अध्यायः 102

अथ दानधर्मपर्व ॥ 1 ॥

भीष्मेण युधिष्ठिरम्प्रति जलप्रभाववर्णनपूर्वकं तद्दानप्रशंसनम् ॥ 1 ॥

युधिष्ठिर उवाच ।

श्रुतं दानफलं तात यत्त्वया परिकीर्तितम् ।
अन्नदानं विशेषेण प्रशस्तमिह भारत ॥
पानीयदानमेवैतत्कथं चेह महाफलम् ।
इत्येतच्छ्रोतुमिच्छामि विस्तरेण पितामह ॥
भीष्म उवाच ।
हन्त ते वर्तयिष्यामि यथावद्भरतर्षभ । गदतस्तन्ममाद्येह शृणु सत्यपराक्रम ।
पानीयदानात्प्रभृति सर्वं वक्ष्यामि तेऽनघ ॥
यदन्नं यच्च पानीयं सम्प्रदायाश्नुते फलम् ।
न ताभ्यां परमं दानं किञ्चिदस्तीति मे मनः ॥
अन्नात्प्राणभृतस्तात प्रवर्तन्ते हि सर्वशः ।
तस्मादन्नं परं लोके सर्वदानेषु कथ्यते ॥
अन्नाद्बलं च तेजश्च प्राणिनां वर्धते सदा ।
अन्नादानमतस्तस्माच्छ्रेष्ठमाह प्रजापतिः ॥
सावित्र्या ह्यपि कौन्तेय श्रूयते वचनं शुभम् ।
यच्चेदं नान्यथा चैतद्देव सत्रे महामखे ॥
अन्ने दत्ते नरेणेह प्राणा दत्ता भवन्त्युत ।
प्राणदानाद्धि परमं न दानमिह विद्यते ॥
श्रुतं हि ते महाबाहो लोमशस्यापि तद्वचः ।
प्राणान्दत्त्वा कपोताय यत्प्राप्तं शिबिना पुरा ॥
यां गतिं लभते दत्त्वा द्विजस्यान्न विशाम्पते ।
ततो विशिष्टां गच्छन्ति प्राणदा इति नः श्रुतं ॥
अन्नं चापि प्रभवति पानीयात्कुरुसत्तम ।
नीरजातेन हि विना न किञ्चित्सम्प्रवर्तते ॥
नीरजातश्च भगवान्सोमो ग्रहगणेश्वरः ।
अमृतं च सुधा चैव सुधा चैवामृतं तथा ॥
अन्नौषध्यो महाराज वीरुधश्च जलोद्भवाः ।
यतः प्राणभृतां प्राणाः सम्भवन्ति विशाम्पते ॥
देवानाममृतं ह्यन्नं नागानां च सुधा तथा ।
पितॄणां च स्वधा प्रोक्ता पशूनां चापि वीरुधः ॥
अन्नमेव मनुष्याणां प्राणानाहुर्मनीषिणः ।
तच्च सर्वं नरव्याघ्र पानीयात्सम्प्रवर्तते ॥
तस्मात्पानीयदानाद्वै न परं विद्यते क्वचित् ।
तच्च दद्यान्नरो नित्यं यदीच्छेद्भूतिमात्मनः ॥
धन्यं यशस्यमायुष्यं जलदानमिहोच्यते ।
शत्रूंश्चाप्यधि कौन्तेय सदा तिष्ठति तोयदः ॥
सर्वकामानवाप्नोति कीर्तिं चैव हि शाश्वतीम् ।
प्रेत्य चानन्त्यमश्नाति पापेभ्यश्च प्रमुच्यते ॥
तोयदो मनुजव्याघ्र स्वर्गं गत्वा महाद्युते ।
अक्षयान्समवाप्नोति लोकानित्यब्रवीन्मनुः ॥ ॥

इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्व्यधिकशततमोऽध्यायः ॥ 102 ॥

7-102-11 नीरजातेन जलोद्भवेन धान्यादिना ॥ 7-102-12 स्वधा चैव सुरा तथेति ध.पाठः ॥

श्रीः