमा विप्रमुख्येभ्यो यो ददाति महीपते ।
निस्तरेदापदं कृच्छ्रां विषमस्थोऽपि पार्थिव ॥
गवां सहस्रदः प्रेत्य नरकं न प्रपद्यते ।
सर्वत्र विजयं चापि लभते मनुजाधिप ॥
अमृतं वै गवां क्षीरमित्याह त्रिदशाधिपः ।
तस्माद्ददाति यो धेनुममृतं स प्रयच्छति ॥
अग्नीनामव्ययं ह्येतद्धौम्यं वेदविदो विदुः ।
तस्माद्ददाति यो धेनुं स हौम्यं सम्प्रयच्छति ॥
स्वर्गो वै मूर्तिमानेष वृषभं यो गवां पतिम् ।
विप्रे गुणयुते दद्यात्स वै स्वर्गे महीयते ॥
प्राणा वै प्राणिनामेते प्रोच्यन्ते भरतर्षभ ।
तस्माद्ददाति यो धेनुं प्राणानेष प्रयच्छति ॥
गावः शरण्या भूतानामिति वेदविदो विदुः ।
तस्माद्ददाति यो धेनुं शरणं सम्प्रयच्छति ॥
न वधार्थं प्रदातव्या न कीनाशे न नास्तिके ।
गोजीविने न दातव्या तथा गौर्भरतर्षभ ।
`गोरसानां न विक्रेतू रसं च यजनस्य च ॥'
ददत्स तादृशानां वै नरो गां पापकर्मणाम् ।
अक्षयं नरकं यातीत्येवमाहुर्महर्षयः ॥
न कृशां नापवत्सां वा वन्ध्यां रोगान्वितां तथा ।
न व्यङ्गां न परिश्रान्तां दद्याद्गां ब्राह्मणाय वै ॥
दशगोसहस्रदः सम्यक् शक्रेण सह मोदते ।
अक्षयाँल्लभते लोकान्नरः शतसहस्रशः ॥
इत्येतद्गोप्रदानं च तिलदानं च कीर्तितम् ।
तथा भूमिप्रदानं च शृणुष्वान्ने च भारत ॥
अन्नदानं प्रधानं हि कौन्तेय परिचक्षते ।
अन्नस्य हि प्रदानेन रन्तिदेवो दिवं गतः ॥
श्रान्ताय क्षुधितायान्नं यः प्रयच्छति भूमिप ।
स्वायंभुवं महात्स्थानं स गच्छति नराधिप ॥
न हिरण्यैर्न वासोभिर्नान्यदानेन भारत ।
प्राप्नुवन्ति नराः श्रेयो यथा ह्यन्नप्रदाः प्रभो ॥
अन्नं वै प्रथमं द्रव्यमन्नं श्रीश्च परा मता ।
अन्नात्प्राणः प्रभवति तेजो वीर्यं बलं तथा ॥
सद्यो ददाति यश्चान्नं सदैकाग्रमना नरः ।
न स दुर्गाण्यवाप्नोतीत्येवमाह पराशरः ॥
अर्चयित्वा यथान्यायं देवेभ्योऽन्नं निवेदयेत् ।
यदन्ना हि नरा राजंस्तदन्नास्तस्य देवतः ॥
कौमुद्यां शुक्लपक्षे तु योऽन्नदानं करोत्युत ।
स सन्तरति दुर्गाणि प्रेत्य चानन्त्यमश्नुते ॥
अभुक्त्वाऽतिथेये चान्नं प्रयच्छेद्यः समाहितः ।
स वै ब्रह्मविदां लोकान्प्राप्नुयाद्भरतर्षभ ॥
सुकृच्छ्रामापदं प्राप्तश्चान्नदः पुरुषस्तरेत् ।
पापं तरति चैवेह दुष्कृतं चापकर्षति ॥
इत्येतदन्नदानस्य तिलदानस्य चैव ह ।
भूमिदानस्य च फलं गोदानस्य च कीर्तितम् ॥ ॥
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि एकाधिकशततमोऽध्यायः ॥ 101 ॥
7-101-7 वै पुण्यं पितृलोके महीयते इति ध.पाठः ॥ 7-101-9
सर्वकामैश्च जयति यस्तिलैरिति नच कामेन दातव्यमिति च ध.पाठः ॥ 7-101-22 इमं
हिमवत्सन्निहितम् ॥ 7-101-27 प्रतिश्रयो वासार्थं स्थलम् ॥ 7-101-33 तद्भूमिं
परकीयां भूमिं वा यो निर्वपेत् पितृभिः पितृभ्यो दद्यात्तर्हि तच्छ्राद्धं
तद्भूमिदानाख्यं कर्म चोभयं विहन्यते वृथा भवति ॥ 7-101-34 तस्यां क्रीतायाम् ॥ 7-101-46 आकुञ्चितमपि ह्येतद्धव्यं वेदविदो विदुरिति ध.पाठः ॥ 7-101-56
स्वयंभुवं महाभागं स पश्यति नराधिपेति ध.पाठः ॥ 7-101-58 अन्नं वै परमं दैवमिति
ध.पाठः ॥
श्रीः